तडित्
taḍitस्त्री · fem.In 17 kośas: 17 synonym verses, 18 as a meaning of another word.
असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः ।उदधिद्वीपदिशो दश भवनाधीशाः कुमारान्ताः ॥ ९० ॥
आर्या
genderस्त्रीfem.
तडिदैरावती विद्युच्चला शम्पाचिरप्रभा ॥ ११०४ ॥आकालिकी शतह्रदा चञ्चला चपलाशनिः ।सौदामनी क्षणिका च ह्रादिनी जलवालिका ॥ ११०५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ह्र (wrong syllable); pāda 3, syllable 6 णि (wrong syllable)
genderस्त्रीfem.
शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा ।तडित्सौदामनी विद्युच्चञ्चला चपला अपि ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
शम्पा चपला क्षणिका शतह्रदा ह्लादिनी तडिद्विद्युत् ।सौदामिन्यचिरांशुः प्राज्ञैरैरावती च विज्ञेया ॥ ६० ॥
गीतिः
genderस्त्रीfem.
घनाघनो वर्षमस्त्री स्त्री वृष्टिर्वर्षणं च षण् ।वर्षं तस्य प्रतीघाते वग्राहावग्रहौ तडित् ॥ १५३ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ स्त्री योनिमत्सेनावीचीवम्रीतडिन्निशाम् ।वल्लीशस्त्रीदयाजिह्वाऽवटुतन्द्रानदीदिशाम् ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
शम्पा सम्पा विद्युदम्भोदवल्लीसौदाम्नी सौदामिनी ह्रादिनी च ।सौदामन्याकालिकाकालिकी स्यात्सर्जूर्वीणा च छटाभा तडिच्च ॥ ११ ॥
शालिनी
genderस्त्रीfem.
स्त्रियां सयोनिदेहिनां विना विशेषमाह्वयश्चमू शिरोधरा तडित्क्षपालतानिशादिशाः ॥ २७ ॥
पञ्चचामरम्
genderस्त्रीfem.
एते शब्दाः नित्यं स्त्रियां भवन्ति । इयं भाः दीप्तिः । कच्छुः पामा । कशादनी । रज्जुः कुशमयी । इष्टका पक्व[क]मृत्तिका । इषिका वीरणशलाका कष्ठिका? च । विद्युदादीनामभिधानं स्त्रियां भवति । यथा इयं विद्युत् तडित् चञ्चला शतह्रदा क्षणप्रभा सौदामिनी ऐरावतीत्यादि । दिगभिधानम् । आशा काष्ठा ककुप् विदिगित्यादयः । भूम्यभिधानम् । इयं भूमिः धरा रसा पृथ्वी क्षमा क्ष्मा इत्यादिः । वल्ल्यभिधानम् । इयं वल्ली व्रततिः प्रतानिनीत्यादयः । सरिदभिधानम् । इयं सरित् नदी कुल्या स्रवन्ती निम्नगा तटिनीत्यादयः ।छायासुरानिशावालुकाः स्त्रियां स्युश्चमूकन्थेराश्च ।आपत्संपद्विपत्प्रतिपत्समिद्विप्रुषश्चैव ॥ ३२ ॥
metre not recognised
भास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीइषिकास्त्रीविद्युत्स्त्रीतडित्स्त्रीचञ्चलास्त्रीशतह्रदास्त्रीक्षणप्रभास्त्रीसौदामिनीस्त्रीऐरावतीस्त्रीआशास्त्रीकाष्ठास्त्रीककुभ्स्त्रीविदिश्स्त्रीभूमिस्त्रीधरास्त्रीरसास्त्रीपृथ्वीस्त्रीक्षमास्त्रीक्ष्मास्त्रीवल्लीस्त्रीव्रततिस्त्रीप्रतानिनीस्त्रीसरित्स्त्रीनदीस्त्रीकुल्यास्त्रीस्रवन्तीस्त्रीनिम्नगास्त्रीतटिनीस्त्रीछायास्त्रीसुरास्त्रीनिशास्त्रीवालुकास्त्रीचमूस्त्रीकन्थास्त्रीइरास्त्रीआपद्स्त्रीसंपद्स्त्रीविपद्स्त्रीप्रतिपद्स्त्रीसमिध्स्त्रीविप्रुष्स्त्री
genderस्त्रीfem.
