विभ्रम
vibhramaपुं · masc.In 16 kośas: 22 synonym verses, 10 as a nānārtha head word, 2 as a meaning of another word.
स्वगुणेनोपमानेन मनोज्ञादिपदेन च ॥ ५०५ ॥विशेषिताङ्गकर्मा स्त्री यथा तरललोचना ।अलसेक्षणा मृगाक्षी मत्तेभगमनापि च ॥ ५०६ ॥वामाक्षी सुस्मितास्याः स्वं मानलीलास्मरादयः ।लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् ॥ ५०७ ॥मोट्टायितं कुट्टमितं ललितं विहृतं तथा ।विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥ ५०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable)
genderपुंmasc.
आभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः ।लक्ष्मीश्छाया च शोभायां सुषमा सातिशायिनी ॥ १५१२ ॥
अनुष्टुप्
genderपुंmasc.
स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा ॥ ३१ ॥हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः ।
अनुष्टुप्
genderपुंmasc.
हेलाविलासविब्बोकलीलाललितविभ्रमाः ।स्त्रीणां शृङ्गारचेष्टाः स्युर्हावपर्यायवाचकाः ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
शङ्का वितर्कः सन्देहः संशयारेकविभ्रमाः ।विचिकित्सा विकल्पश्च भ्रान्तिरेकार्थवाचकाः ॥ ६९१ ॥
अनुष्टुप्
genderपुंmasc.
मोट्टायितं कुट्टमितं ललितं विहृतं तथा ।विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
बालाकुचोत्सेधदत्तनखे पुंसि वराटकः ।स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
आभाऽभिख्या विभूषा श्री-र्लक्ष्मी-कान्ति-द्युति-त्विषः ।राढा छाया विभ्रमो ना सुषमा परमा छविः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
लीला विलासो विच्छित्तिर्बिब्बोकः किलकिञ्चितम् ।मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ १७३ ॥
अनुष्टुप्
genderपुंmasc.
अस्थाने भूषणादीनां विन्यासो विभ्रमो भवेत् ।सुकुमारतयाङ्गानां विन्यासो ललितं मतम् ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.
यामस्त्री सा यामकिनी भुजिष्या कारकामिनी ।कामकूटा विभ्रमोऽस्याः वारमुख्या तु सत्कृता ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
दृगक्षि चक्षुर्नयनं दृष्टिर्नेत्रं विलोचनम् ।कटाक्षं केकरापाङ्गं विभ्रमस्तस्य वैकृतम् ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
कान्तिर्लक्ष्मीरभिख्या श्रीर्विभूषाभा च विभ्रमः ।राढा शोभा तथा छाया सुषमातिशयोद्भवा ॥ ३८५ ॥
अनुष्टुप्
genderपुंmasc.
किलिकिञ्चितसंज्ञं च ललितं कुट्टिमं समे ।मोट्टायितं तु विहृतं विभ्रमोऽपि निगद्यते ॥ १७४ ॥
अनुष्टुप्
genderपुंmasc.
दर्पणो मुकुरादर्शौ व्यजनं तालवृन्तकम् ।शोभा कान्तिर्विभूषा श्रीर्लक्ष्मीश्छाया द्युतिश्छविः ।राढाभिख्या च लावण्यं सुषमा विभ्रमोऽपि च ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
विलासः सहजो ज्ञेयो विभ्रमो भ्रूसमुद्भवः ।तुष्टिः प्रीती रतिः स्वास्थ्यं संतोषो निर्वृतिर्धृतिः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
विलासो ललितो लोला विभ्रमो विहृतं तथा ।विव्वोकश्चापि विब्बोको विच्छित्तिः किलिकिञ्चितम् ॥ ७९५ ॥
अनुष्टुप्
genderपुंmasc.
आभाऽभिख्या विभूषा च शोभा कान्तिश्च विभ्रमः ।राढा छाया छविर्लक्ष्मीर्द्युतिः श्रीरपि कथ्यते ॥ २७५३ ॥
अनुष्टुप्
genderपुंmasc.
कौतुकं कुतूकं चित्रं कौतूहलः कुतूहलम् ।अथ विभ्रम-विव्वोक-विलासाललितं तथा ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वागङ्गसत्त्वाभिनयभूषास्थानविपर्ययः ।त्वस्या कल्पितोऽभीष्टदर्शने यः स विभ्रमः ॥ १०२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 त्व (syllables merged)
genderपुंmasc.
विभ्रमो बाहुलो दण्डी भैरवो नटकः शुकः ।वृकोदरो जटी भीष्मः क्षोभकः खे(ख)चरो नटः ॥
अनुष्टुप्
genderपुंmasc.
स्तनोष्ठादेर्दृढस्पर्शात् (दुःखवत्) सुखसंभ्रमः ।विभ्रमो दृग्विपर्यासो ललितं कोमलक्रमः ॥ ९६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः ।शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः ॥ ८१३ ॥
अनुष्टुप्
meanings
स्त्रीणां भावप्रभेदेऽथ विभ्रमः संशये पुमान् ।शृङ्गारचेष्टाभेदे च द्राग्विपर्यासरूपके ॥ १७२१ ॥
अनुष्टुप्
शोभायामपि च भ्रान्तौ वेर्भ्रमे च त्रिषु त्वयम् ।वीतभ्रमे विग्रहस्तु विस्तारे युद्धदेहयोः ॥ १७२२ ॥
अनुष्टुप्
doubtful
विभ्रमो भ्रमणे भ्रान्तौ स्त्रीणां शृङ्गारभावजे ।विद्रुमः स्यात्प्रवालेऽपि रत्नवृक्षे पुमानयम् ॥
अनुष्टुप्
विभ्रम as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप टागरअजयः प्राह रभसो हेलाविभ्रमगोचरे । ना भेद्यलिङ्गं तु तथा केकराक्षे शरीरिणि ॥ ८१६ ॥ Nānārthārṇavasaṃkṣepa 4.816
- शब्दरत्नावली कामकूटकामकूटस्तुर्वेश्यानां प्रियेषु विभ्रमेषु च । कुटन्नटः शोनके ना क्लीबे कैवर्त्तिमुस्तके ॥ Śabdaratnāvalī 7.11.56