कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निकट

nikaṭaक्ली · neut.

In 14 kośas: 12 synonym verses, 24 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.103 · p. 55
पार्श्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसंनिकर्षः ।सदेशमभ्यग्रसनीडसंनिधानान्युपान्तं निकटोपकण्ठे ॥ १४५० ॥संनिकृष्टसमर्यादाभ्यर्णान्यासन्नसंनिधी ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.67
समीपे निकटासन्नसन्निकृष्टसनीडवत् ॥ ६६ ॥सदेशाभ्याशसविधसमर्यादसवेशवत् ।उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.123 · p. 227
समीपनिकटासन्नसनीडसविधानि च ।संनिकृष्टसमर्यादसवेशान्यभितोऽव्ययम् ॥ १२३ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.155 · p. 478
पिष्टलोष्टतुराणां च सहैव निकटेन च ।मुण्डमण्डाण्डचूडानां दृढस्य श्रवणस्य च ॥ १५५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.71 · p. 22
निकटं सविधमुपान्तं तथोपकण्ठं च संनिधानं च ।पार्श्वं च संनिकर्षः पुंसि तथा संनिधिश्चात्र ॥ ७१ ॥
आर्या
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.10 · p. 112
वटस्तु गोलभक्ष्यादौ पिटिकावाचकः पिटः ।विटं च नि[232a] कटं कोट्टं कुष्ठं कमठमीरितम् ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.doubtful
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 141 · p. 69
समीपाभ्यासमासन्नमभ्यर्णं सन्निधिं विदुः ।अविदूरं च निकटमवलग्नमनन्तरम् ॥ १४१ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.338 · p. 94
समीपसंनिधानोपकण्ठाभ्यग्राणि संनिधिः ।उपान्त्यसविधे पार्श्वमुपान्तनिकटे अपि ॥ ३३८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.102 · p. 44
समीपं निकटं पार्श्वं समयाभ्यर्णमन्तिकम् ।उपकण्ठं संनिधानोपान्ते सविधसंनिधी ॥ १०२ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2636 · p. 425
आसन्नं सन्निधानञ्च सदेशोऽभ्याशमित्यपि ।अभ्यग्रमऽभितोऽभ्यर्णमभ्यासो निकटं पुनः ॥ २६३६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1660 · p. 199
दक्षिणसरलोदारास्तुल्याः सुकलः स दातृभोक्ता यः ।अन्तिकनिकटसनीडाभ्यर्णाभ्यग्रोपकण्ठसविधास्तु ॥ १६६० ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.140 · p. 212
प्रथमं चरमं पूर्वमित्याद्यप्येवमुन्नयेत् ।समीपनिकटाभ्यग्राभ्यर्णाभ्याशान्तिमा इव ॥ १४० ॥
अनुष्टुप्
genderविadj.