सौदामिनी तडिद्विद्युच्चञ्चच्चपलिका चला ।मेघनादे महागर्जा घनाघननिनादकः ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
अम्बुदघनाघनो घनो मेघो जीमूतोऽभ्रं बलाहकः ।पर्जन्यो मिहिरो नभ्राट् शम्पा सौदामिनी तडित् ॥ १८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
स्त्रीलिङ्गे योनिमन्नाम वल्लीसेनातडिद्दिशाम् ।वम्रीतन्द्रानिशां ग्रीवादयाजिह्वाधियामपि ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
अभ्यन्तरमन्तरालं परिधिः परिवेषकः ।तडित्शतहृदा शम्पा ह्रादिनी चञ्चलाऽल्पभा ॥ ३१४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderस्त्रीfem.
जीमूतो वारिदो नभ्राट् पर्जन्योऽम्भोधरोऽम्बुदः ।विद्युत्सौदामिनी शम्पा चञ्चला चपला तडित् ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
विद्युत् तडित् तथा शम्पा सम्पा चलाऽचिरप्रभा ॥ १९३५ ॥
metre not recognised
genderस्त्रीfem.
मेघशब्दे तु रसितं स्तनितं गर्जितादि च ।विद्युत् क्षणप्रभा शम्पा चपला चञ्चला तडित् ॥
अनुष्टुप्
genderस्त्रीfem.
विद्युत्तडिच्च धीर्बुद्धिर्वल्ली नीरुदियाः स्त्रियाम् ।शिष्टप्रयोगात्पुंस्त्वे च लज्जायां व्रीड इत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
तडित् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् ह्लादिनीह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी ॥ ११२ ॥ Amarakośa 3.3.112
- धरणिकोश ह्रादिनीह्रादिनी वज्रतडितोर्वर्तिनी वृत्तिमार्गयोः । द्विजन्मा विहगे विप्रे भूतात्मा धातृदेहयोः ॥ Dharaṇikośa 19.1.19
- धरणिकोश चपलाचपलः पारदः प्रोक्तश्चपलश्चेष्टितः स्मृतः । चपलं क्षणिकं शीघ्रं चपला पिप्पली तडित् ॥ Dharaṇikośa 27.3.18
- कोषकल्पतरु सर्जूमन्थे प्रहस्ते च खजाऽथ पिञ्जो वधे **ण्यां च गुणैः प्रदिष्टः । खर्जूः स्त्री खर्जूरे कण्ड्वां कीटेऽथ मर्जूः स्त्री । रजके शुद्धौ सर्जू रुद्रे स्वर्गे च वाणिजे तडिति ॥ ३० ॥ Koṣakalpataru 6.7.30
- कोषकल्पतरु विद्युत्पूज्येऽर्हंस्त्रिषु ना जिने दिशि हरित्स्त्री वर्णभेदे हये ना च स्त्री तु तृणे स्त्रियां तु हरितो दूर्वा सुवर्णेऽन्यवत् । रोहित् पुंसि रवौ मृगीव्रततिगः स्त्री विद्युदुक्ता स्त्रियां संध्यायां तडिति प्रभाविरहिते भेद्यस्य लिङ्गे मता ॥ २४ ॥ Koṣakalpataru 6.16.24
- कोषकल्पतरु सौदामिनीनागा[ञ्ज]ना तु करिमुद्गरिकेभयष्ट्योः सौदामिनी तु तडिदप्सरसोर्विभेदे । ऋग्भेदके समिधि योषिति सामिधेनी कासारपद्मनलिनीषु सरोजिनी च ॥ ५० ॥ Koṣakalpataru 6.21.50
