शपथ
śapathaपुं · masc.In 16 kośas: 10 synonym verses, 4 as a nānārtha head word, 36 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
उपन्यास उपोद्घात उदाहारः शपः पुमान् ।शपथः शपनं क्लीबे प्रतिवाक्योत्तरे समे ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
उपोद्घात उदाहारः प्रकृतौपयिकं वचः ।समयः शपथः पुंसि शपनं तु नपुंसके ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
एते नपुंसके भवन्ति । इदं शिल्पं कलादिकं कर्म । छर्दिर्वान्तिः । अन्नं भक्ष्यम् । शमलममेध्यम् । मरकतं रत्नम् । पलालं धान्यादीनाम् । कृच्छ्रं कष्टम् । मन्दिरं गृहम् । रिक्थं द्रव्यम् । मन्दुराशब्दं स्त्रियां जानीयात् । इयं मन्दुरा वाजिशाला ।कल्ककृमिमुन्यङ्गारवप्रग्रहहोमर्षियक्ष्मरेफाः ।मण्डकरण्डवरण्डाश्च पुंसि पथाम्बरीषौ च ॥ ८१ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 र (wrong syllable); pāda 3, syllable 5 न्या (wrong syllable)
genderपुंmasc.doubtful
हूतिराकारणं चैवाभिमन्त्रणमपि स्मृतम् ।बहुकृताथ संहूतिः शपथः शपनं शपः ॥ १७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कृ (wrong syllable)
genderपुंmasc.
कथा प्रबन्धकलना नुतिः स्तोत्रं स्तुतिः स्तवः ।शपनं शपथः शापो क्रोधाद्दुष्टविकत्थनम् ॥ ३६४ ॥
अनुष्टुप्
genderपुंmasc.
शाप आक्रोश आक्षेपो भर्त्सनं तर्जनं च धिक् ।परिभाषणमुपालम्भः शपथः शपनं शपः ॥ ९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
उपोद्घात उपन्यास उदाहारश्च वाङ्मुखम् ।विवादो व्यवहारः स्यात् शपनं शपथः शपः ॥ ३७९ ॥
अनुष्टुप्
genderपुंmasc.
उपोद्घात उदाहारः स्यादुदाहरणे द्वयम् ।शपनं शपथः शापो मिथ्यानिरसने त्रयम् ॥
अनुष्टुप्
genderपुंmasc.
स्यात्सारमेये रुदथो बुधे तुयोगिन्यपि स्याद्विदथो नृलिङ्गः ।स्याल्लोकपाले भरथो धवेऽपिविश्वासहेतौ शपथः शयौ च ॥ ४ ॥
इन्द्रवज्रा
शपथ as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् प्रत्ययप्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु । रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ १४८ ॥ Amarakośa 3.3.148
- नामलिङ्गानुशासनम् समयसमयाः शपथाचारकालसिद्धान्तसंविदः ॥ १४९ ॥ Amarakośa 3.3.149
- नामलिङ्गानुशासनम् सत्यरहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः ॥ १५४ ॥ Amarakośa 3.3.154
- हलायुधकोशः (अभिधानरत्नमाला) प्रत्ययप्रत्ययाः शपथज्ञानहेतुविश्वासनिश्चयाः । विस्तारे कदके शून्ये वितानं स्यात्क्रतौ क्षणे ॥ ८४८ ॥ Abhidhānaratnamālā (Halāyudha) 5.848
- धरणिकोश शापशापः शपथ आक्रोशे त्रपु सीसकरङ्गयोः । रोपश्च रोपणे बाणे बाष्प उष्मणि चाश्रुणि ॥ Dharaṇikośa 20.1.1
- धरणिकोश सत्यसत्यं युगे च लोके स तपोलोकात्परस्तु यः । सत्या स्यात्सत्यभामायां सत्यं शपथतथ्ययोः ॥ Dharaṇikośa 25.3.13
