दीप्ति
dīptiस्त्री · fem.In 17 kośas: 27 synonym verses, 58 as a meaning of another word.
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः ।प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ ९९ ॥पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः ।भाःप्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० ॥
रथोद्धता
रोचिस्क्लीउस्रपुंरुचिस्त्रीशोचिस्क्लीअंशुपुंगोस्त्रीज्योतिस्क्लीअर्चिस्क्लीउपधृतिस्त्रीअभीशुपुंप्रग्रहपुंशुचिपुंमरीचिपुंस्त्रीदीप्तिस्त्रीधामन्क्लीकेतुपुंघृणिपुंरश्मिपुंपृश्निस्त्रीपादपुंदीधितिस्त्रीकरपुंद्युतिस्त्रीद्युत्स्त्रीरुच्स्त्रीविरोकपुंकिरणपुंत्विषिस्त्रीत्विष्स्त्रीभास्स्त्रीप्रभास्त्रीवसुक्लीगभस्तिपुंभानुपुंभास्त्रीमयूखपुंमहस्क्लीछविस्त्रीविभास्त्री
genderस्त्रीfem.
प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः ।दीप्तिश्चायत्नजा भावहावहेलास्त्रयोऽङ्गजाः ॥ ५०९ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः ।रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
रोचिः शोचिरभीशुः प्रद्योतगभस्तिरश्मिघृणिकिरणाः ।रुचिरुग्दीधितिदीप्तिद्युतिप्रभाभाविभाभासः ॥ ३८ ॥
आर्या
genderस्त्रीfem.
अर्चिः कीला ज्वाला वर्चस्तेजस्त्विषस्तथा ज्योतिः ।हेतिद्युतिदीप्तिरुचः शिखाप्रभारश्मयः समानार्थाः ॥ ६५ ॥
गीतिः
genderस्त्रीfem.
बाणमुक्तिर्व्यवच्छेदो दीप्तिर्वेगस्य तीव्रता ।अभ्यासः कथ्यते योग्या श्रमस्थानं खलूरिका ॥ ४७० ॥
अनुष्टुप्
genderस्त्रीfem.
प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः ।दीप्तिश्चायत्नजा भावहावहेलास्त्रयोङ्गजाः ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
शरमुष्टिः पुच्छशीर्ष द्विफली पुंसि पुङ्खकः ।बाणमुक्तिर्व्यवच्छेदो दीप्तिर्वेगस्य तीव्रता ॥ २७४ ॥
अनुष्टुप्
genderस्त्रीfem.
जतुरस्त्री कृमिघ्नी स्त्री द्रुमार्थादामयार्थकः ।दीप्तिः पलाशी जतुका जतूका गन्धमादिनी ॥ ३७५ ॥
अनुष्टुप्
genderस्त्रीfem.
आलोकश्च विरोकश्च प्रकाशोंऽशुः स्त्रियां द्युतिः ।द्युत्त्विट् प्रभा रुचिर्दीप्तिर्विभा रुक् च त्विषिश्छविः ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
छवि-द्युति-द्युद्रुचि-रुक्-त्विषि-त्विट्प्रभा-विभा-भायुजि दीप्तिरेव ।ज्योतिर्विषो [?] धाम-महो-महार्च्चिर्-वर्च्चांसि रोचिश्चरमे च शोचिः ॥ ४५ ॥
उपजातिः
genderस्त्रीfem.
शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।औदार्यं धैर्यमित्यासामलंकाराः प्रयत्नजाः ॥ १७२ ॥
अनुष्टुप्
genderस्त्रीfem.
रूपयौवनलालित्यैः शोभा स्यादङ्गभूषणम् ।रूपं क्लीबे च लावण्यं सौन्दर्यं च समं त्रयम् ।कामेनाप्यायिता कान्तिः सैव दीप्तिस्ततोऽधिका ॥ १७७ ॥
अनुष्टुप्
genderस्त्रीfem.
लाक्षा राक्षा रङ्गमाता जन्तुमाता पलंकषा ।रक्ता निर्मत्सरा दीप्तिर्यावोऽलक्तो द्रुमामयः ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
शरवाणिः स्त्रीषुमुखं कर्तरी पुङ्खमस्त्रियाम् ।पक्षो वाजः पत्रपाली पत्रणा पत्रलं त्रिषु ॥शरसंक्रमणे पुंसि वातरायण उच्यते ।बाणमुक्तिर्व्यवच्छेदो दीप्तिर्वेगस्य तीव्रता ॥ २६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्त्री (wrong syllable)
genderस्त्रीfem.
