हय
hayaपुं · masc.In 22 kośas: 23 synonym verses, 37 as a meaning of another word.
घोटकस्तुरगस्तार्क्ष्यस्तुरंगोऽश्वस्तुरंगमः ॥ १२३२ ॥गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः ।
अनुष्टुप्
genderपुंmasc.
घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः ॥ ४३ ॥वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः ।
अनुष्टुप्
genderपुंmasc.
अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः ।तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ॥ ४३६ ॥
गीतिः
genderपुंmasc.
करभस्तस्य शिशुके करभा तूष्ट्रिका नदी ।हयस्तुरङ्गस्तुरगो प्रोथिवारिप्रकीर्णकः ॥ ३२० ॥
अनुष्टुप्
genderपुंmasc.
अश्वनी दस्रभेदास्त्र नासत्यं तुरगं हयम् ।भरणी यमभं याम्यं प्रोक्तमंतकमांतकम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
संज्ञा हयाश्च तुरगा सप्तागमुनयोऽपि च ।अष्टानीं वसुनागेभहस्तीदन्त्यष्टकुञ्जराः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
रत्नं धेनुर्महाभूतघटः षोडश उच्यते ।महादानानि चान्यानि दश स्युः कनकं हयः ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
वाजी वाहस्तुरङ्गोर्वा गन्धर्वः सैन्धवो हयः ।प्रकीर्णः क्रमणः प्रोथी कुरटः सिंहविक्रमः ॥ १९० ॥
अनुष्टुप्
genderपुंmasc.
हयो वातश्च साध्यानां नवको गण ईरितः ।अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
अर्वा तुरंगस्तुरगस्तुरंगमोगन्धर्व-वाहाश्व-हयाश्च घोटकः ।वाजी च मुद्गाशन-वीति-सप्तयस्तार्क्ष्यो हरि-श्रीसुत-सैन्धवा ययीः ॥ ८ ॥
इन्द्रवंशा
genderपुंmasc.
भैरवो भीरवो भीरो वटुनाथः पिशाचराट् ।वेत्रिकर्णेजपहया नन्दिभृङ्गिऋडादयः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
अश्वस्तुरङ्गस्तुरगो हयः सप्तिस्तुरङ्गमः ।शालिहोत्री व्रती कुण्डी प्रोथी वारुः प्रकीर्णकः ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
वाहोऽश्वस्तुरगो वाजी हयो धुर्यस्तुरङ्गमःसप्तिरर्वा हरी रथ्यः सप्ताद्यश्वो मयूखवान् ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
तुरगो घोटको वाजी तुरंगोऽर्वा तुरंगमः ।हयस्तार्क्ष्यो हरिः सप्तिवीती गन्धर्वनामकः ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
अश्वस्तुरङ्गस्तुरगो हयः सप्तिस्तुरङ्गमः ।रिङ्खावासस्तु तुक्खारः कुटुरोणेटकस्तथा ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
अर्वा वाहो हयः सप्तिर्गन्धर्वो वीतिरेव च ।काम्बोजाः सैन्धवा देश्या अ[आ]जानेया वनायुजाः ॥ १५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
अश्वः सप्तिर्हयो ह्रेषी हरिर्वहिश्च हंस इति ।अर्वा वाजी तथा किण्वी क्रमणः सिंहविक्रमः ॥ २२३० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
गन्धर्वः सैन्धवो वाहः पीतिर्वातायनी हयः ।श्रीपुत्रश्चामरी ह्रेषी शालिहोत्रे मरुद्रथः ॥
अनुष्टुप्
genderपुंmasc.
तुरगतुरङ्गतुरङ्गमसैन्धवसप्त्यश्ववाजिवाहहयाः ।गन्धर्ववीतिघोटकहर्यर्वश्रीजहेषिणश्च समाः ॥ ७१९ ॥
गीतिः
genderपुंmasc.