निकट as a meaning in nānārtha verses

  • धरणिकोश सदेशसदेशसवेशौ निकटे देशवेशान्वितौ क्रमात् । निर्वेशस्तु भृतौ भोगे क्वापि सम्मूर्च्छने स्मृतः ॥ Dharaṇikośa 29.2.9
  • धरणिकोश अभ्यासवायसी काकमाची स्यादभ्यासो निकटेऽपि च । उदर्चिरुत्प्रभे वह्नौ दिवौकाश्चातके सुरे । निःश्रेयसं शिवो मोक्षः श्वःश्रेयसं शिवं सुखम् ॥ Dharaṇikośa 31.1.9
  • धरणिकोश निकषादोषा रात्रिमुखे रात्रौ स्यादनव्ययमप्यसौ । निकषा निकटे ख्यातो रक्षोमातर्यनव्ययम् ॥ Dharaṇikośa 34.19.2
  • कोषकल्पतरु अमाप्रबाहुकं स्यात्समकाल ऊर्द्ध्वे प्रकारसादृश्यसमार्थमेवम् । जोषं तु तूष्णींभवने सुखे[स्या]- दमा सहार्थे निकटार्थके च ॥ ७ ॥ Koṣakalpataru 5.1.7
  • कोषकल्पतरु पुराप्राधान्यहिंसागतिधर्षणेषु प्रातीप्यवैमुख्यभृशाभिमुख्ये । विमोक्षविक्रान्तिवधे परा स्या- त्पुरा पुराणे निकटेऽप्यतीते ॥ १४ ॥ Koṣakalpataru 5.1.14
  • कोषकल्पतरु अङ्गवपुष्युपाये निकटे प्रतीके गौणे तथाङ्गं नरि भूम्नि देशे । तुङ्गस्तु पुंनागनगज्ञवाची तुङ्गी निशाबर्बरयोस्त्रिषूचे ॥ २०० ॥ Koṣakalpataru 6.3.200
  • कोषकल्पतरु अन्तछन्दस्यपि स्त्री न दृढे त्वतीते मृते वृते वर्तुलकेऽन्यवच्च । अन्तो विनाशे चरमे स्वरूपे प्रान्ते तु न स्त्री निकटे त्रिलिङ्ग्याम् ॥ ३० ॥ Koṣakalpataru 6.16.30
  • कोषकल्पतरु उपह्वरउपह्वरः स्यान्निकटे रहोर्थे क्लीबे रथे ना परवत्पुनः स्यात् । अभ्यर्णगन्तव्य इहापि देशे- ऽथेन्दीवरं नीलसरोरुहेऽन्त्ये ॥ १ ॥ Koṣakalpataru 6.27.1
  • कोषकल्पतरु मूलसैन्यस्य पृष्ठेऽप्यथ तूलमस्त्री पिचावथ ब्रह्मतरौ च खेऽन्त्ये । मूलं च न स्त्री भभिदि प्रतिष्ठा- स्वादौ शिफायां निकटे निकुञ्जे ॥ ६९ ॥ Koṣakalpataru 6.28.69
  • कोषकल्पतरु संदेशसंदेश उक्तो निकटे च देशे स्याच्छासनोपांशुगिरोर्निर्देशः । आदर्श उक्तो नरि दर्पणेऽपि स्याट्टिप्पणे च प्रतिपुस्तकेऽपि ॥ २२ ॥ Koṣakalpataru 6.30.22
  • कोषकल्पतरु अभ्यासआख्यायिकापरिच्छेदेऽप्याश्वासो निर्वृते मतः । अभ्यासो निकटेऽभ्यर्णेऽथोच्छ्वासो गद्यबन्धके ॥ ९३ ॥ Koṣakalpataru 6.31.93
  • नानार्थार्णवसंक्षेप उपोढऊढे च पीवरे चाथो उपोढो निकटोढयोः । उषितं न्युपिते दग्ध इति सर्चे निघण्टवः ॥ १३ ॥ Nānārthārṇavasaṃkṣepa 3.4.13
  • परमानन्दीयनाममाला अन्तअगः सूर्ये द्रुमे सर्पे पर्वतेऽन्तः स्वरूपके । प्रान्तावयवोर्नाशे निश्चये निकटेऽपि च ॥ ८ ॥ Paramānandīyanāmamālā 5.1.8
  • शब्दरत्नावली अन्तिकअंशूकं सूक्ष्मवसने वस्त्रमात्रोत्तरीययोः । अन्तिकं वाच्यलिङ्गन्तु निकटे शातलौषधे ॥ Śabdaratnāvalī 7.1.28
  • शब्दरत्नावली उपोढआलीढः स्यात्पदन्यासभेदे चाप्यक्षिते त्रिषु । उदूढः स्थूल ऊढे स्यादुपोटो निकटोढयोः ॥ Śabdaratnāvalī 7.14.6
  • शब्दरत्नावली अभ्यागमस्त्री सुप्रतीकहस्तिन्यां श्रेष्ठत्वनुपमस्त्रिषु । वैराघातनिकटाभ्युत्थानेऽप्यभ्यागमः पुमान् ॥ Śabdaratnāvalī 7.25.45
  • शब्दरत्नावली मूलमालः क्षेत्रजातिभिदोर्माला पृक्कास्रजोरपि । मूलमाद्ये शिफायाञ्च निकटेभेतु नास्त्रियाम् ॥ Śabdaratnāvalī 7.28.32
  • शब्दरत्नावली समयाअयि सम्बोधने सानुनयप्रश्नानुरागयोः ॥ अये विषादे क्रोधे च स्मृतौ सम्बोधनेऽपि च । पश्य प्रशंसास्मययोर्दिष्ट्या मङ्गलहर्षयोः ॥ समया निकटे मध्ये कालविज्ञायनेऽपि च । Śabdaratnāvalī 8.1.51
  • शब्दरत्नावली पुराआलिङ्गने निरसने पूजा सन्तोषभाषणे । परा प्राधान्यमोक्षाभिमुख्यविक्रमहर्षणे ॥ प्रातिलोम्ये भृशार्थे च तथा गतिवधार्थयोः । पुरा पुराणे निकटे प्रबन्धातीतभाविषु ॥ स्वराकाशे शोभने च स्वर्गेऽपि च भावान्तरे ॥ Śabdaratnāvalī 8.1.53
  • शब्दरत्नाकर पुराप्रबन्धे निकटेऽतीते पुराणानागते पुरा । पुनरप्रथमे पश्ने व्यावृत्ताववधारणे ॥ २२७१ ॥ Śabdaratnākara 5.2.2271
  • त्रिकाण्डशेष अन्तिकअन्तिकं निकटे चुल्ल्यां नाटयोक्तौ चाग्रजन्तिका । अनीकोऽत्री रणे सैन्ये गौर्यां मातरि चाम्बिका ॥ ३ ॥ Trikāṇḍaśeṣa 3.3.3
  • त्रिकाण्डशेष मूलमेखलाद्रिनितम्बेऽपि ग्रहे ना मङ्गलं शुभे । निकटेऽपि च मूलं स्याद्धुस्तूरेऽपि च मातुलः ॥ ४०५ ॥ Trikāṇḍaśeṣa 3.3.405
  • वैजयन्ती उपोढउदूढावूढपृथुलावुत्तमौ प्रवरान्तिमौ । महत्युदात्त उच्चोक्तेऽप्युपोढो निकटोढयोः ॥ ६ ॥ Vaijayantī 7.4.6
  • वैजयन्ती पुरानाम प्रकाश्यसंभाव्यक्रोधोपगमकुत्सने । प्रबन्धे निकटेऽतीते पुराणेऽनागते पुरा ॥ २३ ॥ Vaijayantī 8.7.23