उदन्त
udantaपुं · masc.In 17 kośas: 14 synonym verses, 1 as a nānārtha head word, 5 as a meaning of another word.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तोऽथाह्वयोऽभिधा ।गोत्रसंज्ञानामधेयाख्याह्वाभिख्याश्च नाम च ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः ॥ ७ ॥आख्याह्वे अभिधानं च नामधेयं च नाम च ।हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
चटु चाटु प्रियं वाक्यं हृद्यार्थं हृदयङ्गमम् ।वार्त्तोदन्तः प्रवृत्तिश्च वृत्तान्तश्च समाः स्मृताः ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
इतिहासः पुरावृत्तमैतिह्यमिति हाव्ययम् ।वार्तोदन्तोऽपि वृत्तान्तः किंवदन्ती जनश्रुतिः ।प्रवह्लिका प्रहेलिका प्रकल्पनं बहूदितम् ॥ ७७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
उदन्तक उदन्तः स्यात् खनखानावुभौ समौ ।निस्वाननिस्वनावेवं भवेदाराव आरवः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
जनश्रुतिः किंवदन्तिर्वार्त्तोदन्तः पुमानयम् ।वृत्तान्तोऽपि प्रवृत्तिः स्त्री नामधेयं च नाम च ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स पुरातनम् ।इति हाव्ययमैतिह्यं वर्णौकोऽस्त्री तु पुस्तकम् ।उत्थानं पुस्तमस्त्रीयाथादर्शः प्रतिपुस्तकम् ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
उपन्यास उपोद्धात उदाहारश्च वाङ्मुखम् ।वार्तोदन्तौ प्रवृत्तिश्च वृत्तान्तः सा पुरातनी ॥ १७९ ॥
अनुष्टुप्
genderपुंmasc.
अवधिः पूर्णता सीमा मर्यादा धारणा स्थितिः ।वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः किंवदन्त्यपि ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
उदन्तस्तु प्रवृत्तिः स्याद् वार्ता वृत्तान्तकस्तथा ।अथाऽऽख्याऽऽह्वाऽभिधाऽभिख्या संज्ञा गोत्रं तथाऽऽह्वयः ॥ ३७६ ॥
अनुष्टुप्
genderपुंmasc.
वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादुदन्तकः ।नामाभिधानमाह्वानं नामधेयञ्च लक्षणम् ॥
अनुष्टुप्
genderपुंmasc.
किंवदन्तिर्वदन्तिश्चोदन्ते वृत्तान्त-वार्तिके ।अभिधायां नामधेयं नामाख्याऽभिख्ययाऽह्वयः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
वार्तोदन्तोऽपि वृत्तान्तः किंवदन्ती जनश्रुतिः ।प्रवल्हिका प्रहेलिका प्रजल्पनं बहूदितम् ॥ ३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आसत्तिर्लाभसंगत्योरापत्तिः प्रापणापदोः ।स्यादुदन्तः पुंसि साधौ वार्तायां वृत्तियोजने ॥
अनुष्टुप्
उदन्त as a meaning in nānārtha verses
- धरणिकोश वार्त्तवार्त्ते फल्गुन्यरोगे स्यादारोग्ये वृत्तिमत्यपि । वार्त्ते तु वर्तनोदन्ते वार्ता कृषिकृतौ तथा ॥ Dharaṇikośa 15.3.2
- नानार्थार्णवसंक्षेप वार्ताद्वयोस्तु जलमार्जारे वार्ता तु स्यात् स्त्रियामियम् । वार्ताक्यां वर्तनोदन्तकृषिप्रभृतिवृत्तिषु ॥ १२१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1213
- शब्दरत्नाकर वार्तावार्ता वातिङ्गनोदन्तवाणिज्यादिषु वर्तने । निःसारारोग्ययोः क्लीबे वृत्तिमन्नीरुजोस्त्रिषु ॥ २००३ ॥ Śabdaratnākara 4.1.2003
- वैजयन्ती वार्तावीतं शान्ते दुर्गजाश्वे वधो हिंसितृहिंसयोः । वार्ता वातिंगणोदन्तवाणिज्यादिषु वर्तने ॥ ७५ ॥ Vaijayantī 6.5.75
- वैजयन्ती प्रवृत्तिबोधे तिथौ च प्रतिपत् प्रवृत्तिर्वृत्त्युदन्तयोः । प्रवेणी तु कुथावेण्योः प्रसूतिः पुत्रजन्मनोः ॥ १६ ॥ Vaijayantī 7.2.16