आभा
ābhāस्त्री · fem.In 6 kośas: 8 synonym verses.
आभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः ।लक्ष्मीश्छाया च शोभायां सुषमा सातिशायिनी ॥ १५१२ ॥
अनुष्टुप्
genderस्त्रीfem.
शम्पा सम्पा विद्युदम्भोदवल्लीसौदाम्नी सौदामिनी ह्रादिनी च ।सौदामन्याकालिकाकालिकी स्यात्सर्जूर्वीणा च छटाभा तडिच्च ॥ ११ ॥
शालिनी
genderस्त्रीfem.
आभाऽभिख्या विभूषा श्री-र्लक्ष्मी-कान्ति-द्युति-त्विषः ।राढा छाया विभ्रमो ना सुषमा परमा छविः ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
कान्तिर्लक्ष्मीरभिख्या श्रीर्विभूषाभा च विभ्रमः ।राढा शोभा तथा छाया सुषमातिशयोद्भवा ॥ ३८५ ॥
अनुष्टुप्
genderस्त्रीfem.
आभाऽभिख्या विभूषा च शोभा कान्तिश्च विभ्रमः ।राढा छाया छविर्लक्ष्मीर्द्युतिः श्रीरपि कथ्यते ॥ २७५३ ॥
अनुष्टुप्
genderस्त्रीfem.
श्रीर्भासाभाश्च सान्तोऽयमादन्तोऽपि च कुत्रचित् ।निहारोऽपि च नीहारः प्रालेयं तुहिनं हिमम् ।अवश्यायस्तुषारः स्यान्मिहिका महिकापि च ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रीपुंसयोर्मरीचिस्त्विड्दीधितिद्युतयः स्त्रियाम् ।आभाप्रभाविभाभारुग्रुचिभाश्छविदीप्तयः ॥
अनुष्टुप्
genderस्त्रीfem.
आभा प्रख्योपमाभिख्या प्रकारः सन्निभं निभम् ।निकाशाद्याश्च साम्यार्थाः समे स्युः शब्दतः पराः ॥ १२२ ॥
अनुष्टुप्
genderस्त्रीfem.