दीप्तिर्ज्योतिर्महो धाम रश्मिरूर्जो विभावसुः ।शीतोष्णप्रायपूर्वाञ्चौ तदन्ताविन्दुभास्करौ ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
किरणः प्रग्रहो ज्योतिरर्चिर्धाम घृणिः करः ।पृश्निरशिमहःपाददीधितित्विषिदीप्तयः ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderस्त्रीfem.
कान्तिः छविः प्रभा दीप्तिः त्विट् रुचिर्भा प्रकाशिका ।अर्च्चिर्ज्वाला वह्निशिखा कीला जिह्वा स्फुलिङ्गिनी ॥ ३१२ ॥
अनुष्टुप्
genderस्त्रीfem.
शोचिर्दीप्तिर्महो वर्चो रोचिर्भा रुग्रुचिर्वसुः ।शिशिरः शीतलः शीतस्तुषारश्च हिमो जडः ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
शोभ माधुर्यमौदार्यं प्रागल्भ्यं दीप्तिरेव च ।धीरत्वं कान्तिरप्यास्ति स्त्रीणां सात्त्विकालङ्कृतिः ॥ ७९७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 का (wrong syllable)
genderस्त्रीfem.
तीव्रता बाणवेगस्य कथ्यते दीप्तिनामतः ।धारवान् लोहबाणस्तु क्षुरप्रो विनिगद्यते ॥ १२७७ ॥
अनुष्टुप्
genderस्त्रीfem.
कलङ्काङ्कौ कलङ्कस्य पर्यायः समुदाहृतः ।अथ सर्वोत्तमा शोभा सुषमा परिकीर्तिता ।शोभा शुभा द्युतिः कान्तिश्च्छविर्दीप्तिश्च भा द्वयोः ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रीपुंसयोर्मरीचिस्त्विड्दीधितिद्युतयः स्त्रियाम् ।आभाप्रभाविभाभारुग्रुचिभाश्छविदीप्तयः ॥
अनुष्टुप्
genderस्त्रीfem.
रुक्छविद्युतिभास्त्विड्भाप्रभागोरुचिदीप्तयः ।रोचिः शोचिर्महो वर्चो ज्योतिस्तेजश्च धाम च ॥ १६९ ॥
अनुष्टुप्
genderस्त्रीfem.
पुङ्खो लक्षो(क्षा?)ऽतिगो वेगो दीप्तिः शल्यफले समे ।तूणीषुधिर्द्वयोस्तूण उपासङ्गः कलापकः ॥ १३३३ ॥
अनुष्टुप्
genderस्त्रीfem.
आलोकस्तु प्रभा भा रुग्रुचिदीधितिदीप्तयः ।अथातपो रौद्रमिद्धं मृगतृष्णा मरीचिका ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
दीप्ति as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् ओजस्ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये ॥ २३४ ॥ Amarakośa 3.3.234
- नामलिङ्गानुशासनम् तेजस्तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु । Amarakośa 3.3.456
- धरणिकोश रोकपाकः क्लेदननिष्ठयोर्जरसिजे स्थाल्यादिके शावके शाको द्वीपविशेषके निगदितः शक्तौ च वृक्षान्तरे । किष्कुः स्याद्विततप्रकोष्ठमहितो हस्तो वितस्तिस्तथा रोकस्तु क्रयणान्तरे च विवरे रोकस्तु दीप्तौ स्मृतः ॥ Dharaṇikośa 1.1.5
- धरणिकोश रुचिरुचिर्दीप्तौ च शोभायामभिष्वङ्गाभिलाषयोः । कचः केशे च विख्यातो ह्रीबेरासुरभेदयोः ॥ Dharaṇikośa 5.2.2
- धरणिकोश ज्योतिस्ज्योतिर्वह्नौ रवौ नेत्रे दीप्तौ च तारकासु च । ज्यायान् श्रेष्ठे च वृद्धे च प्रशस्येऽतितरामपि ॥ Dharaṇikośa 31.2.9