महासेनो द्विजिह्वाख्यो हयो भद्रश्च कण्टकः ।द्विबिन्दुकोऽमरेशश्च सोमश्चैव हरिस्तथा ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
अश्वास्तु दश चन्द्रस्य यजुश्चन्द्रमना वृषः ।सप्तधातुर्हयो वाजी हंसो व्योममृगो नरः ॥
अनुष्टुप्
genderपुंmasc.
स्वानभ्राडिति गंधर्वगणा एकादशोदिताः ।सुधर्मा स्याद्देवसभा दिव्य उच्चैः श्रवा हयः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
अश्वस्तुरंगस्तुरगो हयः सप्तिस्तुरंगमः ।शालिहोत्री व्रती कुण्डी प्रोथी वारुः प्रकीर्णकः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
हय as a meaning in nānārtha verses
- धरणिकोश विनीतविनीतमुपनीतं स्यादपनीते जितेन्द्रिये । वाणिजे निभृते चैव विनीतः सुवहे हये ॥ Dharaṇikośa 15.3.25
- धरणिकोश वाजिन्वृषा कर्णे महेन्द्रे स्यादर्वा च कुत्सिताश्वयोः । वाजी हये खगे बाणे गोमी गोमानुपासकः ॥ Dharaṇikośa 19.1.8
- धरणिकोश गन्धर्बगन्धर्बः पशुभेदे स्याद्गन्धर्बः खेचरे हये । अन्तराभवसत्वे च गन्धर्बो गायनेऽपि च ॥ Dharaṇikośa 22.3.3
- कोषकल्पतरु प्रयागयज्ञे तु तीर्थराजे शतमखहययोः प्रयागः स्यात् । स्यात्कार्मणे प्रयुक्तौ निदर्शने च प्रयोग उद्दिष्टः ॥ १४ ॥ Koṣakalpataru 6.3.14
- कोषकल्पतरु दण्डदण्डोऽस्त्री लगुडे बले मथि दमे मानेऽभिमाने यमे चण्डांशोश्च गणे घटीग्रहभिदाकोणे प्रकाण्डे हये । गोण्डः पामरजातिगो नरि महानाभौ भवेद्भेद्यवत् द्वन्द्वे स्यात्कवले गणे च वपुषि त्वस्त्री गृहाङ्गे बले ॥ ७६ ॥ Koṣakalpataru 6.12.76
- कोषकल्पतरु शोणवीणावादनसाधने च लगुडे गेहैकदेशे तथा कोणः कोकनदच्छवावरलुके रक्ते हयेऽग्नौ नदे । शोणोऽथार्भकगर्भयोर्नरि भवेद्भ्रूणस्तु गर्भेऽस्त्रियां तीक्ष्णं लोहविषाजिमुष्किमरके तिग्मे तु भेद्यानुगम् ॥ ७ ॥ Koṣakalpataru 6.15.7
- कोषकल्पतरु वीतिवीतिर्गतौ चाथ नये च नीतिः प्राप्तावपि स्यादथ वृत्तभेदे । गानेऽपि गीतिः प्रमदे तु हार्दे योगान्तरे प्रीतिरनङ्गपत्न्याम् ॥ ५४ ॥ Koṣakalpataru 6.16.54
- कोषकल्पतरु हरित्पूज्येऽर्हंस्त्रिषु ना जिने दिशि हरित्स्त्री वर्णभेदे हये ना च स्त्री तु तृणे स्त्रियां तु हरितो दूर्वा सुवर्णेऽन्यवत् । रोहित् पुंसि रवौ मृगीव्रततिगः स्त्री विद्युदुक्ता स्त्रियां संध्यायां तडिति प्रभाविरहिते भेद्यस्य लिङ्गे मता ॥ २४ ॥ Koṣakalpataru 6.16.24