- धरणिकोश प्रत्ययप्रत्ययश्च प्रतीते स्यात्प्रकृतेश्च परस्तथा । ज्ञाने च शपथे छिद्रे विश्वासाधीनहेतुषु ॥ Dharaṇikośa 25.3.22
- धरणिकोश समयसमयः शपथः कालः सिद्धान्ताचारयोरपि । संगते च क्रियाकारे समयो वारणी मता ॥ Dharaṇikośa 25.3.23
- धरणिकोश तन्त्रतन्त्रं कारणशास्त्रयोश्च शपथे भैषज्यसिद्धान्तयो- र्मुख्यार्थेऽपि परिच्छदेऽपि च तथा तन्त्रं कुटुम्बात्मनि । तन्त्रं शाकटसूत्रछन्दमुभयार्थप्रयोजकस्तु सः तन्त्रीः स्यात्तु विपञ्चिकादिकगुणे स्याद्देह[85]नाडीषु च ॥ Dharaṇikośa 26.3.3
- धरणिकोश परिग्रहपरिग्रहः परिजने शपथे च परिग्रहः । परिग्रहः कलत्रेऽपि मूलस्वीकारयोरपि ॥ Dharaṇikośa 32.3.5
- कल्पद्रुकोशः निर्हृविडुत्सर्गे च शपथेऽथोद ऊर्ध्वीकृतावपि । प्रवहस्तु बहिर्यात्रा प्रवाहोम्ब्वादिसंततिः ॥ ९९ ॥ Kalpadrukośa 1.10.99
- कोषकल्पतरु प्रत्यवतिकृच्छ्रदोषातिक्रमेषु दण्डने प्रतितः पुनः । प्रसिद्धौ शपथे ज्ञाने विश्वासस्य च हेतुषु ॥ २५ ॥ Koṣakalpataru 3.5.25
- कोषकल्पतरु समावतिव्यवाद्व्यतिकरे य[197b]ब्घावन्तर्घौ दुर्गतौ निरः । समः संगति-सादृश्य-संविदाचरणे रणे ॥ समाभियानशपथे संपराभ्यां रणापदोः । अपादपगमेऽथोपादङ्गीकारोपहारयोः ॥ ३० ॥ Koṣakalpataru 3.5.30
- कोषकल्पतरु शापआक्रोशे शपथे च शाप उदितः स्वापस्तु निद्राज्ञता- स्पर्शाज्ञत्व उदीरितस्त्रपु पुनः स्यात्सीसके रङ्गके । नीपो धूलिकदम्बरायधरयो(?)नीलेऽप्यशोके तथा गोष्ठग्रामगणाधिकारिणि नृपे गोपो भवेद्बल्लवे । गोपी तु गोपाल[26a]नितम्बिनी स्या- त्स्यात्सारिकायामपि रक्षिकायाम् । क्षेपो विलम्बेऽपि च निन्दने ना हेलामदप्रेरणलङ्घनार्थाः ॥ ४ ॥ Koṣakalpataru 6.22.4
- कोषकल्पतरु सत्यलब्धव्यवा[38a]चि त्रितयेऽप्यथार्घ्यम् अर्घार्हयोग्यार्थकमन्यलिङ्गम् । सत्यं तु तथ्ये शपथे कृते त- द्युक्तेऽन्यवत्पुंसि तु लोकभेदे ॥ ४० ॥ Koṣakalpataru 6.26.40
- कोषकल्पतरु प्रत्ययविश्वासे शपथे प्रसिद्धिविलयो रन्ध्रे त[था] कारणे ज्ञानाचारविधीयमानविषयेऽधीने तथा प्रत्ययः । दण्डोत्पातविनाशदोष उदितः कृच्छ्रे तथातिक्रमे विद्वद्भिर्गदितोऽत्ययोऽथ हृदयाकूताश्रयेष्वाशयः ॥ ६१ ॥ Koṣakalpataru 6.26.61
- कोषकल्पतरु समयआचारे शपथे मतौ च समयः सिद्धान्तनिर्देशयोः भाषायां कृतिकारके निगदितः सङ्केतवाची तथा । काले योषिति [40a]नाथ लक्षगृहयोरेकार्थमाजिव्रजे स्यादेकीकरणे च संहतिमतां तद्वत्परात्मन्यपि ॥ ६२ ॥ Koṣakalpataru 6.26.62
- नानार्थार्णवसंक्षेप शापआक्रोशे शपथे चाथ शास्ता बुद्धे गुरौ नृपे । महाशास्तरि च स्यात् तु शिपिः किरणशेफयोः ॥ १२० ॥ Nānārthārṇavasaṃkṣepa 2.2.120
- नानार्थार्णवसंक्षेप सत्यआरोग्ये क्ली तु सत्यं स्याच्छपथे तथ्य एव च । त्रि तु तद्वति सत्या तु सत्यभामाह्वये स्त्रियाम् ॥ १४५० ॥ Nānārthārṇavasaṃkṣepa 2.5.1450
- नानार्थार्णवसंक्षेप प्रत्ययप्रावारभेदे निस्तारस्तूणीरे कश्चिदब्रवीत् । प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ॥ १२२ ॥ Nānārthārṇavasaṃkṣepa 3.2.122
