समीप
samīpaक्ली · neut.In 14 kośas: 9 synonym verses, 38 as a meaning of another word.
पार्श्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसंनिकर्षः ।सदेशमभ्यग्रसनीडसंनिधानान्युपान्तं निकटोपकण्ठे ॥ १४५० ॥संनिकृष्टसमर्यादाभ्यर्णान्यासन्नसंनिधी ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
समीपं सनीडं समर्यादमारात्,सदेशं सवेशं ससीमोपकण्ठम् ।तथाभ्यर्णमभ्यग्रमभ्याशमाहु-र्बुधाः सन्निधानान्तिके सन्निकृष्टम् ॥ ६९२ ॥
भुजङ्गप्रयातम्
genderक्लीneut.
समीपनिकटासन्नसनीडसविधानि च ।संनिकृष्टसमर्यादसवेशान्यभितोऽव्ययम् ॥ १२३ ॥
अनुष्टुप्
genderविadj.
समीपं सनीडं सवेशं सदेशंतथाभ्यर्णमभ्याशमभ्यासमुक्तम् ।समर्यादमासन्नमभ्यग्रमस्मिं-स्त[था]संनिकृष्टं भवेदन्तिकं च ॥ ६ ॥
भुजङ्गप्रयातम्
genderक्लीneut.
समीपाभ्यासमासन्नमभ्यर्णं सन्निधिं विदुः ।अविदूरं च निकटमवलग्नमनन्तरम् ॥ १४१ ॥
अनुष्टुप्
genderक्लीneut.
समीपसंनिधानोपकण्ठाभ्यग्राणि संनिधिः ।उपान्त्यसविधे पार्श्वमुपान्तनिकटे अपि ॥ ३३८ ॥
अनुष्टुप्
genderक्लीneut.
समीपं निकटं पार्श्वं समयाभ्यर्णमन्तिकम् ।उपकण्ठं संनिधानोपान्ते सविधसंनिधी ॥ १०२ ॥
अनुष्टुप्
genderक्लीneut.
समीपं सविधं पार्श्वं ससीममऽन्तिकं पुनः ।सनीडं सन्निकर्षश्च सन्निकृष्टं च सन्निधिः ॥ २६३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderक्लीneut.
प्रथमं चरमं पूर्वमित्याद्यप्येवमुन्नयेत् ।समीपनिकटाभ्यग्राभ्यर्णाभ्याशान्तिमा इव ॥ १४० ॥
अनुष्टुप्
genderविadj.
समीप as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् आरात्सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः ॥ २४३ ॥ Amarakośa 3.3.243
- नामलिङ्गानुशासनम् अमाअमा सह समीपे च कं वारिणि च मूर्धनि । Amarakośa 3.3.488
- नामलिङ्गानुशासनम् अभितस्समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ॥ २५६ ॥ Amarakośa 3.3.256
- हलायुधकोशः (अभिधानरत्नमाला) पक्षदेहावयवमासार्धपतत्रगृहभित्तिषु । परिग्रहे समीपे च पक्षः षट्सु निगद्यते ॥ ८४९ ॥ Abhidhānaratnamālā (Halāyudha) 5.849
- धरणिकोश अङ्कअङ्कः क्रोडे च चिह्ने च चित्रयुद्धसमीपयोः । नाटकग्रन्थविच्छेदे स्थानभूषणयोः क्वचित् ॥ Dharaṇikośa 1.3.2
- धरणिकोश अन्तिकअन्तिका नाट्यतो ज्येष्ठस्वसा चुह्लिरपि स्मृता । अन्तिकं तु समीपे स्यात्सामीप्ये च प्रयुज्यते ॥ Dharaṇikośa 1.3.15
- धरणिकोश कण्ठज्येष्ठो वृद्धेऽग्रजे श्रेष्ठे ज्येष्ठा च गृहयोधयोः । कण्ठो गले गलध्वाने कण्ठः फेणसमीपयोः ॥ Dharaṇikośa 11.2.3
- धरणिकोश अन्तकान्तौ प्रस्तरलोहकौ प्रियधवौ कान्ते प्रियङ्गुस्त्रियौ केतुश्चिह्नपताकयोश्च करणे केतुश्च शेषग्रहे । अन्तो नाश[स]मीपयोर्निगदितः प्रान्ते स्वरूपेऽप्यसौ द[न्तः] [34] सानुनिकुञ्जयोश्च दशने दन्ती स्मृता चौषधिः ॥ Dharaṇikośa 15.1.12
