कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शोभा

śobhāस्त्री · fem.

In 17 kośas: 18 synonym verses, 1 as a nānārtha head word, 50 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.509 · p. 23
प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः ।दीप्तिश्चायत्नजा भावहावहेलास्त्रयोऽङ्गजाः ॥ ५०९ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1512 · p. 57
आभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः ।लक्ष्मीश्छाया च शोभायां सुषमा सातिशायिनी ॥ १५१२ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.17
सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.565 · p. 64
आहुः किरीटमुष्णीषं कोटीरं मुकुटं समम् ।राढा शोभा विभूषा स्यादभिख्या सुषमा समाः ॥ ५६५ ॥
अनुष्टुप्
genderस्त्रीfem.
भासः स्याद्भासा भासश्च रुग्रुची रुचयः समाः ।शोभा शुभा भवेदङ्के लक्ष्म लक्ष्मणलक्षणम् ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.14 · p. 21
प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः ।दीप्तिश्चायत्नजा भावहावहेलास्त्रयोङ्गजाः ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.211 · p. 156
गौरी विषघ्नी मङ्गल्या निशार्था च विलासिनी ।शोभा जयन्ती लक्ष्मीः स्यान्मङ्गला सुभगाह्वया ॥ २११ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.66 · p. 34
अभिज्ञानं चिह्नमङ्कः कलङ्कोऽथ प्रसन्नता ।प्रसत्तिः स्त्री प्रसादो नाऽथो शोभा लवणा छविः ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.172 · p. 94
शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।औदार्यं धैर्यमित्यासामलंकाराः प्रयत्नजाः ॥ १७२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.177 · p. 94
रूपयौवनलालित्यैः शोभा स्यादङ्गभूषणम् ।रूपं क्लीबे च लावण्यं सौन्दर्यं च समं त्रयम् ।कामेनाप्यायिता कान्तिः सैव दीप्तिस्ततोऽधिका ॥ १७७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.61 · p. 102
भम्भा हम्भा वलभिर्भा रम्भा भीः ककुप्शोभा ।भेक्यां पुनर्नवायां वर्षाभूर्यामि-सीमे च ॥ ६१ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.385 · p. 99
कान्तिर्लक्ष्मीरभिख्या श्रीर्विभूषाभा च विभ्रमः ।राढा शोभा तथा छाया सुषमातिशयोद्भवा ॥ ३८५ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.43 · p. 7
इन्दी(न्द्री?)न्दिरा लोकमाता शान्ता सौभाग्यशालिनी ।भगा भाग्यवती कान्ता मारी शोभा विलासिनी ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.67 · p. 26
दर्पणो मुकुरादर्शौ व्यजनं तालवृन्तकम् ।शोभा कान्तिर्विभूषा श्रीर्लक्ष्मीश्छाया द्युतिश्छविः ।राढाभिख्या च लावण्यं सुषमा विभ्रमोऽपि च ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.797 · p. 115
