उपालम्भ
upālambhaपुं · masc.In 9 kośas: 8 synonym verses, 6 as a meaning of another word.
प्रश्नः स्यादनुयोगः पर्यनुयोगो भवेदुपालम्भः ।आकारणमाह्वानं कथयन्त्यभिमन्त्रणं प्राज्ञाः ॥ १५४ ॥
आर्या
genderपुंmasc.
सम्भाषी भाषणा भाषा विवादे तु विभाषणम् ।उत्प्रासः स्यादुपालम्भः परिवादो पिणीति च ।स्तवः स्तोत्रं स्तुतिश्चापि यशः कीर्तिर्गुणावलिः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
व्यलीकाविष्कृतिरुपालम्भः स तु सगर्हणः ।परिभाषणमालापस्त्वापृच्छाऽऽभाषणं तथा ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
उपालम्भः सनिन्दो यस्तच्च स्यात्परिभाषणम् ।आज्ञादेशौ नियोगश्च निर्दिष्टिः शासनं तथा ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
शाप आक्रोश आक्षेपो भर्त्सनं तर्जनं च धिक् ।परिभाषणमुपालम्भः शपथः शपनं शपः ॥ ९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कर्णाकर्णी तु वाक्कर्णपारंपर्यप्रवर्तनी ।उपालम्भः सनिन्दोक्तिरर्थवादः प्रशंसनम् ॥ ९१० ॥
अनुष्टुप्
genderपुंmasc.
संवादस्त्वानुकूल्यार्थे विसंवादी विपर्यये ।उत्प्राशः स्यादुपालम्भो लल्लरो जिह्वया हते ॥ ९३० ॥
अनुष्टुप्
genderपुंmasc.
उत्प्रासः स्यादुपालंभः परिवाग्भाषणीति च ।श्लाघा शंसा प्रशंसा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
उपालम्भ as a meaning in nānārtha verses
- धरणिकोश परिभाषणपरिभाषणमालापो नियमः परिभाषणम् । निन्दार्थक उपालम्भे परिभाषणमिष्यते ॥ Dharaṇikośa 14.3.26
- कोषकल्पतरु पर्यनुयुजिउपाद्भुक्तौ सार्थकत्वे विद्याग्राहे यथाविधि । पर्यनोः स्यादुपालम्भे समाङस्तु प्रयोजने ॥ २४ ॥ Koṣakalpataru 3.5.24
- कोषकल्पतरु परिभाषणअवतारणं तु वस्त्राञ्चलार्चनं भूतबाधायाम् । परिभाषणं तु निन्दोपालम्भालापके नियमे ॥ ६८ ॥ Koṣakalpataru 6.15.68
- नानार्थार्णवसंक्षेप भाषणीवचने नबुपालम्भवाचि तु स्त्री हि भाषणी । भालाङ्कस्तु शिवे शाकभेदेऽपि करपत्रके ॥ १२९० ॥ Nānārthārṇavasaṃkṣepa 4.1290
- नानार्थार्णवसंक्षेप पर्यनुयोगविज्ञेयः परमरसः स्यात् तु पर्यनुयोगवाक् । अनुयोगेऽप्युपालम्भेऽप्यथ वह्नौ पुरन्दरे ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 7.12
- नानार्थार्णवसंक्षेप परिभाषणहरितालेऽप्यथ ज्ञेयं नियमे परिभाषणम् । निन्दात्मकेऽप्युपालम्भे स्यादालापेऽप्यथो भवेत् ॥ १४ ॥ Nānārthārṇavasaṃkṣepa 7.14