कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सौदामिनी

saudāminīस्त्री · fem.

In 16 kośas: 15 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.60 · p. 8
शम्पा चपला क्षणिका शतह्रदा ह्लादिनी तडिद्विद्युत् ।सौदामिन्यचिरांशुः प्राज्ञैरैरावती च विज्ञेया ॥ ६० ॥
गीतिः
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर तृतीयोपदेशः Bālaprabodhikā 3.55 · p. 70
सौदामिन्यैरावती च तद्भेदेऽप्यन्तिमत्रयम् ।गर्जितं स्तनितं जीर्णं निर्घोषः पातपातकौ ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
भवेद्वर्षे वर्षणं चावग्राहावग्रहौ समौ ।सौदामनी च सौदाम्नी तथा सौदामिनीक्ष्यते ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.154 · p. 396
शम्पा सौदामिनी विद्युच्चञ्चला च शतह्रदा ।सौदामनी च सौदाम्नी ह्रादिनी चाशनिर्द्वयोः ॥ १५४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.11 · p. 27
genderस्त्रीfem.
एते शब्दाः नित्यं स्त्रियां भवन्ति । इयं भाः दीप्तिः । कच्छुः पामा । कशादनी । रज्जुः कुशमयी । इष्टका पक्व[क]मृत्तिका । इषिका वीरणशलाका कष्ठिका? च । विद्युदादीनामभिधानं स्त्रियां भवति । यथा इयं विद्युत् तडित् चञ्चला शतह्रदा क्षणप्रभा सौदामिनी ऐरावतीत्यादि । दिगभिधानम् । आशा काष्ठा ककुप् विदिगित्यादयः । भूम्यभिधानम् । इयं भूमिः धरा रसा पृथ्वी क्षमा क्ष्मा इत्यादिः । वल्ल्यभिधानम् । इयं वल्ली व्रततिः प्रतानिनीत्यादयः । सरिदभिधानम् । इयं सरित् नदी कुल्या स्रवन्ती निम्नगा तटिनीत्यादयः ।छायासुरानिशावालुकाः स्त्रियां स्युश्चमूकन्थेराश्च ।आपत्संपद्विपत्प्रतिपत्समिद्विप्रुषश्चैव ॥ ३२ ॥
metre not recognised
भास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीइषिकास्त्रीविद्युत्स्त्रीतडित्स्त्रीचञ्चलास्त्रीशतह्रदास्त्रीक्षणप्रभास्त्रीसौदामिनीस्त्रीऐरावतीस्त्रीआशास्त्रीकाष्ठास्त्रीककुभ्स्त्रीविदिश्स्त्रीभूमिस्त्रीधरास्त्रीरसास्त्रीपृथ्वीस्त्रीक्षमास्त्रीक्ष्मास्त्रीवल्लीस्त्रीव्रततिस्त्रीप्रतानिनीस्त्रीसरित्स्त्रीनदीस्त्रीकुल्यास्त्रीस्रवन्तीस्त्रीनिम्नगास्त्रीतटिनीस्त्रीछायास्त्रीसुरास्त्रीनिशास्त्रीवालुकास्त्रीचमूस्त्रीकन्थास्त्रीइरास्त्रीआपद्स्त्रीसंपद्स्त्रीविपद्स्त्रीप्रतिपद्स्त्रीसमिध्स्त्रीविप्रुष्स्त्री
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज गगनादिनामधेयप्रकरणम् Nāmamālikā 2.19 · p. 8
सौदामिनी तडिद्विद्युच्चञ्चच्चपलिका चला ।मेघनादे महागर्जा घनाघननिनादकः ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 18 · p. 8
अम्बुदघनाघनो घनो मेघो जीमूतोऽभ्रं बलाहकः ।पर्जन्यो मिहिरो नभ्राट् शम्पा सौदामिनी तडित् ॥ १८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.156 · p. 24
विद्युदैरावती सौदामिनी च जलवालिका ।शम्पाचिरप्रभा तुल्ये चपला चञ्चला तथा ॥ १५६ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.315 · p. 22
विद्युत्सौदामिनी कृष्णस्वसा जलदवल्लिका ।महेन्द्रशस्त्रं कुलिशं शम्बो वज्रं पविस्वरुः ॥ ३१५ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.88 · p. 10
जीमूतो वारिदो नभ्राट् पर्जन्योऽम्भोधरोऽम्बुदः ।विद्युत्सौदामिनी शम्पा चञ्चला चपला तडित् ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि तेजस्कायनामानि Suśīlanāmamālā 5.3.1936 · p. 318
चञ्चला चपला चैरावती च जलवालिका ।शतह्रदाऽशनिः सौदामनी सौदामिनी तथा ॥ १९३६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.184 · p. 13
सौदामिन्यस्थिरा मेघप्रभा चाशनिरित्यपि ।स्फुर्जथुर्वज्रनिष्पेषो वज्रशब्दे भवेद्द्वयम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.116 · p. 227
विद्युत् सौदामिनी सौदामनी सौदाम्निकान्विता ।सौदाम्नी च सुदाम्नी वा चपला चवला चला ॥ ११६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मेघाध्यायः Śabdaratnākara 1.6.218 · p. 29
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.70 · p. 121
सौदामिन्यप्सरोभेदे विद्युद्विद्युद्विशेषयोः ।अभिजनो जन्मभूमावभिजनः कुलध्वजम् ? ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.50 · p. 268
नागा[ञ्ज]ना तु करिमुद्गरिकेभयष्ट्योःसौदामिनी तु तडिदप्सरसोर्विभेदे ।ऋग्भेदके समिधि योषिति सामिधेनीकासारपद्मनलिनीषु सरोजिनी च ॥ ५० ॥
वसन्ततिलका

सौदामिनी as a meaning in nānārtha verses

  • कोषकल्पतरु शतह्रदाप्रतिपत्स्त्री धियि च तिथौ तमोनुदत्त्वग्निचन्द्रार्काः । सौदामिन्यां वज्रे शतह्रदा स्यात्स्त्रियामेव ॥ ४८ ॥ Koṣakalpataru 6.19.48