शोभ माधुर्यमौदार्यं प्रागल्भ्यं दीप्तिरेव च ।धीरत्वं कान्तिरप्यास्ति स्त्रीणां सात्त्विकालङ्कृतिः ॥ ७९७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 का (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2753 · p. 448
आभाऽभिख्या विभूषा च शोभा कान्तिश्च विभ्रमः ।राढा छाया छविर्लक्ष्मीर्द्युतिः श्रीरपि कथ्यते ॥ २७५३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.201 · p. 14
कलङ्काङ्कौ कलङ्कस्य पर्यायः समुदाहृतः ।अथ सर्वोत्तमा शोभा सुषमा परिकीर्तिता ।शोभा शुभा द्युतिः कान्तिश्च्छविर्दीप्तिश्च भा द्वयोः ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.150 · p. 171
राढा शोभा छवी रुक् त्विट् सुषमा परमा छविः ।त्रिगन्धमेलात्वक्पत्रैस्त्रिसुगन्धं त्रिजातकम् ॥ १५० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ बान्ताः Koṣakalpataru 6.24.43 · p. 277
वंशे तथा वांशिकदण्डके चस्त्रियां कदल्यां त्रिदिवाङ्गनासु ।सभाऽक्षवत्यां सभिके च गोष्ठ्यांगेहेऽथ शोभा द्युतिकाङ्क्षयोश्च ॥ ४३ ॥
उपजातिः

शोभा as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् अभिख्यावृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः ॥ १५६ ॥ Amarakośa 3.3.156
  • नामलिङ्गानुशासनम् त्विष्त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः । Amarakośa 3.3.434
  • हलायुधकोशः (अभिधानरत्नमाला) लक्ष्मीकटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः । शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः ॥ ८१३ ॥ Abhidhānaratnamālā (Halāyudha) 5.813
  • हलायुधकोशः (अभिधानरत्नमाला) वर्णशुक्लादौ ब्राह्मणादौ च शोभायामक्षरे व्रते । गीतक्रमे स्तुतौ वेषे वर्णशब्दं प्रचक्षते ॥ ८६० ॥ Abhidhānaratnamālā (Halāyudha) 5.860
  • धरणिकोश रुचात्वक्त्वचाचोचशब्दाः स्युः वल्के चर्मणि पत्रके । रुग्रुचावपि रश्मिः स्याच्छोभाभिलाषयो रुचा ॥ Dharaṇikośa 5.2.1
  • धरणिकोश रुचिरुचिर्दीप्तौ च शोभायामभिष्वङ्गाभिलाषयोः । कचः केशे च विख्यातो ह्रीबेरासुरभेदयोः ॥ Dharaṇikośa 5.2.2
  • धरणिकोश कान्तिशान्तिः शमे च कल्याणे कान्तिः शोभेच्छयोरपि । ऊतिः स्यूतौ च रक्षायां सातिर्दानावसानयोः ॥ Dharaṇikośa 15.1.4
  • धरणिकोश अभिख्याद्वितीया कथ्यते जाया पूरणी स्याच्च यद्द्वयोः । अभिख्या कीर्तिता कीर्तावभिख्या नामशोभयोः ॥ Dharaṇikośa 25.2.25
  • धरणिकोश श्रीश्रीशब्दः कविभिः प्रोक्तो लक्ष्मीसंपत्तिकान्तिषु । अधिकारे सरस्वत्यां शोभाकीर्तिप्रभासु च ॥ Dharaṇikośa 26.3.1
  • धरणिकोश त्विट्विट् च व्याप्तिस्तथा विष्ठा त्विट् च शोभा [102] तथा प्रभा । ऋषिर्वेदे मुनौ रश्मौ शुषिः शोषः शुषिर्बिलम् ॥ Dharaṇikośa 30.1.1
