कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Bālaprabodhikā

बालप्रबोधिका Bālaprabodhikā

357 verses · 2,901 words tagged · 725 marked doubtful (dashed)

पञ्चमोपदेशः

इति नत्कीरकविविरचितायां बालप्रबोधिकायां चतुर्थोपदेशः ।

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती ।ब्रह्मकैवर्तनी वाक्या वाकोवाक्यस्वरूपिणी ॥ ७४ ॥
5.74 · p. 72
अनुष्टुप्
सम्भाषी भाषणा भाषा विवादे तु विभाषणम् ।उत्प्रासः स्यादुपालम्भः परिवादो पिणीति च ।स्तवः स्तोत्रं स्तुतिश्चापि यशः कीर्तिर्गुणावलिः ॥ ७५ ॥
5.75 · p. 72
अनुष्टुप्
साधुवादः समख्या स्याच्छ्लोको व्याहरणं जनैः ।कथा त्वाख्यायिकाऽऽख्यानं पुराणं पञ्चलक्षणम् ॥ ७६ ॥
5.76 · p. 73
अनुष्टुप्
इतिहासः पुरावृत्तमैतिह्यमिति हाव्ययम् ।वार्तोदन्तोऽपि वृत्तान्तः किंवदन्ती जनश्रुतिः ।प्रवह्लिका प्रहेलिका प्रकल्पनं बहूदितम् ॥ ७७ ॥
5.77 · p. 73
अनुष्टुप्metre not read in every line
विकल्पना पृथक्क्रियावधारणान्यनिह्नुतिः ।समस्या तु समासः स्यात् सङ्क्षेपः स्यादविस्तरः ॥ ७८ ॥
5.78 · p. 73
अनुष्टुप्metre not read in every line
उपोद्घात उदाहार उपन्यासः पुरो वचः ।प्रस्तावः पुनरुद्घातः सोऽधिकार उपक्रमः ॥ ७९ ॥
5.79 · p. 73
अनुष्टुप्
गद्यपद्यमयी चम्पूः सरणी पद्यमात्रिका ।शृङ्गाराद्यधिकं काव्यं समासान्तन्तु दण्डकम् ।ऋग्यजुः सामयजुषि वेदास्ते तु त्रयस्त्रयी ॥ ८० ॥
5.80 · p. 73
अनुष्टुप्
अथर्वणेति वेदे तु पुरोहितमितीर्यते ।वेदाश्चत्वार एवन्तच्छन्दो ब्रह्मविनिर्मितम् ॥ ८१ ॥
5.81 · p. 73
अनुष्टुप्
विद्याश्चतुर्दश प्रोक्ता शिक्षा व्याकरणं ततः ।कल्पो निरुक्तं छन्दश्व ज्योतिषामयनं मतम् ।वेदाङ्गान्यङ्गिभिश्च स्यात् स्मृत्यान्वयगणेन च ॥ ८२ ॥
5.82 · p. 73
अनुष्टुप्
मीमांसया पुराणेन गान्धर्वं नीतिशासनम् ।आयुर्वेदो वैद्यशास्त्रं दण्डनीत्यर्थशास्त्रकम् ॥ ८३ ॥
5.83 · p. 73
अनुष्टुप्
धनुर्वेदोऽर्थशास्त्रं च ते चत्वारोपवेदकाः ।विद्याश्चाष्टादश प्रोक्ता निरुक्तं पदभञ्जनम् ॥ ८४ ॥
5.84 · p. 73
अनुष्टुप्
आन्वीक्षिकी तर्कविद्या निघण्टुर्नामशास्त्रकम् ।ब्राह्मणं चेत्यविच्छेदा एकग्रन्थ्यनुफक्किका ॥ ८५ ॥
5.85 · p. 73
अनुष्टुप्
विध्यर्थवादमन्त्रास्तु खिलान्युपखिलानि च ।छन्दोभेदास्तु गायत्रीप्रमुखा एकविंशतिः ॥ ८६ ॥
5.86 · p. 74
अनुष्टुप्