अवर्ण
avarṇaपुं · masc.In 11 kośas: 11 synonym verses.
स्यादवर्ण उपक्रोशे वादो निःपर्यपात्परः ।गर्हणा धिक्क्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥ २७१ ॥
अनुष्टुप्
genderपुंmasc.
अवर्णाक्षेपनिर्वादपरीवादापवादवत् ।उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
मालकः पञ्चमो मारः परांसुः (परासु) पशुभक्षकः ।अवर्णोऽन्त्यजनो दूरो हिंसारुः परिकीर्तितः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
स्यादवर्ण उपक्रोशो वादो निःपर्यवात्परः ।गर्हणा धिक्क्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
विकल्प(त्थ?)नं मृषाश्लाघा निन्दा कुत्सा च धिक्कृतिः ।जुगुप्सा गर्ह[45a]णा क्षेपोऽपवादोऽवर्ण इत्यपि ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परिवादापवादौ च निर्वादावर्णधिक्क्रियाः ।कुत्साक्रोशौ तथा गालिं विरुद्धवचनं विदुः ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
अवर्णस्त्वपवादे स्यात्काकुर्भीत्यादिसंभवः ।अनुलापो मुहुर्भाषा प्रलापोऽनर्थवाग्भवेत् ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
निर्वादः परिवादश्चाऽवर्णः क्षेपश्च कथ्यते ।स्यादाऽक्रोशस्तथाऽऽक्षेपः शापस्तथाभिषङ्गकः ॥ ३९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
genderपुंmasc.
कुत्सनं परिवादः स्यात् परीवादो जुगुप्सनम् ।आक्षेपावर्णनिर्वादा उपक्रोशश्च भर्त्सनम् ॥
अनुष्टुप्
genderपुंmasc.
आक्षेपावर्णनिर्वादपरिवादापवादकाः ।क्लीबे विगानकौलीने अभिशापोऽभिशंसनम् ॥ ९११ ॥
अनुष्टुप्
genderपुंmasc.
मिथ्याभियोगोऽभिख्यानमभिशापोऽभिशंसनम् ।शापोऽधिक्षेप आक्रोशः परिवादोऽप्यवर्णवत् ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.