  • कोषकल्पतरु रुचिमधौ( ? )शुद्धे परवत् स्त्री तु रुचिः स्यादभिष्वङ्गे । शोभामयूखवाञ्छा- स्ववकाशे तु द्वयोर्वीचिः । स्वल्पतरङ्गे च सुखे- ऽथाभिनये सीवनद्रव्ये । नारीन्द्रिये च सूची शचीन्द्रपत्नी शतावर्याम् । काञ्ची देशविशेषे गुञ्जायां मेखलायां च । षड्ग्रन्थासारिकयो- र्वचा स्त्रियां स्याच्छुके पुंसि ॥ ७ ॥ Koṣakalpataru 6.5.7
  • कोषकल्पतरु रुचिप्रतिमायां पूजायामर्चा चर्चा स्थासकसुचर्चिकाचिन्ताः । इच्छाशोभारुचयो रुचिः स्त्रियां चर्मवल्कयोस्त्वक् ॥ ८ ॥ Koṣakalpataru 6.5.8
  • कोषकल्पतरु राढाराढा तु देशान्तरशोभयोः स्त्री दाढा तु दंष्ट्रासु मनोरथे च । माढिस्तु दैन्यप्रकटीकृतौ स्त्री पत्रादिकानां रचनाविशेषे ॥ ९६ ॥ Koṣakalpataru 6.14.96
  • कोषकल्पतरु ककुभ्योषित्स्यात्पिटिकान्तरे कृमिभिदि क्लीबं पुनः कैरवे शोभादिक्षु च चम्पकस्रजि ककुभ् स्त्री स्यात्प्रवेण्यामपि । Koṣakalpataru 6.24.32
  • कोषकल्पतरु छायाछायातपाभावरविस्त्रियोस्त्विट्- शोभासु पङ्क्तौ प्रतिबिम्बके च । त्राणे च लञ्चेऽथ चिकित्सनेहा- रम्भोपदेशार्चननिश्चयेषु ॥ ५३ ॥ Koṣakalpataru 6.26.53
  • कोषकल्पतरु श्रीस्रुस्तु स्रुवे निर्झरवाचकोऽपि द्रूः कामरूपिण्यपि काञ्चने च । श्रीरिन्दिरावेषसरस्वतीषु संपत्तिशोभारचनात्रिवर्गे ॥ ९५ ॥ Koṣakalpataru 6.27.95
  • कोषकल्पतरु छविभवेत्खलीने छविरङ्गना स्या- च्छोभारुचोर्घृष्विरयं वराहे । स्याद्धर्षके तु त्रिषु शेवमन्त्ये लिङ्गाकृतौ कामरिपोः स्त्रियां स्यात् ॥ ९ ॥ Koṣakalpataru 6.29.9
  • नानार्थार्णवसंक्षेप त्विष्त्विड्ज्वालादीप्तिशोभासु तृट् तु वाञ्छापिपासयोः । द्वार्द्वारोपाययोरुक्ता द्योशब्दः स्वर्गनाकयोः ॥ ५४ ॥ Nānārthārṇavasaṃkṣepa 1.1.54
  • नानार्थार्णवसंक्षेप श्रीवाग्वाण्यां गौणवृत्त्या तु शब्दे वक्त्रे च केचन । श्रीरिन्दिरायां शोभायां स्यात् संपत्तिलवङ्गयोः ॥ ६० ॥ Nānārthārṇavasaṃkṣepa 1.1.60
  • नानार्थार्णवसंक्षेप कान्तिवाचि चैकान्नपञ्चाशद्रात्रे सत्रे तु भूमनि । कान्तिः शोभेच्छयोः काञ्ची मेखलापुरभेदयोः ॥ २३ ॥ Nānārthārṇavasaṃkṣepa 2.1.23
  • नानार्थार्णवसंक्षेप छविपिटके चेति विद्वांसः केचिदाचक्षतेतमाम् । छविश्चर्मणि शोभायां दीप्तौ यज्वद्विजन्मनाम् ॥ ३६ ॥ Nānārthārṇavasaṃkṣepa 2.1.36
  • नानार्थार्णवसंक्षेप छायावेद्यामास्तरणे चाथच्छायानातपशोभयोः । सूर्यपत्न्यन्तरे गेहे स्यात् पङ्क्तिप्रतिबिम्बयोः ॥ ३७ ॥ Nānārthārṇavasaṃkṣepa 2.1.37
  • नानार्थार्णवसंक्षेप राठाभेषजे चापि धेनौ च राठा सुह्मेषु नीवृति । शोभायां चाथ राजिः स्यात् क्षेत्रेऽधो रसनस्य च ॥ ८४ ॥ Nānārthārṇavasaṃkṣepa 2.1.84
