कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आजानेय

ājāneyaपुं · masc.

In 12 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.31 · p. 48
आजानेयः कुलीनः स्यात्तत्तद्देशास्तु सैन्धवाः ॥ १२३४ ॥वनायुजाः पारसीकाः काम्बोजा बाल्हिकादयः ।
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 स्तु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.44
आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.439 · p. 50
आजानेयाः कुलीनाः स्युः पारसीका वनायुजाः ।काम्बोजा वाह्लिकाः प्रोक्ताः सैन्धवाः सिन्धुपारजाः ॥ ४३९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.195 · p. 110
अब्धिवाहीककम्बोजपारसीकवनायुजाः ।सौराष्ट्रकोङ्कणोद्भूता आजानेयास्त उत्तमाः ॥ १९५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.12 · p. 253
आजानेयः कुलीनोऽश्वो वाडवं वडवागणे ।पुंस्यश्व-वडवौ द्वंद्वेऽथाश्वषट्केऽश्वषड्गवम् ।अश्वीयं त्वश्ववृन्दे स्यादाश्वं चापि नपुंसके ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.148 · p. 70
आजानेयः कुलीनस्तु सैन्धवः सिन्धुदेशजः ।पारसीकास्तु वानायुजाः काम्बोजा अथ वाह्लिकाः ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण क्षत्रियप्रकरणम् Śabdacandrikā 5.2.30 · p. 44
अजानेयः कुलीनः स्यात्पारसीकः प्रकीर्तितः ।तेन हीनकुलाः किञ्चित्पश्चिमोत्तरदेशजाः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.156 · p. 17
अर्वा वाहो हयः सप्तिर्गन्धर्वो वीतिरेव च ।काम्बोजाः सैन्धवा देश्या अ[आ]जानेया वनायुजाः ॥ १५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2235 · p. 365
अल्पावस्थः किशोरः स्याज्जवनः स जवाधिकः ।रथवोढा स रथ्यः स्यादाऽऽजानेयः कुलीन इति ॥ २२३५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.249 · p. 128
आजानेयस्त्वजानेयः कुलीनो जात्य एव च ।वाताश्विरपि पञ्चैते प्रकृष्टचतुरङ्गमे ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.44 · p. 68
वाताश्वतात्याजानेयो वेशरोऽश्वतरः खरः ।श्रीवृक्षोऽस्य हृदावर्तो रोचमानो गलोद्भवः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.94 · p. 111
आजानेयाः कुलीनाः स्युः पारसीकादयश्च ते ।पारसीकादिसंज्ञास्तु पारसीकादिदेशजाः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.