- कोषकल्पतरु उद्विषतिज्ञानेच्छयोराङ एष विज्ञाने बोधनेऽवतः । उद्भासे च विषिस्तूदो दीप्तौ दाने च सम्मतः ॥ ६१ ॥ Koṣakalpataru 3.5.61
- कोषकल्पतरु वीतिवीतिर्गतौ चाथ नये च नीतिः प्राप्तावपि स्यादथ वृत्तभेदे । गानेऽपि गीतिः प्रमदे तु हार्दे योगान्तरे प्रीतिरनङ्गपत्न्याम् ॥ ५४ ॥ Koṣakalpataru 6.16.54
- कोषकल्पतरु वर्चस्विष्णौ बुधे ब्रह्मणि चाथ पापे- ऽपराध आगोऽथ पुरीषदीप्त्योः । रूपेऽपि वर्चोऽथ सुधांशुपुत्रे पुमांश्च वेदे त्वभिलाषके च ॥ ९९ ॥ Koṣakalpataru 6.31.99
- कोषकल्पतरु ओजस्स्वर्गे धरण्यां च पृथक्प्रयोगे सहप्रयोगेऽपि तथामनन्ति । स्याद्रोदसीत्यव्ययमप्यथौजो दीप्तौ प्रकाशे च बलेऽपि षण्ढे ॥ १ ॥ Koṣakalpataru 6.31.1
- नानार्थार्णवसंक्षेप ऊवृद्धाववाप्तौ दीप्तौ च प्रवेशे श्रवणेच्छयोः । स्वाम्यसामर्थ्ययाच्ञासु क्रियायां भावहिंसयोः ॥ ५० ॥ Nānārthārṇavasaṃkṣepa 1.1.50
- नानार्थार्णवसंक्षेप त्विष्त्विड्ज्वालादीप्तिशोभासु तृट् तु वाञ्छापिपासयोः । द्वार्द्वारोपाययोरुक्ता द्योशब्दः स्वर्गनाकयोः ॥ ५४ ॥ Nānārthārṇavasaṃkṣepa 1.1.54
- नानार्थार्णवसंक्षेप छविपिटके चेति विद्वांसः केचिदाचक्षतेतमाम् । छविश्चर्मणि शोभायां दीप्तौ यज्वद्विजन्मनाम् ॥ ३६ ॥ Nānārthārṇavasaṃkṣepa 2.1.36
- नानार्थार्णवसंक्षेप रुचिअभिष्वङ्गेऽभिलाषेंऽसौ दीप्तौ स्याद्देवतान्तरे । शोभायां तिन्त्रिणीकायाः फले वृक्षाम्लसंज्ञके ॥ ८७ ॥ Nānārthārṇavasaṃkṣepa 2.1.87
- नानार्थार्णवसंक्षेप रागरागोऽनुरागे मात्सर्ये रक्तवर्णे रजस्यपि । लाक्षादिरञ्जनद्रव्ये दीप्तौ क्लेशादिकेऽपि च ॥ १०३ ॥ Nānārthārṇavasaṃkṣepa 2.2.103
- नानार्थार्णवसंक्षेप ओजस्एनः पापेऽपराधे च स्यादोजो बलतोययोः । दीप्तौ प्रकाशेऽवष्टम्भे काव्यालङ्कारभेदके ॥ १६ ॥ Nānārthārṇavasaṃkṣepa 2.3.16
- नानार्थार्णवसंक्षेप वपुस्मार्गे नेत्रच्छदे चाथ वर्म स्यात् कवचे गृहे । वपुः शरीरे लावण्ये जले दीप्तौ च सज्जनः ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 2.3.59
- नानार्थार्णवसंक्षेप काशाबन्धने नृस्त्रियोः काशस्त्विक्षुगन्धाख्यवीरुधि । अस्त्री स्त्रीपुंसयोः काशा दीप्तौ काशी तु सा स्त्रियाम् ॥ १९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.193
- नानार्थार्णवसंक्षेप ज्योतिस्ज्योतिरात्मनि सूर्येऽग्नौ हविर्होमार्चिदीप्तिषु । ग्रहनक्षत्रतारासु नक्षत्रेऽपि विशेषतः ॥ ४९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.493
- नानार्थार्णवसंक्षेप द्योतरात्रावथ रजन्यामित्यस्मिन्नर्थे परे विदुः । द्योतस्तु द्योतनायां ना दीप्तौ द्योता तु सा स्त्रियाम् ॥ ६२७ ॥ Nānārthārṇavasaṃkṣepa 2.5.627
