कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मलीमस

malīmasaवि · adj.

In 14 kośas: 12 synonym verses, 3 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.91 · p. 54
मलिनं कच्चरं म्लानं कश्मलं च मलीमसम् ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.99
मलीमसं तु मलिनं कच्चरं मलदूषितम् ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.727 · p. 84
अणिरश्रिस्तथा कोटिरश्रः कोणश्च कथ्यते ।कश्मलं मलिनं म्लानं मलीमसमुदाहृतम् ॥ ७२७ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.104 · p. 225
कुपूयकुत्सितावद्यखेटगर्ह्याणका अपि ।स्युर्वाच्यलिङ्गा मलिनं कल्मषं च मलीमसम् ॥ १०४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.71 · p. 19
खेटकाण्डश्च पापोऽथ म्लान-कश्मल-कच्चराः ।मलीमसश्च मलिनो मलदूषित इत्यपि ॥ ७१ ॥
अनुष्टुप्
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 152 · p. 73
कलङ्कावद्यमलिनं किञ्जल्कं लक्ष्म लाञ्छनम् ।निबोधमधमं पङ्कं मलीमसमपि त्यजेत् ॥ १५२ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.324 · p. 92
कश्मलं मलिनं म्लानं कच्चरं च मलीमसम् ।पवित्रं मेध्यपूते च पावनं पुण्यनाम च ॥ ३२४ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.100 · p. 44
पूतं पवित्रं मेध्यं च मलिनं च मलीमसम् ।निर्णिक्तं क्षालितं धौतमुज्ज्वलं निर्मलं शुचि ॥ १०० ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2609 · p. 420
मलीमसं तथा म्लानं मलिनं मलदूषितम् ।कच्चरं कल्मषं चैव कश्मलं कथ्यते तथा ॥ २६०९ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.6 · p. 163
रेफकाण्डौ गर्हितः स्यात् प्रतिकृष्टः प्रकृष्टकः ।मलीमसः कच्चरः स्यात् मलिनौ मलदूषितः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1632 · p. 196
आश्रवो वचनग्राही पुरोभागी तु दोषभाक् ।समावक्षिगतद्वेष्यौ मलिनस्तु मलीमसः ॥ १६३२ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.66 · p. 206
निर्णिक्तं शोधितं मृष्टं निश्शोध्यमनवस्करम् ।विमले वीद्ध्रं मलिने द्वौ कच्चरमलीमसौ ॥ ६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ध्रं (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.21 · p. 384
स[ल]वणमातरि योषिन्मलीमसं पुष्पका[सी]से ।लोहे मलिने परवद्यज्ञे स्यात्पौर्णमासो ना ॥ २१ ॥
metre not recognised
शिवकोष Śivakoṣa · शिवदत्तमिश्र सच Śivakoṣa 27.3.533 · p. 49
महारसो दीर्घपत्रे खर्जूरेऽपि कसेरुणि ।सूते मलीमसं पुष्पकासीसे सर्वतैजसे ॥ ५३३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.49 · p. 297
महारसस्तु खर्जूरे कशेरुकोषकारयोः ।मलीमसं लोहपुष्पे कासीसमलिनेषु च ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)

मलीमस as a meaning in nānārtha verses