  • नानार्थार्णवसंक्षेप रुचिअभिष्वङ्गेऽभिलाषेंऽसौ दीप्तौ स्याद्देवतान्तरे । शोभायां तिन्त्रिणीकायाः फले वृक्षाम्लसंज्ञके ॥ ८७ ॥ Nānārthārṇavasaṃkṣepa 2.1.87
  • नानार्थार्णवसंक्षेप लक्ष्मीलक्ष्मीः श्रीभूतिशोभासु वृद्धिसंज्ञे च भेषजे । ऋद्धिसंज्ञे च कस्याञ्चिद् विष्णोर्नवसु शक्तिषु ॥ ९२ ॥ Nānārthārṇavasaṃkṣepa 2.1.92
  • नानार्थार्णवसंक्षेप वर्णवर्णस्त्वक्षर एवास्त्री केषांचिदपरे पुनः । विलेपने प्रकारे च शोभायां चास्त्रियां विदुः ॥ ११५५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1155
  • नानार्थार्णवसंक्षेप अभिख्यातत्रादौ तावदध्यायः स्त्रीलिङ्गानां प्रणीयते । अथ स्त्रियामभिख्या स्याच्छोभायां कीर्तिसंज्ञयोः ॥ २ ॥ Nānārthārṇavasaṃkṣepa 3.1.2
  • नानार्थार्णवसंक्षेप विभ्रमशोभायामपि च भ्रान्तौ वेर्भ्रमे च त्रिषु त्वयम् । वीतभ्रमे विग्रहस्तु विस्तारे युद्धदेहयोः ॥ १७२२ ॥ Nānārthārṇavasaṃkṣepa 4.1722
  • परमानन्दीयनाममाला कान्तिकन्तुः कामे कुसूलेऽथ कान्तिः शोभेच्छयोर्मता । कान्तः प्रिये मनोज्ञे च कालो वर्णे यमे मृतौ ॥ ९५ ॥ Paramānandīyanāmamālā 5.7.95
  • परमानन्दीयनाममाला छायाउत्कोचे पालने कान्तौ शोभानातपयोरपि । छलं वेषे मिषे पत्रे छल्ली वल्कलवीरुधोः ॥ १९१ ॥ Paramānandīyanāmamālā 5.12.191
  • परमानन्दीयनाममाला द्युतिदढः शक्ते भृशे मत्ते द्युतिः किरणशोभयोः ॥ २३४ ॥ Paramānandīyanāmamālā 5.16.234
  • परमानन्दीयनाममाला लक्ष्मीलेखोऽमरे लिपौ लक्ष्मीः शोभासंपत्प्रियङ्गुषु । लक्ष्यं वेध्ये च संख्यायां लिङ्गं रुद्राङ्गचिह्नयोः ॥ ३४७ ॥ Paramānandīyanāmamālā 5.23.347
  • शब्दरत्नावली मयूखमयूखः किरणज्वालाशोभासु तीक्ष्णतेजसि । विशिखः तोमरे बाणे खनित्रीरथ्ययोः स्त्रियाम् ॥ Śabdaratnāvalī 7.2.12
  • शब्दरत्नावली कचाबन्धनेऽपि च शोभायां करिण्याञ्च कचा स्त्रियाम् । काचो मनौ च शिक्ये च नेत्ररुग्मृत्तिकाभिदोः ॥ काञ्चीनगरभेदे च स्त्री कटिमेखलासु च । कूर्चमस्त्री भ्रुवोरन्तः कठिन श्मश्ककैतवे ॥ Śabdaratnāvalī 7.6.3
  • शब्दरत्नावली रुचिपिचुर्ना दैत्यभित्कुष्ठभेदयोः कर्षतूलयोः । मोचः शोभाञ्जने मोचा शाल्मलीरम्भयोः स्त्रियाम् ॥ रुचिर्दीप्तौ च शोभायामभिलाषाभिषङ्गयोः । रुचा रुग्दीप्तिशोभेछाशारिकाशुकवाक्सु च ॥ Śabdaratnāvalī 7.6.8
  • शब्दरत्नावली कान्तिकान्तिः शोभेच्छयोः स्त्री तु क्रतुर्यज्ञे मुनौ पुमान् । कान्ता प्रियङ्गौ नार्यां स्त्री प्रिये ना शोभने त्रिषु ॥ लोहं च चन्द्रसूर्ययोः पर्यायान्तशिलासु ना । क्षितिः क्षये निवासे च पृथिवी कालभेदयोः ॥ कीर्तिः प्रसादे यशसि शब्दे दीप्तौ च योषिति । कुन्तो गर्वधुकायां स्यात्पुमान् प्रासायुधेऽपि च ॥ Śabdaratnāvalī 7.16.8