- नानार्थार्णवसंक्षेप भासभारसाध्वादिके तु त्रिर्भासस्तु द्वे खगान्तरे । शकुन्ताख्ये नृस्त्रियोस्तु दीप्तौ सामान्तरे तु नप् ॥ ८९९ ॥ Nānārthārṇavasaṃkṣepa 2.5.899
- नानार्थार्णवसंक्षेप वीर्यअजयस्त्वाह दीप्तौ च नैतदन्यत्र दृश्यते । माहात्म्ये स्त्री तु वीर्यातिवलासंज्ञौषधेऽथ ना ॥ १२६८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1268
- नानार्थार्णवसंक्षेप हृषिआयुर्वेदप्रयोगस्तु स्तब्धे मेढ्रेऽप्यथो हृषिः । स्त्री दीप्तितुष्टयोर्ना धात्वोर्हर्षतौ हृष्यतावपि ॥ १६०४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1604
- नानार्थार्णवसंक्षेप असनक्षेपणे गतिदीप्त्योश्च स्यादादानेऽप्यथार्जकः । सिते कठिञ्जरे पुंसि स्याहार्जयितरि त्रिषु ॥ ७९ ॥ Nānārthārṇavasaṃkṣepa 4.79
- नानार्थार्णवसंक्षेप प्रकाशप्रशस्तेऽप्यजयस्त्वाह विटपेऽथ प्रकाशवाक् । पुंस्यर्चिषि च दीप्तौ च तुल्येऽपि त्रि स्फुटेऽपि च ॥ १०९२ ॥ Nānārthārṇavasaṃkṣepa 4.1092
- नानार्थार्णवसंक्षेप मयूखज्वालादीप्त्योः रथस्याक्षे शङ्कौ चाथ द्वयोरयम् । मयूरो बर्हिणे ना तु स्यादपामार्गसंज्ञके ॥ १३७३ ॥ Nānārthārṇavasaṃkṣepa 4.1373
- नानार्थार्णवसंक्षेप प्रद्योतनप्रद्योतनस्तु ना सूर्ये दीप्तौ क्ल्यर्थादि पूर्ववत् । न ना प्रसरणी ख्यात आसारे युद्धकारिणाम् ॥ ३४० ॥ Nānārthārṇavasaṃkṣepa 6.340
- परमानन्दीयनाममाला अभीषुअभीषुः किरणे दीप्तावरिष्टः काकनिम्बयोः । कङ्कते लशुने दैत्येऽथारिष्टं क्षेमतक्रयोः ॥ २५ ॥ Paramānandīyanāmamālā 5.1.25
- परमानन्दीयनाममाला ओजस्नृत्यभेदेऽप्यरथौजस्तु दीप्तौ धातौ गुणे बले । Paramānandīyanāmamālā 5.6.1
- परमानन्दीयनाममाला केतुकोष्ठं कुशूलके कुक्षौ कूलं सैन्ये तटेऽपि च । केतुर्दीप्तौ पताकायां कलङ्के च ग्रहान्तरे ॥ १०७ ॥ Paramānandīyanāmamālā 5.7.107
- परमानन्दीयनाममाला घृतघृतं दीप्तौ जलेऽथाज्ये घृणा निन्दा दया स्मृता । घटा गोष्ठ्यां गजश्रेणौ घृणिर्ज्वालांशुवीचिषु ॥ १७३ ॥ Paramānandīyanāmamālā 5.10.173
- शब्दरत्नावली रोकराका पूर्णेन्दुपौर्णम्यां नवजातरजःस्त्रियाम् । रोकः क्रयान्तरे दीप्तौ रोकं विवरनौकयोः ॥ Śabdaratnāvalī 7.1.18
- शब्दरत्नावली खखं पुरेन्द्रियशून्येषु बिन्दुक्षेत्रविहायसि । सुखे संवेदने देवलोके दीप्तौ नपुंसकम् ॥ Śabdaratnāvalī 7.2.1
- शब्दरत्नावली रुचिपिचुर्ना दैत्यभित्कुष्ठभेदयोः कर्षतूलयोः । मोचः शोभाञ्जने मोचा शाल्मलीरम्भयोः स्त्रियाम् ॥ रुचिर्दीप्तौ च शोभायामभिलाषाभिषङ्गयोः । रुचा रुग्दीप्तिशोभेछाशारिकाशुकवाक्सु च ॥ Śabdaratnāvalī 7.6.8
- शब्दरत्नावली मरीचिमरीचिः स्याद्द्वयोर्दीप्तौ मुनिभेदे पुमानपि । मारीचः कुष्ठिते रक्षोभेदे स्याद्याजकेऽपि च ॥ Śabdaratnāvalī 7.6.15
