कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुत्सा

kutsāस्त्री · fem.

In 15 kośas: 11 synonym verses, 1 as a nānārtha head word, 17 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.271 · p. 15
स्यादवर्ण उपक्रोशे वादो निःपर्यपात्परः ।गर्हणा धिक्क्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥ २७१ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.13
अवर्णाक्षेपनिर्वादपरीवादापवादवत् ।उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.83 · p. 448
स्यादवर्ण उपक्रोशो वादो निःपर्यवात्परः ।गर्हणा धिक्क्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.41 · p. 69
विकल्प(त्थ?)नं मृषाश्लाघा निन्दा कुत्सा च धिक्कृतिः ।जुगुप्सा गर्ह[45a]णा क्षेपोऽपवादोऽवर्ण इत्यपि ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.188 · p. 28
परिवादापवादौ च निर्वादावर्णधिक्क्रियाः ।कुत्साक्रोशौ तथा गालिं विरुद्धवचनं विदुः ॥ १८८ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.25 · p. 4
आम्रेडितं बहुततं पौनरुक्त्ये प्रकीर्तितम् ।निन्दावाचि विगर्हा स्यात्कुत्सा चापि विगर्हणा ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.360 · p. 25
प्रच्छा प्रश्नोऽनुयोगाख्यः प्रत्युक्तिः प्रतिवाचिकम् ।जनःश्रुतिः किंवदन्ती कुत्सा निन्दाविगर्हणे ॥ ३६० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.392 · p. 50
उपक्रोशोऽपवादश्च गर्हा गर्हश्च गर्हणा ।जुगुप्सनं जुगुप्सा च निन्दा कुत्सा च धिक्क्रिया ॥ ३९२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.377 · p. 27
शोकभीत्यादिभिः शब्दविकारे काकुरीरिता ।कुत्सा निन्दा जुगुप्सा च गर्हा गर्हणनिन्दने ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.912 · p. 114
शापोऽधिक्षेप आक्रोश उपक्रोशो विगर्हणा ।कुत्सा निन्दा जुगुप्सा च लोटना सानुसारवाक् ॥ ९१२ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.193 · p. 99
क्लेशायासौ जुगुप्सा तु हृणीया हृणिया घृणा ।ऋतिः कुत्साप्युपक्रोशो गर्हा दोषश्च गर्हणा ॥ १९३ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.240 · p. 63
नीवृद्भेदे दाक्षिणात्ये मध्यदेशस्थितेऽपि च ।उदग्देशस्थिते चाथ कुत्सा स्त्री निन्दनेऽथ ना ॥ २४० ॥
अनुष्टुप्

कुत्सा as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् कुपापकुत्सेषदर्थे कु धिङ्निर्भर्त्सननिन्दयोः ॥ २४१ ॥ Amarakośa 3.3.241
  • हलायुधकोशः (अभिधानरत्नमाला) काण्डअभिधेयाभिप्रायप्रयोजनद्रव्यवाचकेष्वर्थः । प्रस्तावे संघाते कुत्सायामायुधे जले काण्डम् ॥ ८६७ ॥ Abhidhānaratnamālā (Halāyudha) 5.867
  • धरणिकोश निन्दाभद्रं सुखे च कल्याणे निन्दा कुत्सापवादयोः । सम्पल्लक्ष्म्यां गुणोत्कर्षे शरत्संवत्सरे ऋतौ ॥ Dharaṇikośa 17.1.3
  • धरणिकोश किम्मः शिवो मा तु लक्ष्मीः स्यान्मा निषेधेऽव्ययं स्मृतम् । किंशब्द इष्यते क्षेपे प्रश्ने कुत्सावितर्कयोः ॥ Dharaṇikośa 24.2.1
  • कोषकल्पतरु कुलृ मङ्गलेऽथो ए ऐस्तः स्मृत्यामन्त्रण-हूतिषु । संबुद्ध्याह्वानयोरो औ कुस्तु वारणकुत्सयोः ॥ ७९ ॥ Koṣakalpataru 5.1.79
  • नानार्थार्णवसंक्षेप किम्अथाभिधेयलिङ्गे स्तो द्वे एवैकाक्षरे मते । किं प्रश्नाक्षेपकुत्सानां वितर्कस्य च गोचरे ॥ १ ॥ Nānārthārṇavasaṃkṣepa 1.4.1
  • नानार्थार्णवसंक्षेप निन्दानिशा रात्रौ हरिद्रायां निन्दा कुत्सापवादयोः । निधा निधाने पाश्यायां पाश्या पाशकदम्बकम् ॥ ६० ॥ Nānārthārṇavasaṃkṣepa 2.1.60
  • परमानन्दीयनाममाला नामन्नगो भूध्रे तरौ नाम कुत्साख्यामन्त्रणेष्वथ । निर्वेशो मूर्च्छने स्तूपभोगेऽथ निगमः पुरे ॥ २६९ ॥ Paramānandīyanāmamālā 5.18.269
  • शब्दरत्नावली निन्दानिन्दा स्थियान्तु कुत्सायामपवादे च दुष्कृतौ । पदं वाक्ये व्यवसाये शब्दप्रदेशयोरपि ॥ पादे च पादचिह्णो च स्थाने त्राणे च वस्तुनि । अङ्के च श्लोकपादे च क्लीबं स्यात्किरणे पुमान् ॥ Śabdaratnāvalī 7.18.3
  • शब्दरत्नावली कक कुत्सायामीषदर्थे पापवारणयोरपि ॥ Śabdaratnāvalī 8.1.14
  • शब्दरत्नावली ?किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
  • शब्दरत्नावली हह पादपूरणे कुत्सानियोगक्षेपनिग्रहे । हा विषादे शोककुत्सादुःखार्थेषु निगद्यते । हि सम्भ्रमासूययोः स्यात्पादपूरणशोकयोः ॥ Śabdaratnāvalī 8.1.61
  • शब्दरत्नाकर कुप्रश्ने क्षेपे विकल्पे किं कुः पापेऽल्पार्थकुत्सयोः । चान्वाचये समाहारे मिथोयोगे समुच्चये ॥ २२५२ ॥ Śabdaratnākara 5.1.2252
  • तन्त्राभिधान कु----------------------------------- पृथिव्यां कुः समाख्याता कुत्सायां कुः प्रकीर्त्तितः । ख-मिन्द्रियं समाख्यातं खमाकाशमुदाहृतम् ॥ ७ ॥ Tantrābhidhāna 3.7
  • वैजयन्ती निन्दानिष्ठोत्कर्षे व्यवस्थायां नाशेऽन्ते व्रतयज्ञयोः । भित्तिमूले प्रधौ नेमिर्निन्दा कुत्सापवादयोः ॥ २१ ॥ Vaijayantī 6.2.21
  • वैजयन्ती किम्सन् सत्येऽभ्यर्हिते श्रेष्ठे साधीयसि भवत्यपि । किं प्रश्नाक्षेपकुत्सानां वितर्कस्य च गोचरे ॥ १६ ॥ Vaijayantī 8.4.16
  • वैजयन्ती कुओं स्याद्ब्रह्मण्यनुज्ञायां के सुखेंऽभसि मूर्ध्नि च । प्रश्ने क्षेपे विकल्पे किं कु पापेऽल्पार्थकुत्सयोः ॥ ३ ॥ Vaijayantī 8.7.3