सुषमा
suṣamāस्त्री · fem.In 14 kośas: 13 synonym verses, 4 as a nānārtha head word.
तत्रैकान्तसुषमारश्चतस्रः कोटिकोटयः ।सागराणां सुषमा तु तिस्रस्तत्कोटिकोटयः ॥ १२९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable); pāda 3, syllable 6 ष (wrong syllable)
genderस्त्रीfem.
आभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः ।लक्ष्मीश्छाया च शोभायां सुषमा सातिशायिनी ॥ १५१२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
आहुः किरीटमुष्णीषं कोटीरं मुकुटं समम् ।राढा शोभा विभूषा स्यादभिख्या सुषमा समाः ॥ ५६५ ॥
अनुष्टुप्
genderस्त्रीfem.
अङ्कः पुंस्यथ कान्तिः स्यात् कान्त्यपि स्यात् द्युतिश्छविः ।अभिख्या परमा शोभा सुषमापि द्युतीच्छवी ॥ १८० ॥
अनुष्टुप्
genderस्त्रीfem.
आभाऽभिख्या विभूषा श्री-र्लक्ष्मी-कान्ति-द्युति-त्विषः ।राढा छाया विभ्रमो ना सुषमा परमा छविः ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
कान्तिर्लक्ष्मीरभिख्या श्रीर्विभूषाभा च विभ्रमः ।राढा शोभा तथा छाया सुषमातिशयोद्भवा ॥ ३८५ ॥
अनुष्टुप्
genderस्त्रीfem.
दर्पणो मुकुरादर्शौ व्यजनं तालवृन्तकम् ।शोभा कान्तिर्विभूषा श्रीर्लक्ष्मीश्छाया द्युतिश्छविः ।राढाभिख्या च लावण्यं सुषमा विभ्रमोऽपि च ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
एवं नामानि मन्यन्ते शोभायाः साक्षरैः सदा ।सुषमा परमा शोभा नाम विज्ञायतां पुनः ॥ २७५४ ॥
अनुष्टुप्
genderस्त्रीfem.
कलङ्काङ्कौ कलङ्कस्य पर्यायः समुदाहृतः ।अथ सर्वोत्तमा शोभा सुषमा परिकीर्तिता ।शोभा शुभा द्युतिः कान्तिश्च्छविर्दीप्तिश्च भा द्वयोः ॥
अनुष्टुप्
genderस्त्रीfem.
उपालिङ्गं रिष्टा-ऽरिष्टे माङ्गल्ये चाप्यनेहसि ।कालेऽतिथोऽतिथः कालविशेषे सुषमा तथा ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रि (wrong syllable)
genderस्त्रीfem.
अर्धं समेंऽशकेऽभिख्या सुषमा परमा छविः ।कौमुदी चन्द्रिका ज्योत्स्ना चन्द्रांशः षोडशः कला ॥ १७९ ॥
अनुष्टुप्
genderस्त्रीfem.
राढा शोभा छवी रुक् त्विट् सुषमा परमा छविः ।त्रिगन्धमेलात्वक्पत्रैस्त्रिसुगन्धं त्रिजातकम् ॥ १५० ॥
अनुष्टुप्
genderस्त्रीfem.
दुर्नामा दीर्घकोषी स्यान्नाम यस्याश्च कुत्सितम् ।सुषमा परमा शोभा सुषमं सुन्दरं समम् ॥
अनुष्टुप्
meaningsपरमशोभा
उत्कृष्टशोभास्वथ सर्पभेदेपुमान्सुषीमः शिशिरे मनोज्ञे ।स्यात्पञ्चमो रागभिदि स्वरे चविशेष्यवत्पूरणवाचकश्च ॥ ८९ ॥
उपजातिः
meaningsउत्कृष्टशोभा
doubtful
अथो परमशोभायां सुषमा स्त्री त्रि सुन्दरे ।सुषिरं तु नपिच्छिद्रे वैजयन्त्यां समीरितम् ॥ १९६६ ॥
अनुष्टुप्
meaningsपरमशोभा
सम्भ्रमः पुंसि संवेगादरयोः साध्वसेऽपि च ।सरमा राक्षसीभेदे कुक्कुर्यामपि च स्त्रियाम् ॥सुषमाऽत्यन्तशोभायां स्त्री मनोज्ञे समे त्रिषु ।सुषीमो नागभेदे ना मनोज्ञशीतयोस्त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज्ञ (wrong syllable)