- कोषकल्पतरु अर्वन्अर्वा हयेऽथ त्रिषु कुत्सिते स्या- द्वृषा महेन्द्रेऽपि च कर्ण उक्तः । यक्ष्मा क्षये स्यादपि रोगमात्रे युवा वयःस्थे बलिनि स्वभावे ॥ ८८ ॥ Koṣakalpataru 6.21.88
- कोषकल्पतरु केसरिन्सिंहे हये स्यादिभकेसरे च पुंनागके च प्रथितः प्रवीणैः । क्लीबे ललाम ध्वजवाजिशृङ्गे प्रधानभूषास्वपि वालधौ च ॥ ३८ ॥ Koṣakalpataru 6.21.38
- कोषकल्पतरु ययुपीयुस्तु काले च रवौ ययुस्तु क्रत्व[श्व]चेष्टासु [हये]मयुस्तु । [तु]रङ्गवक्त्रेऽथ मखे च मन्युः क्रोधे च दैन्ये च तथा प्रदिष्टः ॥ ९ ॥ Koṣakalpataru 6.26.9
- कोषकल्पतरु लक्ष्मीपुत्रसरोरुहेऽल्पेऽप्यथ वातपु[63b]त्रो वृकोदरे धूर्तहनूमतोश्च । स्मरे हये चापि वदन्ति लक्ष्मी- पुत्रं धनाद्यैस्तु भृते च पात्रे ॥ २८ ॥ Koṣakalpataru 6.27.28
- नानार्थार्णवसंक्षेप नृस्त्री खे स्वर्गे च दृक् तु स्त्री ज्ञानदर्शनबुद्धिषु । नेत्रे च त्रिषु तु द्रष्टृज्ञात्रोर्नृ द्वे हरे हये ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 1.5.12
- नानार्थार्णवसंक्षेप गन्धर्वसन्ध्यायां गर्वरी स्त्री स्याद् गन्धर्वस्तु द्वयोर्हये । मृगभेदे गोलपुससमाख्ये दिव्यगायने ॥ ६३८ ॥ Nānārthārṇavasaṃkṣepa 4.638
- नानार्थार्णवसंक्षेप वातप्रमीवारिपिण्डस्तु मण्डूके द्वयोः पाषाणगर्भजे । अत्रापि पूर्ववत् सादि द्वे तु वातप्रमीर्हये ॥ ५५९ ॥ Nānārthārṇavasaṃkṣepa 6.559
- परमानन्दीयनाममाला जूहूराणजूहूराणो हये वह्नौ जीवितेशः प्रिये स्मृतः । कालेऽथ जलसूचिस्तु शुङ्गाटे शिशुमारके ॥ २०८ ॥ Paramānandīyanāmamālā 5.13.208
- परमानन्दीयनाममाला शोणशङ्खोऽसुरे निधौ कम्बौ शुचिर्ग्रीष्मेऽनले सिते । शृङ्गारे मासभेदे च शोणो रक्ते हये नदे ॥ ३५४ ॥ Paramānandīyanāmamālā 5.25.354
- शब्दरत्नावली तुरङ्गसुनीतौ धर्मकामार्थे सत्त्वरजस्तमस्यपि । तुरङ्गी चाश्वगन्धायां तुरङ्गो हयचित्तयोः ॥ Śabdaratnāvalī 7.3.37
- शब्दरत्नावली प्रयागप्रयागः स्यात् तीर्थभेदे यज्ञे शतमखे हये । प्रयोगः कार्मणे… प्रयुक्तौ च निदर्शने ॥ Śabdaratnāvalī 7.3.41
- शब्दरत्नावली हरित्सुनृतं मङ्गले क्लीबं सत्यप्रियवचस्यपि । हरिद्दिशि स्त्रियामस्त्री तृणे ना हयवर्णयोः ॥ Śabdaratnāvalī 7.16.150
- शब्दरत्नावली रामरमा लक्ष्म्यां रमः कान्ते कामे च रक्तवञ्जुले । रामो हलिनि शारङ्गे राघवे वरुणे हये ॥ Śabdaratnāvalī 7.25.18
