कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

इतिह

itihaअ · indecl.

In 11 kośas: 11 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य अव्ययवर्गः Abhidhānacintāmaṇi 7.20 · p. 57
इतिह स्यात्संप्रदाये हेतौ यत्तद्यतस्ततः ।
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 रे (wrong syllable)
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.12
पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥
अनुष्टुप्
genderअindecl.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चमोपदेशः Bālaprabodhikā 5.77 · p. 73
इतिहासः पुरावृत्तमैतिह्यमिति हाव्ययम् ।वार्तोदन्तोऽपि वृत्तान्तः किंवदन्ती जनश्रुतिः ।प्रवह्लिका प्रहेलिका प्रकल्पनं बहूदितम् ॥ ७७ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.68 · p. 76
अग्नौ हुतं त्रिषु द्रव्ये त्यक्तं चापि वषट्कृतम् ।पारंपर्योपदेशे स्यादैतिह्यमिति हाव्ययम् ॥ ६८ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.25 · p. 67
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स पुरातनम् ।इति हाव्ययमैतिह्यं वर्णौकोऽस्त्री तु पुस्तकम् ।उत्थानं पुस्तमस्त्रीयाथादर्शः प्रतिपुस्तकम् ॥ २५ ॥
अनुष्टुप्
genderअindecl.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.211 · p. 52
इतिहाव्ययमैतिह्यमिति शब्दत्रयं तथा ।अज्ञानकृदु(आद्यं ज्ञानमु?)पज्ञा स्याज्ज्ञात्वारम्भ उपक्रमः ॥ २११ ॥
अनुष्टुप्
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2799 · p. 457
इतिह संप्रदाये स्यात् हेतौ यत् तद्यतस्ततः ।येन तेनाऽपि हेत्वर्थें कथ्यते पण्डितैरिह ॥ २७९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ह (wrong syllable)
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.24 · p. 112
अव्ययन्त्विति हैतिह्यं परस्परोपदेशके ।आद्यज्ञानमुपज्ञा तु ज्ञात्वारम्भ उपक्रमः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्प (wrong syllable)
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1201 · p. 147
संप्रदायादविच्छिन्नं पारंपर्योपदेशनम् ।ऐतिह्यमितिहालिङ्गे व्रतिनामासनं बृसी ॥ १२०१ ॥
अनुष्टुप्
genderअindecl.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.38 · p. 34
कथा त्वाख्यायिकाख्यानं पुराणं पंचलक्षणम् ।इतिहासः पुरावृत्तमैतिह्यमितिहाव्ययम् ॥ ३८ ॥
अनुष्टुप्
genderअindecl.
वैजयन्ती Vaijayantī · यादवप्रकाश अव्ययपर्यायाध्यायः Vaijayantī 8.8.21 · p. 288
अर्थे यत्रादि सप्तम्याः पञ्चम्या यत आदिकम् ।इतिह स्यात्संप्रदाये पारेऽपारे दृशौ पशु ॥ २१ ॥
अनुष्टुप्
genderअindecl.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.877 · p. 100
इतिह स्यात्सम्प्रदाये प्रेत्यामुत्र भवान्तरे ।साकं सार्धं समं सत्रं सहार्थे सम्प्रकीर्तिताः ॥ ८७७ ॥
अनुष्टुप्