कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

किशोर

kiśoraपुं · masc.

In 12 kośas: 12 synonym verses, 3 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1233 · p. 48
वडवाश्वा प्रसूर्वामी किशोरोऽल्पवया हयः ॥ १२३३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.46
बालः किशोरो वाम्यश्वा वडवा वाडवं गणे ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.199 · p. 111
किशोरोऽल्पवयस्कोऽश्वो रथ्यो वोढा रथस्य यः ।पृष्ठ्यः स्थूरी प्रसूरेषां वाम्यश्वा वडवार्वती ॥ १९९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.6 · p. 436
विवस्वांस्तरलो भास्वानम्बरीषः प्रजापतिः ।मन्थः किशोरः कुतपो वासन्तः पुष्करः कपिः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 210
माणव्यं तत्समूहेऽन्त्येऽथ भूते मासमीरितौ ।मासीन-मास्यौ षाण्मास्यो भवेत्षण्मास इत्यपि ।षाण्मासिकोऽस्त्री * * * वयःस्थस्तरुणो युवा ।किशोरस्तलुनोऽथ स्याद्वेकटो जातयौवनः ॥ १४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.10 · p. 253
हयः किशोरोऽल्पवया जवनस्तु जवाधिकः ।रथस्य रथ्यो यो वोढा द्विरथ्यो द्विरथीं वहन् ।युग्यो युगस्यान्यलिङ्गाविष्टो * * * * * * ।* * * * * * स्थूरं बलं स्थौरी स कथ्यते ॥ १० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.147 · p. 70
वामी तु वडवा त्वश्वा किशोरो बालको हयः ।जवनस्तु जवोत्कृष्टो रथ्योऽश्वो रथवाहकः ॥ १४७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.157 · p. 17
अश्वा वामी च वडवा किशोरो बालघोटकः ।अनश्च शकटो गन्त्री शताङ्गः स्यन्दनो रथः ॥ १५७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2235 · p. 365
अल्पावस्थः किशोरः स्याज्जवनः स जवाधिकः ।रथवोढा स रथ्यः स्यादाऽऽजानेयः कुलीन इति ॥ २२३५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.201 · p. 96
बालको मानवो बालः किशोरो वटुरित्यपि ।मुष्टिन्धयो मानवको वटुकोऽपि किशोरकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.255 · p. 128
रथ्यो रथस्य वीटाश्वः कर्को धवलघोटकः ।किशोरो बालतुरगो वाम्यश्वा वडवाश्विका ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.107 · p. 112
अश्वपोतः किशोरः स्याद्वाम्यश्वा वडबार्वती ।लुठितोऽश्व उपावृत्तः सुकरो दुर्विनीतकः ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.52 · p. 173
सामुद्रं तु समुद्रीयलवणादौ तु लक्षणे ।किशोरं तरुणावस्थः किशोरो हयशावकः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.66 · p. 327
शिशौ किशोरस्तुरगस्य सूर्येस्यात्तैलपर्ण्यां तरुणे च बस्ते ।अथागुरुः स्त्री नवशिंशपायांस्याज्ज्योङ्गके ना लघुनि त्रये स्यात् ॥ ६६ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.63 · p. 270
कान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने ।किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे ।किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः ।कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते ।कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 फो (wrong syllable)

किशोर as a meaning in nānārtha verses