कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अभ्यग्र

abhyagraक्ली · neut.

In 11 kośas: 11 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.103 · p. 55
पार्श्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसंनिकर्षः ।सदेशमभ्यग्रसनीडसंनिधानान्युपान्तं निकटोपकण्ठे ॥ १४५० ॥संनिकृष्टसमर्यादाभ्यर्णान्यासन्नसंनिधी ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.67
समीपे निकटासन्नसन्निकृष्टसनीडवत् ॥ ६६ ॥सदेशाभ्याशसविधसमर्यादसवेशवत् ।उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.692 · p. 80
समीपं सनीडं समर्यादमारात्,सदेशं सवेशं ससीमोपकण्ठम् ।तथाभ्यर्णमभ्यग्रमभ्याशमाहु-र्बुधाः सन्निधानान्तिके सन्निकृष्टम् ॥ ६९२ ॥
भुजङ्गप्रयातम्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.6 · p. 22
समीपं सनीडं सवेशं सदेशंतथाभ्यर्णमभ्याशमभ्यासमुक्तम् ।समर्यादमासन्नमभ्यग्रमस्मिं-स्त[था]संनिकृष्टं भवेदन्तिकं च ॥ ६ ॥
भुजङ्गप्रयातम्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.338 · p. 94
समीपसंनिधानोपकण्ठाभ्यग्राणि संनिधिः ।उपान्त्यसविधे पार्श्वमुपान्तनिकटे अपि ॥ ३३८ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.692 · p. 116
उपकण्ठेऽन्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ।सक्तेऽपदान्तरं नेदिष्ठमन्तिकतमे मतम् ॥ ६९२ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2636 · p. 425
आसन्नं सन्निधानञ्च सदेशोऽभ्याशमित्यपि ।अभ्यग्रमऽभितोऽभ्यर्णमभ्यासो निकटं पुनः ॥ २६३६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.21 · p. 164
अभ्यग्राभ्यर्णसविधा उपकण्ठोऽभितोऽव्ययम् ।अथाव्यवहितं लग्नं संसक्तमपदान्तरम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1660 · p. 199
दक्षिणसरलोदारास्तुल्याः सुकलः स दातृभोक्ता यः ।अन्तिकनिकटसनीडाभ्यर्णाभ्यग्रोपकण्ठसविधास्तु ॥ १६६० ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.89 · p. 208
सद्यस्तने तु साद्यस्कप्रत्यग्राभ्यग्रशारदाः ।ह्यस्तनश्वस्तनाद्याः स्युर्ह्यआदिस्थेषु वस्तुषु ॥ ८९ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.140 · p. 212
प्रथमं चरमं पूर्वमित्याद्यप्येवमुन्नयेत् ।समीपनिकटाभ्यग्राभ्यर्णाभ्याशान्तिमा इव ॥ १४० ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.4.2 · p. 41
अभ्यग्रोऽभिमुखे नव्ये समीपेऽप्यधमः पुनः ।न्यूनेऽपि गर्हितेऽधीरः पुनर्भीरौ च चञ्चले ॥ २ ॥
अनुष्टुप्