- शब्दरत्नावली वाढादृढं त्वतिशयस्थूले स्यात्प्रगाढनितान्तयोः । माढिः स्त्री पत्रभङ्गे च तथा दैन्यप्रकाशने ॥ मूढः शिशौ तन्द्रिते च वाढा च दीप्तिमुख्ययोः । बाढं प्रतिज्ञादृढयो रूढं जातप्रसिद्धयोः ॥ व्यूढः पृथुलविन्यस्तसंहतेष्वभिधेयवत् ॥ Śabdaratnāvalī 7.14.3
- शब्दरत्नावली लवणनदीभेदे च दीप्तौ च स्त्रियां तत्संयुते त्रिषु । लक्षणः स्याद्दाशरथौ लक्षणं नामचिह्णयोः ॥ Śabdaratnāvalī 7.15.59
- शब्दरत्नावली ऋतुतुरार्तवदीप्त्योश्च वर्षादिषट्सु पुंस्ययम् । एतः कुर्वरवर्णे स्यादागते हरिणे क्वचित् ॥ Śabdaratnāvalī 7.16.6
- शब्दरत्नावली कीर्तिकान्तिः शोभेच्छयोः स्त्री तु क्रतुर्यज्ञे मुनौ पुमान् । कान्ता प्रियङ्गौ नार्यां स्त्री प्रिये ना शोभने त्रिषु ॥ लोहं च चन्द्रसूर्ययोः पर्यायान्तशिलासु ना । क्षितिः क्षये निवासे च पृथिवी कालभेदयोः ॥ कीर्तिः प्रसादे यशसि शब्दे दीप्तौ च योषिति । कुन्तो गर्वधुकायां स्यात्पुमान् प्रासायुधेऽपि च ॥ Śabdaratnāvalī 7.16.8
- शब्दरत्नावली घृतगुप्तन्तु रक्षिते गूढे सङ्गतेऽप्यभिधेयतत् । घातः प्रहारे कान्ते स्यात्तालावस्थान इत्यपि । घृतं नीले क्लीबमाद्ये दीप्तिसेचनयोस्त्रिषु ॥ Śabdaratnāvalī 7.16.12
- शब्दरत्नावली वीतिवीतिर्दीप्तौ गतौ भुक्तौ प्रजने वाधनेऽपि च । वृत्तिर्विवरणाजीवकौशिक्यादिप्रवर्त्तने ॥ Śabdaratnāvalī 7.16.55
- शब्दरत्नावली गञ्जनगञ्जनन्तु भवेद्धिंसासूचनोत्साहदीप्तिषु । ग्रामीनः शुनि काके ना स्याद्ग्रामसंस्कृते त्रिषु ॥ Śabdaratnāvalī 7.20.54
- शब्दरत्नावली भाभः पुंसि भार्गवभ्रान्त्योर्भा दीप्तौ भीर्भये स्त्रियाम् ॥ Śabdaratnāvalī 7.24.1
- शब्दरत्नावली भामब्रह्मी मत्स्यप्रभेदे स्यात्फञ्जिकाशाकयोः स्त्रियाम् । ब्राह्मी स्त्रियां सोमवल्लीभारतीब्रह्मशक्तिषु ॥ भ्रमः कुन्दभमणयोः भ्रान्तौ च जलनिर्गमे । भामः स्याद्भास्करे क्रोधे दीप्तौ च भगिनीपतौ ॥ Śabdaratnāvalī 7.25.15
- शब्दरत्नावली वीर्यप्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च । प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥ पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने । पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥ पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् । पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥ वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे । वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥ बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् । वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥ Śabdaratnāvalī 7.26.19
