कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निर्वाद

nirvādaपुं · masc.

In 13 kośas: 11 synonym verses, 5 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.271 · p. 15
स्यादवर्ण उपक्रोशे वादो निःपर्यपात्परः ।गर्हणा धिक्क्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥ २७१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.13
अवर्णाक्षेपनिर्वादपरीवादापवादवत् ।उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.148 · p. 18
अपवाद उपक्रोशो निर्वादावर्णवादपरिवादाः ।एकार्थाः कथ्यन्ते गर्हा निन्दा जुगुप्सा च ॥ १४८ ॥
आर्या
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.42 · p. 69
निर्वादश्च परीवाद उपक्रोशोऽथ भर्त्सनम् ।अपकारवचोऽथ स्यात्पारुष्यं दुष्टभाषणम् ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.188 · p. 28
परिवादापवादौ च निर्वादावर्णधिक्क्रियाः ।कुत्साक्रोशौ तथा गालिं विरुद्धवचनं विदुः ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.127 · p. 32
उपक्रोशोऽवर्णवादः कौलीनं वचनीयता ।जुगुप्सा गर्हणा निन्दा निर्वादश्चापवादवत् ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.393 · p. 50
निर्वादः परिवादश्चाऽवर्णः क्षेपश्च कथ्यते ।स्यादाऽक्रोशस्तथाऽऽक्षेपः शापस्तथाभिषङ्गकः ॥ ३९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.378 · p. 27
कुत्सनं परिवादः स्यात् परीवादो जुगुप्सनम् ।आक्षेपावर्णनिर्वादा उपक्रोशश्च भर्त्सनम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.108 · p. 186
निष्पर्यपात्परो वादो, जुगुप्सा च जुगुप्सनम् ।गर्हणा गर्हणं गर्हो, रतशापे तु क्षारणा ॥ १०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.911 · p. 114
आक्षेपावर्णनिर्वादपरिवादापवादकाः ।क्लीबे विगानकौलीने अभिशापोऽभिशंसनम् ॥ ९११ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.33 · p. 33
अवर्णवादो निर्वादोऽप्यपवादो विरूक्षणम् ।क्षारणं गर्हणं निन्दा जुगुप्सागालिकुत्सनाः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.174
निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास दार्धश्लोकः Dharaṇikośa 17.2.10 · p. 95
निर्वादो जनवादे स्याद्वादे चापि सुनिश्चिते ।प्रसादस्तु प्रकाशः स्यात्प्रसादः स्यादनुग्रहः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.34 · p. 236
प्रासादो नरदेवदेवगृहयोर्वादे तु चाम्नायतेनिर्वादः परिवादकेऽथ दशकोटिष्वर्बुदं न स्त्रियाम् ।कीले मांसभवे नरि क्षितिधरे नद्योः पुनः संगमेसंभेदः स्फुटनेऽप्यथ श्रुतिगदे तारे प्रणादो ध्वनौ ॥ ३४ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1032 · p. 137
भेद्यलिङ्गस्तु विज्ञेयो देशहीने मनीषिभिः ।निर्वादः परिवादे ना वादहीने तु भेद्यवत् ॥ १०३२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश दान्ताः Śabdaratnāvalī 7.18.16 · p. 230
नर्मदा स्त्री नदीभेदे स्यात्केलिसचिवे पुमान् ।निर्वादो लोकवादे स्याद् वादे च परितिष्ठिते ॥
अनुष्टुप्

निर्वाद as a meaning in nānārtha verses

  • धरणिकोश परिवादकोकनदं तु विख्यातं रक्ताब्जे रक्तकैरवे । परिवादं तु निर्वादे वीणावादनवस्तुनि ॥ Dharaṇikośa 17.2.18
  • धरणिकोश जन्यजन्या मातृवयस्या स्याज्जन्या च जननी प्रिया । जननीयजनित्रोश्च जन्यं निर्वादयुद्धयोः ॥ Dharaṇikośa 25.3.5
  • कोषकल्पतरु गैस्पर्धायां स्यात्प्रतेर्गर्जिरुद्गै * सेवने मतः । वेर्निन्दायामवाद्दृष्टो निर्वा[218b]दे वापि गर्हणे ॥ ३१ ॥ Koṣakalpataru 3.5.31
  • कोषकल्पतरु अवगीतनिर्वादे त्ववगीतं मुहुश्च[298a] दृष्टे विगर्हिते परवत् । अन्तर्गतं पुनरुक्तं विस्मृतमध्याप्तयोस्त्रय्याम् ॥ ४७ ॥ Koṣakalpataru 6.17.47
  • नानार्थार्णवसंक्षेप परिवादआदानपत्न्योरर्केन्द्वो राहुवक्रस्थयोरथ । वीणाया वादनोपाये निर्वादे परिवादवाक् ॥ ८६ ॥ Nānārthārṇavasaṃkṣepa 6.86
  • नानार्थार्णवसंक्षेप अवगीतनिर्वादे क्ली त्रिषु पुनर्मुहुर्दृष्टेऽपि गर्हिते । अवलग्नं तनोर्मध्ये न स्त्री सक्ते पुनस्त्रिषु ॥ १८ ॥ Nānārthārṇavasaṃkṣepa 6.18
  • शब्दरत्नावली अवगीतअथावसितमृद्ध स्याज्ज्ञातेऽवसानगे त्रिषु । अर्थपतिर्धनाधीशे भवेन्नरपतौ पुमान् ॥ अवदातो विशुद्धे स्यात्सिते गौरेऽन्यलिङ्गकम् । अवगीतन्तु दृष्टे स्यान्निर्वादे गर्हितेऽपि च ॥ अन्तर्गतं विस्मृते स्यान्मध्यप्राप्तेऽभिधेयवत् । अङ्गारितं स्यात्पलाशकलिकोद्गमदग्धयोः ॥ अपावृतं स्वतन्त्रे स्यात् पिहितेऽप्यभिधेयवत् । अत्याहितं गुरुभये जीवानपेक्षिकर्मसु ॥ अभिनीतः संस्कृते स्यादमर्षिन्याय्ययोस्त्रिषु । अभिजातः पण्डिते स्यात् त्रिषु न्याय्यकुलीनयोः ॥ Śabdaratnāvalī 7.16.153
  • वैजयन्ती अवगीतसुखाब्ध्यर्का अव्यथिषा अव्यथिष्यौ निशाक्षिती । अवगीतं मुहुर्दृष्टे निर्वादे गर्हितेऽपि च ॥ १ ॥ Vaijayantī 8.5.1