उपमा
upamāस्त्री · fem.In 16 kośas: 16 synonym verses, 14 as a meaning of another word.
औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।कक्षोपमानमर्चा तु प्रतेर्मा यातना निधिः ॥ १४६३ ॥छाया छन्दः कायो रूपं बिम्बं मानकृती अपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderस्त्रीfem.
प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥ ३६ ॥साधारणः समानश्च स्युरुत्तरपदे त्वमी ।निभसङ्काशनीकाशप्रतीकाशोपमादयः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
उपमार्चा प्रतिनिधिः पुंसि प्रतिकृतिः स्त्रियाम् ।प्रतिबिम्बं प्रतिमानमुपमानं नपुंसकम् ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderस्त्रीfem.
निभसंकाशनीकाशप्रतीकाशोपमादयः ।कर्मण्या तु विधा भृत्या भृतिः स्त्री कर्मवेतनम् ॥ ८२ ॥
अनुष्टुप्
genderविadj.
प्रख्य-प्रतीकाश-निभोपमानो-पमा-प्रकार-प्रतिम-प्रकाशाः ।संकाश-नीकाश-सनाभि-भूतरूपादयश्चोत्तरगाः समार्थाः ॥ ६६ ॥
उपजातिः
genderविadj.
कक्षा तुला चोपमा स्यादुपमानं तु न स्त्रियाम् ॥ ३३ ॥
genderस्त्रीfem.
उमा रुमा वमीर्भ्रमिः कृमिः क्षुमोपमा समाः ।जयाभया हलिप्रिया क्रिया क्षिया सह ज्यया ॥ ६२ ॥
पञ्चचामरम्
genderस्त्रीfem.
समः सवर्णः सज्ञातिः सदृक्षः सदृशः सदृक् ।तुल्यः सधर्मरूपश्च तुला कक्षोपमा विधा ॥ १३६ ॥
अनुष्टुप्
genderस्त्रीfem.
अन्यवस्तुनि चारोपे गुणानन्यस्य वस्तुनः ।उपमा चोपमानं च उपमं च क्वचित्क्वचित् ॥ ६१४ ॥
अनुष्टुप्
genderस्त्रीfem.
समानं सदृशं xx संकाशः संनिभः समः ।अनुहारश्चोपमानं समकक्षा तुलोपमा ॥ १०१ ॥
metre not recognisedLatin letters: xx
genderस्त्रीfem.
स्यादुत्तरपदे भूतः प्रख्यश्च प्रतिमो निभः ।प्रकाशः प्रतिकाशश्च प्रतीकाशस्तथोपमा ॥ २६५७ ॥
अनुष्टुप्
genderविadj.
औपम्यमुपमानमुपमितिस्तथोपमा ।अनुकारोऽनुहारश्च साम्यं कक्षा तथा तुला ॥ २६५९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
प्रतिबिम्बं प्रतिच्छाया प्रतिमा प्रतियातना ।उपमोपमितिः स्त्री स्यादुपमानं नपुंसकम् ॥
अनुष्टुप्
genderस्त्रीfem.
अन्तरालं, समं तुल्ये समानं सदृशं सदृक् ।सदृक्षमनुहारे तूपान्मान-मिति-मा-मताः ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
अर्चा प्रत्याकृतिश्छायोपमा प्रतिनिधिः पुमान् ।प्रतिमानोपमाने च बिम्बोऽस्त्री प्रतिविम्बवत् ॥ १५३७ ॥
अनुष्टुप्
genderस्त्रीfem.
आभा प्रख्योपमाभिख्या प्रकारः सन्निभं निभम् ।निकाशाद्याश्च साम्यार्थाः समे स्युः शब्दतः पराः ॥ १२२ ॥
अनुष्टुप्
genderस्त्रीfem.