- नानार्थार्णवसंक्षेप समयसर्ववेदिन्यथो पुंसि समयो नपि चापरे । सङ्केताचारसिद्धान्तकालेषु शपथे तथा ॥ १८७१ ॥ Nānārthārṇavasaṃkṣepa 4.1871
- नानार्थार्णवसंक्षेप परिग्रहस्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे । परिग्रहस्तु शपथे मूले परिजने तथा ॥ ८५ ॥ Nānārthārṇavasaṃkṣepa 6.85
- परमानन्दीयनाममाला अभिषङ्गपराभवेऽभिषङ्गस्तु शपथाक्रोशयोरपि । अङ्गारको महीपुत्र उल्मुकेऽपि कुरण्टके ॥ ४२ ॥ Paramānandīyanāmamālā 5.1.42
- परमानन्दीयनाममाला आज्ञापीडने बन्धनेऽथाज्ञा निर्देशे शपथेऽपि च । आशीः सर्पस्य दंष्ट्रायामिष्टवस्तुप्रशंसने ॥ ५४ ॥ Paramānandīyanāmamālā 5.1.54
- शब्दरत्नावली अभिषङ्गअपवगस्तागमोक्षकार्यसमाप्तितत्फले । अभिषङ्गः समाक्रेशे शपथे च पराभवे ॥ Śabdaratnāvalī 7.3.52
- शब्दरत्नावली प्रत्ययआचारशपथाधीनच्छिद्रविश्वासहेतुषु । पर्यायः स्यात्क्रमे पुंसि प्रकारेऽवसरेऽपि च ॥ प्रलयोऽपायकल्पान्तमृत्युमूच्छासु पुंस्ययम् । पर्यण्योऽपि घनस्वाने स्वतद्घनमहेन्द्रयोः ॥ प्रसव्यं प्रतिकूले स्यादनुकूलेऽपि वाच्यवत् । प्रणाय्योऽनभिलाषे स्यात्तथा चासम्मतेऽपि च ॥ Śabdaratnāvalī 7.26.44
- शब्दरत्नावली समयसन्नयः समवाये ना पृष्ठस्थायिबलेऽपि च । समयश्च क्रियाकाले निर्देशे भावकालयोः ॥ सङ्केतशपथाचारसिद्धान्तधिषणासु च । सरण्युर्ज्वलने पुंसि वारिवाहे समीरणे ॥ Śabdaratnāvalī 7.26.51
- शब्दरत्नावली परिग्रहतमोपहो हिमकरे चण्डभानुजिनाग्रिषु । प्रतिग्रहो ग्रहभिदि स्वीकारसैन्यपृष्ठयोः ॥ पतद्ग्रहग्रहणयोर्विधिदावव्यवस्तुनि । परिग्रहः स्त्रीस्वजनादानेषु मूलशापथोः ॥ परीवहो जलोच्छ्वासक्षितिभिद्योग्यवस्तुनीः ॥ Śabdaratnāvalī 7.33.32
- शब्दरत्नाकर सत्यसत्यं तु शपथे तथ्ये परमार्थेऽभिधेयवत् । स्वरोऽकाराद्युदात्तादिषड्जादिषु जनस्वने ॥ २०२२ ॥ Śabdaratnākara 4.1.2022
- शब्दरत्नाकर प्रत्ययप्रदरा बाणरुग्भङ्गाः प्रतापौ पौरुषातपौ । प्रत्ययः ख्यातिविश्वासशपथज्ञानहेतुषु ॥ २१२६ ॥ Śabdaratnākara 4.1.2126
- त्रिकाण्डशेष अभिषङ्गशपथेऽप्यभिषङ्गः स्यादनङ्गः खे स्मरे पुमान् । पूर्णत्वयत्नावाभोगावायोगो व्यापृतावपि ॥ ५५ ॥ Trikāṇḍaśeṣa 3.3.55
- त्रिकाण्डशेष शापअक्रोशे शपथे शापः स्वापः शयननिद्रयोः । Trikāṇḍaśeṣa 3.3.290
- वैजयन्ती सत्यसमा स्त्री वत्सरे साधुसर्वतुल्येषु वाच्यवत् । परमार्थेऽर्थवत्सत्यं षण्डः शपथतथ्ययोः ॥ ९५ ॥ Vaijayantī 6.5.95
- वैजयन्ती प्रत्ययप्रत्ययस्तु ख्यातिरन्ध्रविश्वासाधीनहेतुषु । विज्ञाने शपथे शब्दे प्रस्तरोऽश्मा मणिः कुशः ॥ ५१ ॥ Vaijayantī 7.1.51
- वैजयन्ती समयसिद्धान्ते शपथे काले स्वाध्यायो जपवेदयोः । सारसो विहगे चन्द्रे हिमारिः पावके रवौ ॥ ८३ ॥ Vaijayantī 7.1.83
- वैजयन्ती परिग्रहपत्नीस्वीकारशपथमूल्येष्वपि परिग्रहः । परिक्षेपो हस्तिपादपार्श्वे संपरिवेष्टने ॥ ३० ॥ Vaijayantī 8.1.30