आदर्श
ādarśaपुं · masc.In 16 kośas: 15 synonym verses, 4 as a nānārtha head word, 3 as a meaning of another word.
उच्छीर्षकमुपाद्धानवर्हौपाले पतद्ग्रहः ॥ ६८३ ॥प्रतिग्राहे मुकुरात्मदर्शादर्शास्तु दर्पणे ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
genderपुंmasc.
दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम् ॥ १४० ॥
genderपुंmasc.
जतुयावकलाक्षाऽलक्तकाः समाः सिक्थकं मधूच्छिष्टम् ।कज्जलमञ्जनमभिहितमादर्शो दर्पणो मुकुरः ॥ ५५५ ॥
आर्या
genderपुंmasc.
द्वे एकोक्त्याथात्मदर्श आदर्शः पीतचम्पकम् ।दर्पणो मुकुरश्चाथ प्रदीपः कज्जलध्वजः ॥ ४२६ ॥
अनुष्टुप्
genderपुंmasc.
आदर्शमथ तद्भेदा अंशुमान् रजतप्रभः ।कल्याणकारकन्दोन्य आज्यगन्धश्च कन्दवान् ॥ ४२५ ॥
अनुष्टुप्
genderक्लीneut.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स पुरातनम् ।इति हाव्ययमैतिह्यं वर्णौकोऽस्त्री तु पुस्तकम् ।उत्थानं पुस्तमस्त्रीयाथादर्शः प्रतिपुस्तकम् ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
प्रोन्दुकः पालमप्यन्त्ये कङ्कतस्तु त्रिलिङ्गकः ।प्रसाधनः केशमृट् च स्यादादर्शस्तु दर्पणः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
दर्पणो मकुरादर्शावात्मदर्शोऽप्यथासनम् ।विष्टरः पीठमासन्दी वेत्रासनमपीरितम् ॥ ३२४ ॥
अनुष्टुप्
genderपुंmasc.
धौत्रं दशाधरं काच्छमंसवस्त्रोत्तरीयके ।दर्पणं मुकुरादर्शौ यन्त्रं कीलीमुखं पुटम् ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
दर्पणो मुकुरादर्शौ व्यजनं तालवृन्तकम् ।शोभा कान्तिर्विभूषा श्रीर्लक्ष्मीश्छाया द्युतिश्छविः ।राढाभिख्या च लावण्यं सुषमा विभ्रमोऽपि च ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
स्यादात्मदर्श आदर्शः मुकुरो मकुरोऽपि च ।दर्शनं दर्शनश्चेति प्रतिविम्वातमित्यपि ॥
अनुष्टुप्
genderपुंmasc.
मकुरो मुकुरस्तद्वद् मङ्कुरोऽप्यात्मदर्शवत् ।आदर्शो, वस्त्रासने त्वासन्दा-सन्द्यौ च सन्दवत् ॥ २३१ ॥
अनुष्टुप्
genderपुंmasc.
आदर्शो मुकुरो दीपप्रदीपौ तु प्रदीपिका ।सम्मार्जनी शोधनी स्यात् संकरावकरौ समौ ॥ ८६८ ॥
अनुष्टुप्
genderपुंmasc.
दर्पणो मुकुरादर्शौ कन्दुको गण्डुकः समौ ।पादुकानुपदीना स्यादुपानत् पादक्षिणी ॥ १६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
संदेश उक्तो निकटे च देशेस्याच्छासनोपांशुगिरोर्निर्देशः ।आदर्श उक्तो नरि दर्पणेऽपिस्याट्टिप्पणे च प्रतिपुस्तकेऽपि ॥ २२ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 9 र्नि (wrong syllable)
आदर्शः पुंसि टीकायां दर्पणे प्रतिपुस्तके ।कपिशः सिह्लके पिङ्गे माधव्यां कपिशी स्त्रियाम् ॥
अनुष्टुप्
आदर्श as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप बिम्बप्रतिबिम्बे तत्प्रकृतौ समानत्वोपधानयेाः । आदर्शे स्त्री तु बिम्बी स्यादोष्ठीसंज्ञलतान्तरे ॥ ८६० ॥ Nānārthārṇavasaṃkṣepa 2.5.860
- नानार्थार्णवसंक्षेप दर्पणकन्दर्पे त्रिः पुनर्दृप्तदर्पयित्रोरथो पुमान् । आदर्शे दर्पणः क्ली तु दृप्तौ दर्पयतेः पुनः ॥ ९१६ ॥ Nānārthārṇavasaṃkṣepa 4.916
- नानार्थार्णवसंक्षेप मण्डयन्तमल्लिकायां त्रिषु त्वेष मदयन्तः प्रयोजके । मद्रीत्यां (?) मण्डयन्तस्तु पुमानादर्श ओदने ॥ ४८२ ॥ Nānārthārṇavasaṃkṣepa 6.482