- धरणिकोश समर्यादअभिमर्दं विदुर्युद्धमभिमर्दोऽभिमर्दनम् । समर्यादं समीपं च मर्यादासहितं च यत् ॥ Dharaṇikośa 17.2.17
- धरणिकोश पार्श्वअविर्मेषे गिरौ सूर्ये ऋतुमत्यङ्गनाप्यविः । पार्श्वोऽवयवभेदः स्याच्चक्रोपायसमीपयोः ॥ Dharaṇikośa 28.2.5
- धरणिकोश आरात्स्वित्प्रश्ने च वितर्के स्यादाराद्दूरसमीपयोः । सकृत्सहैकवारे स्यात्साक्षात्प्रत्यक्षतुल्ययोः ॥ Dharaṇikośa 34.7.1
- धरणिकोश अनुअनु हीने सहार्थे च पश्चात्सादृश्ययोरनु । लक्षणादौ समीपेऽनु आया[112]मेऽनुक्रमेऽप्यनु ॥ Dharaṇikośa 34.11.3
- धरणिकोश उपअप स्यादपकृष्टार्थो वर्जनार्थोऽप्यप स्मृतः । उप समीपवाची स्यादुप हीनेऽधिकेऽप्युप ॥ Dharaṇikośa 34.12.1
- कोषकल्पतरु ऋधक्ईषदर्थे दुष्कृते च मनाङ्मन्देषदर्थयोः । धिग्भर्त्सने च निन्दायामृधक् शीघ्र-समीपयोः ॥ ८० ॥ Koṣakalpataru 5.1.80
- कोषकल्पतरु अन्तिकस्यादन्तिकं समीपे चुल्ल्यां ज्येष्ठस्वसरि च नाट्ये स्त्री । स्यात्स्वस्तिकश्चतुष्के गृहभेदे मङ्गलद्रव्ये ॥ ८८ ॥ Koṣakalpataru 6.1.88
- कोषकल्पतरु कण्ठपाठस्त्वधीतावथ विद्धकर्ण्यां स्त्रियां च वण्ठस्तु विवाहहीने । खर्वे च कुन्तेऽथ गले तु कण्ठो ध्वनौ समीपे मदनद्रुमे च ॥ ५४ ॥ Koṣakalpataru 6.11.54
- कोषकल्पतरु सनीडताडो द्रुभेदे नरि ताडने च । स्त्रियां तु ताडी विटपिप्रभेदे । स्थाने कुलाये त्रिषु नीडमाहुः सकारपूर्वं तु समीपवाचि ॥ ७० ॥ Koṣakalpataru 6.12.70
- कोषकल्पतरु समर्यादविश्वासे च नियोजने निगदितो विद्वद्भिरुक्तस्तथा वीणावादनवस्तुनीह * परीवादः कलङ्केऽपि च । मर्यादासहिते तथा त्रिषु समर्यादः समीपे भवे- दातोद्ये पुटभेद एष नगरे चक्रे नदीनामपि ॥ ४३ ॥ Koṣakalpataru 6.19.43
- नानार्थार्णवसंक्षेप अङ्कअङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः । रूपकाणां विशेषे च नाटकादेश्च पर्वसु ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 2.2.6
- नानार्थार्णवसंक्षेप आशासमीपे सज्जनः प्राह भुक्तिव्याप्त्योस्तु पुंस्ययम् । आस्या स्यादासनायां स्त्री मुखे मुखबिले च नप् ॥ ६४ ॥ Nānārthārṇavasaṃkṣepa 2.5.64
- नानार्थार्णवसंक्षेप नेमना त्रिस्तु भृतके नेमस्त्वन्ने वज्रे पुरोहिते । अर्धे च ना त्रिः सदृशे समीपे चाथ खे नपि ॥ ६९९ ॥ Nānārthārṇavasaṃkṣepa 2.5.699
- नानार्थार्णवसंक्षेप मूलधानुष्कहस्तविन्यासभेदे ग्राह्ये च मुष्टिना । द्रव्ये मूलं तु नप्यन्ये पुंस्यप्यादिसमीपयोः ॥ १०१२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1012
- नानार्थार्णवसंक्षेप अभ्यग्रअभ्यग्रोऽभिमुखे नव्ये समीपेऽप्यधमः पुनः । न्यूनेऽपि गर्हितेऽधीरः पुनर्भीरौ च चञ्चले ॥ २ ॥ Nānārthārṇavasaṃkṣepa 3.4.2
- नानार्थार्णवसंक्षेप अन्तिकवियोगे विधुरे तु त्रिर्योगहीनेऽपि लोहगे । अन्तिका तु स्त्रियां चुल्ल्यां समीपे भेद्यलिङ्गिका ॥ ६८ ॥ Nānārthārṇavasaṃkṣepa 4.68
