दीधिति
dīdhitiस्त्री · fem.In 15 kośas: 16 synonym verses, 1 as a nānārtha head word, 8 as a meaning of another word.
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः ।प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ ९९ ॥पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः ।भाःप्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० ॥
रथोद्धता
रोचिस्क्लीउस्रपुंरुचिस्त्रीशोचिस्क्लीअंशुपुंगोस्त्रीज्योतिस्क्लीअर्चिस्क्लीउपधृतिस्त्रीअभीशुपुंप्रग्रहपुंशुचिपुंमरीचिपुंस्त्रीदीप्तिस्त्रीधामन्क्लीकेतुपुंघृणिपुंरश्मिपुंपृश्निस्त्रीपादपुंदीधितिस्त्रीकरपुंद्युतिस्त्रीद्युत्स्त्रीरुच्स्त्रीविरोकपुंकिरणपुंत्विषिस्त्रीत्विष्स्त्रीभास्स्त्रीप्रभास्त्रीवसुक्लीगभस्तिपुंभानुपुंभास्त्रीमयूखपुंमहस्क्लीछविस्त्रीविभास्त्री
genderस्त्रीfem.
किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः ।भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
रोचिः शोचिरभीशुः प्रद्योतगभस्तिरश्मिघृणिकिरणाः ।रुचिरुग्दीधितिदीप्तिद्युतिप्रभाभाविभाभासः ॥ ३८ ॥
आर्या
genderस्त्रीfem.
छागार्थवाहनार्थः स्याज्जातवेदा उषर्बुधः ।दूतो वैश्वानरो मन्त्रो दीधितिः स्वर्णसप्तयोः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
अभीशुः किरणोभीषुर्भानुरुस्रश्च दीधितिः ।रश्मिर्मयूख उद्योतः केतुश्चोपधृतिर्वसुः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कर-किरण-मयूखाभीषु-रश्म्यंशु-गावःशुचि-वसु-घृणि-घृष्णि-प्रग्रहोस्रा गभस्तिः ।उपधृतिरपि रोकः स्यूम-पादौ च पृश्निः*****मरीचिर्दीधितिः स्त्री पदं च [21a] ॥ ४४ ॥
मालिनीmetre not read in every line
genderस्त्रीfem.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderस्त्रीfem.
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderस्त्रीfem.
दीधितिर्भानुरुस्रोंऽशुर्गभस्तिः किरणः करः ।पादो रुचिर्मरीचिर्भास्तेजोऽर्चिर्गौर्द्युतिः प्रभा ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
किरणः प्रग्रहो ज्योतिरर्चिर्धाम घृणिः करः ।पृश्निरशिमहःपाददीधितित्विषिदीप्तयः ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderस्त्रीfem.
गृणिर्गभस्तिः किरणो दीधितिश्चरणो वसुः ।रश्मिर्मरीचिरुस्रोंऽशुः करो भानुः प्रकाशकः ॥ ३१७ ॥
अनुष्टुप्
genderस्त्रीfem.
नक्षत्रमृक्षं भं धिष्ण्यं तारा ज्योतिरुडुर्ग्रहः ।मयूखः किरणो भानुर्मरीचिर्दीधितिः करः ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
रोचिः शोचिश्च रश्मिश्च ज्योतिश्च किरणो शुचिः ।घृणिः पृश्निः मयूखश्च मरीचिर्दीधितिर्द्युतिः ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रीपुंसयोर्मरीचिस्त्विड्दीधितिद्युतयः स्त्रियाम् ।आभाप्रभाविभाभारुग्रुचिभाश्छविदीप्तयः ॥
अनुष्टुप्
genderस्त्रीfem.
वसुपादकराभीशुरश्मिप्रग्रहभानवः ।दीधितिः स्त्री मरीचिः स्त्रीपुंसोस्तासु सहस्रके ॥ १६५ ॥
अनुष्टुप्
genderस्त्रीfem.
आलोकस्तु प्रभा भा रुग्रुचिदीधितिदीप्तयः ।अथातपो रौद्रमिद्धं मृगतृष्णा मरीचिका ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
दीधिति as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) गोदिग्दृष्टिदीधितिस्वर्गवज्रवाग्वाणवारिषु । भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥ ८५४ ॥ Abhidhānaratnamālā (Halāyudha) 5.854
- कोषकल्पतरु ऋषिऋषिर्वसिष्ठादिषु दीधितौ च वेदे च ना बाणसुतारजन्योः । उषाथ कम्रे त्रिषु गुग्गुलौ ना झषस्तु वैसारिणि पुंसि दिष्टः ॥ ४४ ॥ Koṣakalpataru 6.30.44
- नानार्थार्णवसंक्षेप सप्तर्षिअन्धकारे च युद्धे च सप्तर्षिस्त्वपि दीधितौ । सप्तर्षयस्तु स्याच्चित्रशिखण्डिष्वथ कीर्त्यते ॥ २४२ ॥ Nānārthārṇavasaṃkṣepa 3.2.242
- नानार्थार्णवसंक्षेप अभीशुअ(त्म?द्म)निस्तु पुमानग्नौ जयहस्तिन्यथ स्त्रियाम् । पशूनां भक्षणे द्रोण्यां तालुन्यप्यथ दीधितौ ॥ १५४ ॥ Nānārthārṇavasaṃkṣepa 4.154
- नानार्थार्णवसंक्षेप सप्तर्षिअन्धकारे च युद्धे च सप्तर्षिस्त्वपि दीधितौ । सप्तर्षयस्तु स्याच्चित्रशिखण्डिष्वथ कीर्त्यते ॥ २४२ ॥ Nānārthārṇavasaṃkṣepa 6.242
- शारदीयाख्यनाममाला गोदिग्दृष्टिदीधितिस्वर्गवज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो विद्वद्भिर्दशधा मतः ॥ १३० ॥ Śāradīyākhyanāmamālā 3.5.130
- शब्दरत्नावली ऋषिऋषिर्वेदे वशिष्ठादौ दीधितौ मत्स्यरूपिणि । ऋक्षं कैतवनक्षत्रधनेष्वपि नपुंसकम् ॥ Śabdaratnāvalī 7.31.4
- वैजयन्ती प्रकाशप्रकाशोऽर्चिषि दीधित्यां ना तुल्यस्फुटयोस्त्रिषु । मुखे प्रतीकस्त्रिषु तु प्रतिकूलानुरूपयोः ॥ ५४ ॥ Vaijayantī 7.5.54