  • शब्दरत्नावली द्युतिदितिः स्त्रियां खण्डने स्यात्तथा च दैत्यमातरि । दीप्तं निर्भासिते दग्धे ज्वलितेऽपि च वाच्यवत् ॥ द्रुतं शीघ्रे विनीते च विम्राणे चाभिधेयवत् । दृतिश्चर्मपुटे मीते द्युतिः स्त्री रश्मिशोभयोः ॥ धातुर्मनःशिलादौ तु श्लेष्मादौ गैरिकेऽपि च ॥ Śabdaratnāvalī 7.16.17
  • शब्दरत्नावली ककुभ्ककुप् प्रवेणी दिक्शोभाचम्पकस्रक्षु च स्त्रियाम् ॥ Śabdaratnāvalī 7.24.10
  • शब्दरत्नावली लक्ष्मीरुमा स्त्रियां लवणभित्सुग्रीवकान्तयोः स्त्रियाम् । अथ लक्ष्मीस्तु सम्पत्त्यां शोभायां वरयोषिति ॥ वृद्धिनामौषधे फल्यां कमलायामपि स्त्रियाम् । वमिर्वान्तौ स्त्रियामेव पुंसि धूर्ते हुताशने ॥ Śabdaratnāvalī 7.25.20
  • शब्दरत्नावली अभिख्याअनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥ अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥ अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥ निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥ आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥ आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥ उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ Śabdaratnāvalī 7.26.38
  • शब्दरत्नावली श्रीरः कामवह्नौ च रुः शब्दे रा धने पुमान् । री गतौ स्त्री च रा दाने काञ्चनेऽपि च कुत्रचित् । श्रीः शोभा भारती वेशरचना भूतिवृद्धिषु । विधात्रिवर्गसम्पत्तिलक्ष्मीषु सरलद्रुमे ॥ Śabdaratnāvalī 7.27.1
  • शब्दरत्नावली सम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
  • शब्दरत्नाकर कान्तिकक्ष्या काञ्च्यां वरत्रायां कच्छवेश्मप्रकोष्ठयोः । काष्ठोत्कर्षो हरित् सीमा कान्तिः शोभाभिकामयोः ॥ १९०१ ॥ Śabdaratnākara 4.1.1901
  • शब्दरत्नाकर ललनप्रभावे पौरुषेऽङ्केऽथ ललनं केलिशोभयोः । नीलिन्यां मांसपिण्डे च मणिभ्रुवि च लोचकः ॥ २१५९ ॥ Śabdaratnākara 4.1.2159
  • शब्दरत्नाकर विभ्रमविहारः सौगतावासे क्रीडायां च परिक्रभे । भ्रान्तिसंदेहशोभासु विलासेऽपि च विभ्रमः ॥ २१६१ ॥ Śabdaratnākara 4.1.2161
  • त्रिकाण्डशेष श्रीश्रीलक्ष्मीवेशसम्पत्सु भारतीशोभयोरपि । शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु ॥ ३७५ ॥ Trikāṇḍaśeṣa 3.3.375
  • उत्पलिनी श्रीलक्ष्मीसरस्वतीधीत्रिवर्गसम्पद्विभूतिशोभासु । उपकरणवेषरचनाविधासु च श्रीरिति प्रथिता ॥ ६३ ॥ Utpalinī 63
  • वैजयन्ती कान्तिकासूर्बुद्धौ कुवाच्यस्त्रे कान्तिः शोभाभिकामयोः । काष्ठोत्कर्षे सीम्नि दिशि क्षोण्यां वासे क्षये क्षितिः ॥ ८ ॥ Vaijayantī 6.2.8
  • वैजयन्ती वर्णवर्णो नीलादिविप्राद्योः कीर्तौ गीतिक्रमे स्तुतौ । कुथे वृतेऽक्षरे त्वस्त्री प्रकारे लेपशोभयोः ॥ ७० ॥ Vaijayantī 6.5.70
  • वैजयन्ती विभ्रमयुद्धे देहे विस्तरे च कुशमुष्टौ च विष्टरः । विभ्रमः संशये भ्रान्तौ शोभायां चाथ वालुका ॥ ६९ ॥ Vaijayantī 7.1.69