कच्चर
kaccaraवि · adj.In 9 kośas: 9 synonym verses.
genderविadj.
genderविadj.
अनच्छं त्वप्रसन्नं स्यात्कच्चरं मलिनं पुनः ।किट्टमं पुष्पितं सेव्यं शालूकं किट्टिमं चलम् ॥ २७ ॥
अनुष्टुप्
genderविadj.
खेटकाण्डश्च पापोऽथ म्लान-कश्मल-कच्चराः ।मलीमसश्च मलिनो मलदूषित इत्यपि ॥ ७१ ॥
अनुष्टुप्
genderविadj.
कश्मलं मलिनं म्लानं कच्चरं च मलीमसम् ।पवित्रं मेध्यपूते च पावनं पुण्यनाम च ॥ ३२४ ॥
अनुष्टुप्
genderविadj.
शिवं पुण्यं पवित्रे स्यान्मलिने कच्चरं मतम् ।विमले शोधितं वि(वी?)ध्रं निर्णिक्तं मृष्टमित्यपि ॥ ६८३ ॥
अनुष्टुप्
genderविadj.
मलीमसं तथा म्लानं मलिनं मलदूषितम् ।कच्चरं कल्मषं चैव कश्मलं कथ्यते तथा ॥ २६०९ ॥
अनुष्टुप्
genderविadj.
रेफकाण्डौ गर्हितः स्यात् प्रतिकृष्टः प्रकृष्टकः ।मलीमसः कच्चरः स्यात् मलिनौ मलदूषितः ॥
अनुष्टुप्
genderविadj.
निर्णिक्तं शोधितं मृष्टं निश्शोध्यमनवस्करम् ।विमले वीद्ध्रं मलिने द्वौ कच्चरमलीमसौ ॥ ६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ध्रं (wrong syllable)
genderविadj.