- शब्दरत्नावली खरुऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
- शब्दरत्नावली वाहवाहो द्वयोर्भुजे पुंसि मानभेदे हये वृषे ॥ Śabdaratnāvalī 7.33.11
- शब्दरत्नाकर सीमपल्लि-पल्ल्यौ गृह-गृहसमूह-स्थानकेष्वपि । सीम-सिमौ क्षेत्र-सीम-गोचर-भू-हयेष्वपि ॥ १७ ॥ Śabdaratnākara 4.17
- शब्दरत्नाकर अर्वन्हयकुत्सितयोरर्वा स्यादर्यः स्वामिवैश्ययोः । घृष्टिमूषिकयोराखुरारो भौमारकूटयोः ॥ १८७१ ॥ Śabdaratnākara 4.1.1871
- शब्दरत्नाकर हरित्हरिदर्कहये वर्णे पुंसि स्यात् ककुभि स्त्रियाम् । हेतिः स्त्रीपुंसयोर्ज्वाले किरणायुधयोरपि ॥ २०३० ॥ Śabdaratnākara 4.1.2030
- त्रिकाण्डशेष धाराटधाराटौ चातकहयौ कपाटेऽपि च निष्कुटः । कोटरेऽप्यथ पट्टः स्यात्फलके नृपशासने ॥ ९८ ॥ Trikāṇḍaśeṣa 3.3.98
- त्रिकाण्डशेष लक्ष्मीपुत्रलम्बोदरः स्यादुद्धाने गणानामधिपेऽपि च । लक्ष्मीपुत्रौ स्मरहयौ विस्तारौ स्तम्बविस्तृती ॥ ३७० ॥ Trikāṇḍaśeṣa 3.3.370
- वैजयन्ती वहिनासोर्ध्वास्थ्नीक्षुभेदे च वहिरुक्ष्णि हयेऽनले । वलो धान्येऽसुरे काके गवां श्वासेऽनिले वहः ॥ ५३ ॥ Vaijayantī 6.1.53
- वैजयन्ती अर्वत्अर्हन्तौ जिनसम्मान्यावर्वन्तौ हयकुत्सितौ । अन्धोऽचक्षुस्तमोऽप्यन्धमर्चिर्भाज्वालयोर्न ना ॥ ६ ॥ Vaijayantī 6.5.6
- वैजयन्ती पीतिपार्श्वमस्त्री समीपेऽपि पृज्यः श्वशुरमान्ययोः । स्नेहे केलौ प्रेम न स्त्री पीतिः पाने हये तु ना ॥ ५१ ॥ Vaijayantī 6.5.51
- वैजयन्ती केसरिन्वायौ वसन्ते क्षिपणुः क्षिपणो वायुकालयोः । कुषाकुः पावके सूर्ये केसरी हयसिंहयोः ॥ २१ ॥ Vaijayantī 7.1.21
- वैजयन्ती गन्धर्वअन्तराभवसत्त्वे स्याद्गन्धर्वो गायने हये । गरुत्मान्विहगे तार्क्ष्ये वृषार्केन्द्रेषु गोपतिः ॥ २४ ॥ Vaijayantī 7.1.24
- वैजयन्ती यज्वरविष्णौ वसन्ते वैशाखे मरूकौ भेककेकिनौ । मिहिरा वायुमेघार्का यज्वरौ तु हयाध्वरौ ॥ ६२ ॥ Vaijayantī 7.1.62
- वैजयन्ती उच्चैःश्रवस्उपतापौ रुजातापौ द्वारपालेऽप्युदास्थितः । स्नानाचान्त्योरुपस्पर्शो हरावुच्चैः श्रवा हये ॥ १९ ॥ Vaijayantī 8.1.19
- वैजयन्ती वातप्रमीलक्ष्मीपुत्रोऽश्व आढ्ये च राज्ञि लक्ष्मीपतिर्हरौ । लोकपालो नृपेन्द्राद्योर्हये वातप्रमीर्मृगे ॥ ३८ ॥ Vaijayantī 8.1.38
- वैजयन्ती वासुदेववाडबेयोऽश्विनोर्विप्रे वासुदेवो हये हरौ । विश्वगोप्ता हरौ शक्रे चन्द्रेऽर्केऽग्नौ विभावसुः ॥ ३९ ॥ Vaijayantī 8.1.39