वृत्तान्त
vṛttāntaपुं · masc.In 15 kośas: 13 synonym verses, 7 as a nānārtha head word, 2 as a meaning of another word.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तोऽथाह्वयोऽभिधा ।गोत्रसंज्ञानामधेयाख्याह्वाभिख्याश्च नाम च ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः ॥ ७ ॥आख्याह्वे अभिधानं च नामधेयं च नाम च ।हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
चटु चाटु प्रियं वाक्यं हृद्यार्थं हृदयङ्गमम् ।वार्त्तोदन्तः प्रवृत्तिश्च वृत्तान्तश्च समाः स्मृताः ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
इतिहासः पुरावृत्तमैतिह्यमिति हाव्ययम् ।वार्तोदन्तोऽपि वृत्तान्तः किंवदन्ती जनश्रुतिः ।प्रवह्लिका प्रहेलिका प्रकल्पनं बहूदितम् ॥ ७७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वृत्तांतः शंखकंबू च महाशुक्तिरितीर्यते ।मुक्ता स्फोटो वक्रमुखः शुक्तिर्मुक्तामयोदरः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.doubtful
जनश्रुतिः किंवदन्तिर्वार्त्तोदन्तः पुमानयम् ।वृत्तान्तोऽपि प्रवृत्तिः स्त्री नामधेयं च नाम च ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स पुरातनम् ।इति हाव्ययमैतिह्यं वर्णौकोऽस्त्री तु पुस्तकम् ।उत्थानं पुस्तमस्त्रीयाथादर्शः प्रतिपुस्तकम् ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
व्यपदेशो निभं व्याजः पदं व्यतिकरश्छलम् ।छद्म वृत्तान्तमुत्प्रेक्षा शब्दमन्यं च निर्णयेत् ॥ १३८ ॥
अनुष्टुप्
genderपुंmasc.
उपन्यास उपोद्धात उदाहारश्च वाङ्मुखम् ।वार्तोदन्तौ प्रवृत्तिश्च वृत्तान्तः सा पुरातनी ॥ १७९ ॥
अनुष्टुप्
genderपुंmasc.
अवधिः पूर्णता सीमा मर्यादा धारणा स्थितिः ।वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः किंवदन्त्यपि ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादुदन्तकः ।नामाभिधानमाह्वानं नामधेयञ्च लक्षणम् ॥
अनुष्टुप्
genderपुंmasc.
प्रवृत्तिवार्ते वृत्तान्त उदान्तोऽथ जनश्रुतिः ।किंवदन्त्यशरीरा तु वागेवाकाशभारती ॥ ९०९ ॥
अनुष्टुप्
genderपुंmasc.
वार्तोदन्तोऽपि वृत्तान्तः किंवदन्ती जनश्रुतिः ।प्रवल्हिका प्रहेलिका प्रजल्पनं बहूदितम् ॥ ३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः ॥ ६३ ॥
अनुष्टुप्
वृत्तान्तः स्यात्प्रकरणे कार्त्स्न्यवार्ताप्रकारयोः ।दृष्टान्तः कथितो धीरैरुदाहरणशास्त्रयोः ॥
अनुष्टुप्
दृष्टान्तस्तु निदर्शने च मरणे शास्त्रे कृतान्तः पुनःसिद्धान्तान्तकदैवनिःशुभकृतिष्वाख्यायते पण्डितैः ।क्लीबे धाम्नि निशान्तके तु कलिते शान्ते निशान्तोऽन्यव-द्वृत्तान्तस्तु रहोऽर्थके प्रकरणे कार्त्स्न्ये प्रवृत्तावपि ॥ १९ ॥
शार्दूलविक्रीडितम्
वीकाशस्तु रहस्युक्तः प्रकाशे वृषभः पुनः ।उक्ष्णि श्रेष्ठेऽथ वृत्तान्तः प्रकारे कात्म्यवार्तयोः ॥ २०६ ॥
अनुष्टुप्
भवेत् प्रकरणे चाथ भल्लाते स्याद्वृषाङ्कवाक् ।महादेवेऽथ वेशन्तः पल्वलाकाशयोरथ ॥ २०७ ॥
अनुष्टुप्
meaningsप्रकरण
doubtful
वृत्तान्तः प्रक्रिया कार्त्स्न्यवार्ताप्रस्तावकेषु च ।वेष्टितं लासके रुद्धे नाट्यादिकरणान्तरे ॥
अनुष्टुप्
विवधो वीवधश्च द्वौ पर्याहारेऽध्वभारयोः ।वृत्तान्तः स्यात् प्रकरणे कार्त्स्न्ये वार्ताप्रकारयोः ॥ ७१ ॥
अनुष्टुप्
वृत्तान्त as a meaning in nānārtha verses
- कोषकल्पतरु प्रवृत्तिप्रवाहवृत्तान्तगता प्रवृत्ति- रथाङ्गहारे रमणीविलासे । छेदेऽपि विच्छित्तिरथानुभूतौ संवित्तिरुक्ता विजनाविवादे( ? ) ॥ ३९ ॥ Koṣakalpataru 6.16.39
- शब्दरत्नावली वार्त्तावार्त्ता वातिङ्गने कृष्यां वृत्तान्ते वर्चनेऽपि च । निःसारारोग्ययोर्वार्तं वर्त्तिर्मल्लीरुजे स्त्रिषु ॥ Śabdaratnāvalī 7.16.52