- नानार्थार्णवसंक्षेप समर्यादगर्विते पण्डितम्मन्ये समुन्नद्ध उदीरितः । समर्यादं समीपे स्यान्मर्यादासहिते तथा ॥ २८ ॥ Nānārthārṇavasaṃkṣepa 6.28
- नानार्थार्णवसंक्षेप उपह्वरफलवल्लीविशेषे(ण ? च) चीर्णवृन्त इति श्रुते । उपह्वरोऽस्त्री रहसि समीपेऽथो उपासना ॥ ९१ ॥ Nānārthārṇavasaṃkṣepa 6.91
- परमानन्दीयनाममाला अङ्कअर्कः शक्रे रवौ वृक्षान्तरे स्फटिकताम्रयोः । अंशुर्दिवाकरे रश्मावङ्कश्चिह्नसमीपयोः ॥ ६ ॥ Paramānandīyanāmamālā 5.1.6
- परमानन्दीयनाममाला कण्ठऋग्भेदे वेदवित्पाठे कण्ठः स्यान्मदनद्रुमे । घोषे गले समीपे च कार्यं हेतौ प्रयोजने ॥ ८९ ॥ Paramānandīyanāmamālā 5.7.89
- शब्दरत्नावली समर्यादविशारदः पुंसि धृष्टे पण्डितेऽपि भवेत्पुमान् । भवेद्विष्णुपदं खेतु क्षीरोदेऽपि च न द्वयोः ॥ तथा भागिरथी सूर्यसंक्रान्तिभेदयोः स्त्रियाम् । शतानन्दः पुमान् कृष्णे मुनि भेदे च पुंस्ययम् ॥ भवेच्छतह्रदा वज्रे सौदामन्यामपि स्त्रियाम् । समर्यादः समीपे ना मर्यादासंयुते त्रिषु ॥ Śabdaratnāvalī 7.18.29
- शब्दरत्नावली आरात्आराद्दूरे समीपे च तथाभ्यन्तरगाढयोः । स्यात्कच्चिन्मङ्गले प्रश्ने हर्षे कामप्रवेदने ॥ पश्चात्प्रतीच्याञ्चरमे त्वधिकारे च दृश्यते । यदुत्प्रश्ने वितर्के च प्रकारार्थोपमानयोः ॥ Śabdaratnāvalī 8.1.28
- शब्दरत्नावली अनुअनु लक्षणसादृश्यपश्चादर्थेष्वनुक्रमे । वीप्सा सहार्थभागार्थभूतेष्वाख्यासमीपयोः ॥ Śabdaratnāvalī 8.1.40
- शब्दरत्नावली उपअप चौर्ये च निर्देशे विकृतौ च विपर्यये । विनियोगे वर्जनार्थे हर्षापकृष्टयोरपि ॥ अपि सम्भावनाशङ्काप्रश्नगर्हासमुच्चये । कामचारक्रियायुक्तपदार्थे च निगद्यते ॥ उप दाक्षिण्यसामर्थ्यहीवात्मय … । अधिकार्थे समीपे च दाषाख्याननिदर्शने । आश्चर्यकरणे दाने मारणे व्याप्तिलिप्सयोः ॥ उपमारम्भपूजासु भवेदुद्योग इत्यपि । Śabdaratnāvalī 8.1.44
- शब्दरत्नावली अन्तराअन्तरङ्गीकृतौ मध्ये व्यवधानेऽपि दृश्यते । अन्तरा तु विनार्थे स्यात्समीपमध्योरपि ॥ प्रादुः प्राकाश्यसम्भाव्यवृत्तिष्वपि निगद्यते । पुनरप्रथमे भेदे पक्षान्तराधिकारयोः ॥ Śabdaratnāvalī 8.1.54
- शब्दरत्नाकर पार्श्वपर्व पञ्चदशीग्रन्थ्योः प्रस्तावे विषुवादिके । पार्श्वमस्त्री समीपे च प्रजा तु जनपुत्रयोः ॥ १९६१ ॥ Śabdaratnākara 4.1.1961
- शब्दरत्नाकर आरात्आहो निन्दाहेतुचित्रेष्वाराद्दूरसमीपयोः । इति हेतौ प्रकरणे प्रकारादिसमाप्तिषु ॥ २२६४ ॥ Śabdaratnākara 5.2.2264
- वैजयन्ती पार्श्वपार्श्वमस्त्री समीपेऽपि पृज्यः श्वशुरमान्ययोः । स्नेहे केलौ प्रेम न स्त्री पीतिः पाने हये तु ना ॥ ५१ ॥ Vaijayantī 6.5.51
- वैजयन्ती आरात्लक्षणेऽप्यनु वीप्सादित्रयेऽप्यभिमुखेप्यभि । अतो निन्दाहेतुचित्रेष्वाराद्दूरसमीपयोः ॥ १६ ॥ Vaijayantī 8.7.16
- वैजयन्ती अभितस्अञ्जसा त्वरिते तत्वेऽप्यहहाद्भुतखेदयोः । समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ॥ ३१ ॥ Vaijayantī 8.7.31