- शब्दरत्नावली उदयअनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥ अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥ अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥ निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥ आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥ आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥ उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ Śabdaratnāvalī 7.26.38
- शब्दरत्नावली चार्वीचार्वी धनदभार्यायां स्त्री ज्योत्स्नाबुद्धिदीप्तिषु । जवो वेगे वेगवति स्यादोड्रकुसुमे जवा ॥ Śabdaratnāvalī 7.29.6
- शब्दरत्नावली विकाशविकाशो विजने दीप्तौ सदृशस्तुल्ययोग्ययोः । संवेशः शयने स्त्रीणां रतबन्धेऽपि पुंस्ययम् ॥ Śabdaratnāvalī 7.30.26
- शब्दरत्नावली कासूकासूः शक्त्यायुधे दीप्तौ भाषा विकलवाक्ययोः । गुत्सो हारभिदि स्तम्बे स्तबके ग्रन्थिपर्णयोः ॥ गोसो वोले च प्रत्यूषे चास इक्षुविहङ्गयोः । त्रासो भीतौ मणेर्दोषे दासी झिण्ठीभुजिष्ययोः ॥ Śabdaratnāvalī 7.32.3
- शब्दरत्नावली वसुप्रसूर्मातरि कन्दल्यामश्वायां विरुधि स्त्रियाम् । वसुरत्ने धने क्लीबं दीप्तौ वृद्ध्यौषधे स्त्रियाम् । नाग्नौ देवे बके श्यामे योक्तभूपालसाधुषु ॥ Śabdaratnāvalī 7.32.5
- शब्दरत्नावली ओजस्ओजः क्लीबं बले दीप्ताववष्टम्भप्रकाशयोः । एनः पापेऽपराधेऽपि निन्दायामपि न द्वयोः ॥ Śabdaratnāvalī 7.32.19
- शब्दरत्नावली तेजस्तेजः क्लीबं पराक्रान्तिप्रभाववीर्यदीप्तिषु । धनुः पियाले राशौ ना चापेऽस्त्री धन्वनि त्रिषु ॥ Śabdaratnāvalī 7.32.24
- शब्दरत्नाकर त्विष्द्वयोः सायकवज्राम्बुस्वर्गयज्ञेषु लोम्न्यपि । ज्या शिज्जिनीवसुधयोस्त्विड्ज्वालादीप्तिकान्तिषु ॥ २२४२ ॥ Śabdaratnākara 4.1.2242
- तन्त्राभिधान भनक्षत्रं भ्रमणा दीप्तिर्व(र्भू)यो भूमिः पयो नभः । नाभिर्भद्रं महाबाहुर्विश्वमूर्तिर्विभा(तु)ण्डकः ॥ १३३ ॥ Tantrābhidhāna 2.41.133
- तन्त्राभिधान भाभा दीप्तिरपि भूर्भूमिर्भीर्भयं कथिता बुधैः । मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्त्तिता ॥ २७ ॥ Tantrābhidhāna 3.27
- त्रिकाण्डशेष राढाविचेष्टबालिशौ मूढौ राढा स्याद्दीप्तिदेशयोः । पण्डकञ्चुकिनौ षण्ढौ समूढः पुञ्जिते नवे ॥ ११८ ॥ Trikāṇḍaśeṣa 3.3.118
- त्रिकाण्डशेष उस्रउग्रोत्यजे शिवेऽत्युच्चे उस्रो दीप्तौ गवि स्त्रियाम् । सिंहजटासु पुन्नागे बकुले नागकेशरे ॥ ३३३ ॥ Trikāṇḍaśeṣa 3.3.333
- वैजयन्ती त्विष्ऋशब्दः स्याद्दिव्यदितौ त्विड्ज्वालाकान्तिदीप्तिषु । उत्साहेऽन्नरसेऽप्यूर्क् स्यात् स्रुक् स्रुवे शोषणे गतौ ॥ १८ ॥ Vaijayantī 8.2.18
- वैजयन्ती प्रद्योतनना त्वाम्रे दिग्गजे व्याघ्रे राजिलाहौ गजे ज्वरे । दीप्त्यां प्रद्योतनं नार्के घोरे प्रतिभयं भये ॥ १७ ॥ Vaijayantī 8.5.17