- कोषकल्पतरु गुल्मध्यामं गन्धतृणे पुमान्[द]मनके धूम्रे पुनर्वाच्यवत् गुल्मो [थो]बलरक्षणे च जठरग्रन्थौ प्रकाण्डे बले । घट्टे स्त्र्यामलकीतडित्पटगृहे जाल्मस्तु रौद्रे जडे भेद्याभोऽप्यसमीक्ष्यकारिणि भवेद्ग्रामः स्वराणां ग्रहे ॥ ६३ ॥ Koṣakalpataru 6.25.63
- नानार्थार्णवसंक्षेप विद्युत्तडिति त्रिषु तु ज्ञेयं दीप्रे विष्टप् पुनः स्त्रियाम् । दिवि पुंसि तु सूर्येऽथ वीरो ना शर्वशक्रयोः ॥ १२६२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1262
- नानार्थार्णवसंक्षेप शतह्रदाविष्णुक्रान्ता तु सुमुखीगिरिकर्णिकयोरपि । शतह्रदा तु तडिति तद्भेदे मरिचे पुनः ॥ ५१ ॥ Nānārthārṇavasaṃkṣepa 6.51
- नानार्थार्णवसंक्षेप शतहृदाशतवीर्या स्त्रियां श्वेतदूर्वायां सादि पूर्ववत् । शतहृदा तडिद्भेदे तडित्यप्यत्र पूर्ववत् ॥ ५९५ ॥ Nānārthārṇavasaṃkṣepa 6.595
- नानार्थार्णवसंक्षेप शतावर्ताशतावर्ता तु तडिति स्त्रियां विष्णौ तु पुंस्ययम् । अत्रापि पूर्ववत् सादि ज्ञेया शतमुखी स्त्रियाम् ॥ ५९७ ॥ Nānārthārṇavasaṃkṣepa 6.597
- शब्दरत्नावली वीणावाणा द्वयोर्नीलझिण्ट्यां वानमूले स्त्रियामपि । वीणा तडिति वल्लव्यां रुद्रवीणादिषु स्त्रियाम् ॥ Śabdaratnāvalī 7.15.16
- शब्दरत्नावली ऐरावततटष्यप्रोक्ता शतावर्यामबला शूकशिखयोः । ऐरावतो दिग्गजे स्यान्नारङ्गे लकुचद्रुमे ॥ नागान्तरे च पुंसि स्यात् स्त्रियां तडिति तद्भिदि । क्लीबं महेन्द्रकोदण्डे नटजुदीर्घे निगद्यते ॥ कलधौतं शातकुम्भे रजते च नपुंसकम् । कुमुद्वान् वाच्यलिङ्गः स्यात्कुमुदप्रायदेशके ॥ कुमुद्वनी कुमुदिनीकुशपर्ण्योरपि स्त्रियाम् । भवेत्कुहरितं क्लीबं रतशब्दे पिकध्वनौ ॥ कृष्णवृन्ता माषपर्ण्यां पाटलायामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.16.160
- शब्दरत्नावली राधाविशाखामलकीगोपीविष्णुक्रान्तातडित्सु च ॥ Śabdaratnāvalī 7.19.11
- शब्दरत्नावली चञ्चलाचञ्चला स्त्री तडिल्लक्ष्म्यीश्चञ्चलचपलेऽनिले ॥ Śabdaratnāvalī 7.28.63
- शब्दरत्नाकर चञ्चलगरुत्मान् विहगे तार्क्ष्ये घटिका नाडिका घटः । चञ्चलो वाच्यलिङ्गे स्यात्तरले तडिति स्त्रियाम् ॥ २०८८ ॥ Śabdaratnākara 4.1.2088
- शब्दरत्नाकर चपलचपले त्रिषु केशे ना चिकुरश्चपलो रसे । तडिति स्त्री द्रुते क्लीबश्चत्वरस्तु चतुष्पथे ॥ २०८९ ॥ Śabdaratnākara 4.1.2089
- तन्त्राभिधान त----------------------------------- वामपादादिकस्तीव्रो हस्त्यश्वतरलोऽङ्घ्रिकः । नीलकोऽप्यर्थको धाता तडित् तु ता-र्णको मतः ॥ ३३ ॥ Tantrābhidhāna 6.33