उपमा as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् वाउपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ २५० ॥ Amarakośa 3.3.250
- धरणिकोश धर्मधर्माः पुण्ययमन्यायस्वभावाचारसो[70]मपाः । विदुश्चापे धर्मशब्दमहिंसोपमयोरपि ॥ Dharaṇikośa 24.3.5
- धरणिकोश वावशब्द उपमाने स्याद्वरुणे च त्वनव्ययम् । वा समुच्चयोपमयोर्वा विकल्पेऽवधारणे ॥ Dharaṇikośa 34.13.1
- धरणिकोश एवम्अलं भूषणपर्याप्तिवारणेषु स्मृत[मलम्] । एवं प्रकारोपमयोरङ्गीकारेऽवधारणे ॥ Dharaṇikośa 34.15.4
- कोषकल्पतरु वव स्यादपूर्तावुपमार्थके च विकल्पसादृश्यसमुच्चये वा । वि तु प्रशस्ये विशयेऽप्यतीते प्रसादसंबोधनपूरणे वै ॥ १९ ॥ Koṣakalpataru 5.1.19
- कोषकल्पतरु धर्मभीष्मः शंतनुनन्दने स्मरहरे रात्रिंचरे दारुणे भेद्ये क्षीरखयोः सुमस्तु [न] युगे पुष्पे पुनः स्यात्सुमम् । धर्मोऽस्त्री सुकृतेऽथ पुंसि च यमे न्याये स्वभावे क्रता- वाचारोपमयोस्तथोपनिषदि स्यात्कार्मुकोपाधिगः ॥ ६७ ॥ Koṣakalpataru 6.25.67
- नानार्थार्णवसंक्षेप उपमानउच्छीर्षकेऽथोपमानमुपमायां च येन च । उपमीयेत तत्रापि कपिशीर्षं पुनः कपेः ॥ १३ ॥ Nānārthārṇavasaṃkṣepa 6.13
- शब्दरत्नावली धर्महिंसोपमाक्रतुन्याये ना धनुर्यमसोमपे । ध्यानं श्यामे त्रिषु क्लीबं दमने गन्धखटके । नेमिः कूपत्रिकाचक्रान्तयोः स्त्री तिनिशे पुमान् ॥ Śabdaratnāvalī 7.25.13
- शब्दरत्नावली नन निषेधे तूपमायां शिरश्चालन इत्यपि ॥ नि सामीप्ये निवेशेऽतिशये दाने च संशये । नित्यार्थे कोशले क्षेपे बन्धेऽन्तर्भावमोक्षयोः ॥ आश्रये राश्यधोभावविन्यासोयरमेष्वपि । नु प्रश्नातीततर्कानुनयोपमानहेतुषु ॥ Śabdaratnāvalī 8.1.39
- शब्दरत्नावली उपअप चौर्ये च निर्देशे विकृतौ च विपर्यये । विनियोगे वर्जनार्थे हर्षापकृष्टयोरपि ॥ अपि सम्भावनाशङ्काप्रश्नगर्हासमुच्चये । कामचारक्रियायुक्तपदार्थे च निगद्यते ॥ उप दाक्षिण्यसामर्थ्यहीवात्मय … । अधिकार्थे समीपे च दाषाख्याननिदर्शने । आश्चर्यकरणे दाने मारणे व्याप्तिलिप्सयोः ॥ उपमारम्भपूजासु भवेदुद्योग इत्यपि । Śabdaratnāvalī 8.1.44
- शब्दरत्नावली वाव स्यादेकार्थे श्रेष्ठार्थे वरुणार्थे त्वनव्ययम् ॥ वा स्यात्समुच्चयैवार्थविकल्पार्थोपमासु च ॥ Śabdaratnāvalī 8.1.45
- शब्दरत्नावली एवविज्ञाने स्यात्परिभवे पालनेऽपि निगद्यते । एवोपमा नियोगावधारणे वाक्यपूरणे ॥ Śabdaratnāvalī 8.1.57
- तन्त्राभिधान घउपमा घा समाख्याता कुस्वरे घुः प्रकीर्त्तितः । हनने घा समाख्याता गन्धने घः प्रकीर्त्तितः ॥ ११ ॥ Tantrābhidhāna 3.11
- त्रिकाण्डशेष धर्मधर्मोऽहिंसोपमायागोपनिषत्सु धनुष्यपि । कटे पुर्य्याञ्च निगमो नियमो निश्चये वृते ॥ २९८ ॥ Trikāṇḍaśeṣa 3.3.298