कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कौलीन

kaulīnaक्ली · neut.

In 12 kośas: 6 synonym verses, 9 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.270 · p. 15
जनप्रवादः कौलीनं विगानं वचनीयता ॥ २७० ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.147 · p. 18
अनादिवार्त्ता ह्यैतिह्यं किंवदन्ती जनश्रुतिः ।कौलीनं जनवादः स्याद्विगानं वचनीयता ॥ १४७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.82 · p. 448
क्लीबे स्तोत्रं चार्थवादः सा तु मिथ्याविकत्थनम् ।जनप्रवादः कौलीनं वगानं वचनीयता ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.24 · p. 67
जनश्रुतिः किंवदन्ती निन्द्या त्वेषाभिशंसनम् ।लोकापवादः कौलीनं विगानं वचनीयता ॥ २४ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.127 · p. 32
उपक्रोशोऽवर्णवादः कौलीनं वचनीयता ।जुगुप्सा गर्हणा निन्दा निर्वादश्चापवादवत् ॥ १२७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.911 · p. 114
आक्षेपावर्णनिर्वादपरिवादापवादकाः ।क्लीबे विगानकौलीने अभिशापोऽभिशंसनम् ॥ ९११ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.116
स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ ११६ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.39 · p. 115
कौपीनं च विनिर्दिष्टमकार्यं गुह्यचीरयोः ।कौलीनं पशुभिर्युद्धे कुलीनत्वापवादयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.70 · p. 257
स्यात्साधनं कारणवित्तयोश्चलोकापवादे तु रणे पशूनाम् ।शुनामहीनां च पतत्रिणां चकौलीनमाम्नातमथो अकार्ये ॥ ७० ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.71 · p. 257
स्याद्गुह्यगुह्याम्बरयोस्तथैवकौपीनमन्त्ये प्रवदन्ति सन्तः ।विक्लिन्न उक्तौ जरसातिजीर्णेशीर्णे तथार्द्रे परलिङ्गगामि ॥ ७१ ॥
इन्द्रवज्रा
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.28 · p. 35
केचित् कक्षापुटेऽप्याहुश्चीरे त्वन्येऽध्यगीषत ।स्यात् कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ २८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.29 · p. 35
अपवादे कुलीनत्वे ग्रहणं त्विन्दुसूर्ययोः ।उपरागे चोपलब्धौ वन्द्यादानादरेषु च ॥ २९ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.50 · p. 237
कौलिनन्तु कुलीनत्वे गुह्यजन्यकुकर्मसु ।पशुपक्षिभुजङ्गानां युद्धेऽपि च निगद्यते ॥
अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.233 · p. 171
चीरेऽपि कौपीनमश्वे पुन्नागेऽपि च केशरी ।कुलीनत्वे च गुह्ये च कौलीनमथ कञ्चुकी ॥ २३३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.13 · p. 251
कौलीनं प्राणिभिर्द्यूते कुलीनत्वापवादयोः ।गुह्येऽकार्ये च कौपीनं गन्धनं तु प्रकाशने ॥ १३ ॥
अनुष्टुप्