अभ्यर्ण
abhyarṇaक्ली · neut.In 12 kośas: 12 synonym verses, 3 as a meaning of another word.
पार्श्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसंनिकर्षः ।सदेशमभ्यग्रसनीडसंनिधानान्युपान्तं निकटोपकण्ठे ॥ १४५० ॥संनिकृष्टसमर्यादाभ्यर्णान्यासन्नसंनिधी ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
समीपे निकटासन्नसन्निकृष्टसनीडवत् ॥ ६६ ॥सदेशाभ्याशसविधसमर्यादसवेशवत् ।उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
समीपं सनीडं समर्यादमारात्,सदेशं सवेशं ससीमोपकण्ठम् ।तथाभ्यर्णमभ्यग्रमभ्याशमाहु-र्बुधाः सन्निधानान्तिके सन्निकृष्टम् ॥ ६९२ ॥
भुजङ्गप्रयातम्
genderक्लीneut.
स्याच्चोपकण्ठमभ्यर्णं सदेशाभ्यग्रके पुनः ।अभ्यासमभ्याशमपि संसक्ते त्वपदान्तरम् ॥ १२४ ॥
अनुष्टुप्
genderविadj.
समीपं सनीडं सवेशं सदेशंतथाभ्यर्णमभ्याशमभ्यासमुक्तम् ।समर्यादमासन्नमभ्यग्रमस्मिं-स्त[था]संनिकृष्टं भवेदन्तिकं च ॥ ६ ॥
भुजङ्गप्रयातम्
genderक्लीneut.
समीपाभ्यासमासन्नमभ्यर्णं सन्निधिं विदुः ।अविदूरं च निकटमवलग्नमनन्तरम् ॥ १४१ ॥
अनुष्टुप्
genderक्लीneut.
उपकण्ठेऽन्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ।सक्तेऽपदान्तरं नेदिष्ठमन्तिकतमे मतम् ॥ ६९२ ॥
अनुष्टुप्
genderविadj.
समीपं निकटं पार्श्वं समयाभ्यर्णमन्तिकम् ।उपकण्ठं संनिधानोपान्ते सविधसंनिधी ॥ १०२ ॥
अनुष्टुप्
genderक्लीneut.
आसन्नं सन्निधानञ्च सदेशोऽभ्याशमित्यपि ।अभ्यग्रमऽभितोऽभ्यर्णमभ्यासो निकटं पुनः ॥ २६३६ ॥
अनुष्टुप्
genderक्लीneut.
अभ्यग्राभ्यर्णसविधा उपकण्ठोऽभितोऽव्ययम् ।अथाव्यवहितं लग्नं संसक्तमपदान्तरम् ॥
अनुष्टुप्
genderपुंmasc.
दक्षिणसरलोदारास्तुल्याः सुकलः स दातृभोक्ता यः ।अन्तिकनिकटसनीडाभ्यर्णाभ्यग्रोपकण्ठसविधास्तु ॥ १६६० ॥
गीतिः
genderविadj.
प्रथमं चरमं पूर्वमित्याद्यप्येवमुन्नयेत् ।समीपनिकटाभ्यग्राभ्यर्णाभ्याशान्तिमा इव ॥ १४० ॥
अनुष्टुप्
genderविadj.
अभ्यर्ण as a meaning in nānārtha verses
- कोषकल्पतरु अभ्यागमकान्ते चानुपमो विशेष्यसदृशः स्त्री सुप्रतीकस्त्रियां अभ्यर्णे च हतौ विरोधरणयोरभ्युद्गमेऽभ्यागमः । जीर्णे भुक्तसमुज्झिते च गदितो ना यातयामस्तथा कीनाशे दिवसे घटोद्भवमुनौ स्याद्दण्डयामोऽपि च ॥ ९३ ॥ Koṣakalpataru 6.25.93
- कोषकल्पतरु उपह्वरउपह्वरः स्यान्निकटे रहोर्थे क्लीबे रथे ना परवत्पुनः स्यात् । अभ्यर्णगन्तव्य इहापि देशे- ऽथेन्दीवरं नीलसरोरुहेऽन्त्ये ॥ १ ॥ Koṣakalpataru 6.27.1
- कोषकल्पतरु अभ्यासआख्यायिकापरिच्छेदेऽप्याश्वासो निर्वृते मतः । अभ्यासो निकटेऽभ्यर्णेऽथोच्छ्वासो गद्यबन्धके ॥ ९३ ॥ Koṣakalpataru 6.31.93