कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शालूक

śālūkaक्ली · neut.

In 15 kośas: 22 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1167 · p. 45
उत्पलानां तु शालूकं नील्यां शैवालशेवले ।शेवालं शैवलं शेपालं जलाच्छूकनीलिके ॥ ११६७ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र जलकायः Abhidhānacintāmaṇipariśiṣṭa 4.2.1 · p. 6
जले दिव्यमिरा सेव्यं कृपीटं घृतमङ्कुरः ।विषं पिप्पलपातालमलिलानि च कम्बलम् ॥ १६२ ॥पावनं षड्रसं चापि पल्लूरं तु सितं पयः ।किट्टिमं तदतिक्षारं शालूकं पङ्कगन्धिकम् ॥ १६३ ॥अन्धं तु कलुषं तोयमतिस्वच्छं तु काचिमम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.59
शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.395 · p. 64
जातीफलं जातिसस्यं शालूकं सुमनः फलम् ।मजुसारं जातिसारं पुटं द्वेष्यं तु कोलकम् ॥ ३९५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.27 · p. 346
अनच्छं त्वप्रसन्नं स्यात्कच्चरं मलिनं पुनः ।किट्टमं पुष्पितं सेव्यं शालूकं किट्टिमं चलम् ॥ २७ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.147 · p. 360
षण् बिसं बिसतन्तुर्ना पद्मिन्यर्थाद्रुहं च तत् ।शालूकमेषां कन्दः स्यात् पद्ममूलं कटः पुमान् ॥ १४७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.86 · p. 470
शालूकपुष्पकानूकमौक्तिकानां त्रिकस्य च ।छात्राकशल्कचिबुककुतुकानां ततोऽपि च ॥ ८६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.113 · p. 112
अट्टो(?)निशाहसोऽप्यत्र शालूकं तूत्पलादिनः ।निर्वृत्तादौ कौमुदिकं तथा कुमुदिकं त्रिषु ।सूक्ष्मकन्दः कन्दलः स्यात्त्रिलिङ्ग्यां समुदीरितः ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.88 · p. 167
जातीपत्री[46a] जातिकोशः पात्री सौमनसायनी ।जातीफलं तु शालूकं फलं सौमनसं पुरम् ॥ ८८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.71 · p. 312
गलाङ्कुरो रोहिणी स्याच्छालूकस्तु गलार्गलः ।शताङ्कुरा शतघ्नी स्याद्गलगण्डो गलार्बुदम्[156a] ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.92 · p. 105
कुतुक-कुलक-तोकानूक-हल्लीसकानित्रिक-रुचक-बुकाल्कालीक-शालूक-शल्कम् ।[228a]चिबुक-किबुक धान्याकाह्निकैडूक-शौका-लिक-कुहकयुतं च क्लान्तकं निःशलाकम् ॥ ९२ ॥
मालिनी
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.237 · p. 130
जातीफले जातिकोशं शालूकं मालतीफलम् ।मज्जसारं जातिसूतं शौण्डं सौमनसं पुटम् ॥ २३७ ॥
अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र लताकाण्डः Nighaṇṭuśeṣa 3.334 · p. 180
कन्दे पाद्मे करहाटशिफे शालूकमौत्पले ।पद्मबीजे तु पद्माख्यं पद्मकर्कटिकेत्यपि ॥ ३३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.85 · p. 62
केसरे त्वथ किञ्जल्के करहाटः शिफा मता ।उत्पलानां तु कन्दे स्याच्छालूकं चाथ शेवले ॥ ८५ ॥
अनुष्टुप्
genderक्लीneut.doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.86 · p. 221
रूचकं किबुकशालूके चिबुकं कवकं तथा ।शीर्षकं मधुपर्कं च प्रकीर्णककदम्बके ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.82 · p. 133
एषां कन्दे तु शालूरं(कं?) शालुकं च प्रकीर्तितम् ।कुम्भिका वारिपर्णी च कुम्भिला चापि तुम्बिका ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1860 · p. 303
क्षारं जलं किट्टिमं स्यात् शालूकं गन्धयुग्जलम् ।समलन्तु भवेदन्धमतिस्वच्छन्तु काचिमम् ॥ १८६० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2104 · p. 348
शालूकमपि भेदोऽस्ति पद्ममूलस्य नामनि ॥ २१०४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.126 · p. 44
कन्दोट्टो रात्रिहासश्च सोमबन्धुश्च कन्दटम् ।पङ्कशूरणशालूकशालूनि शालूकं तथा ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.362 · p. 48
षण्डमस्त्री शिफाकन्दः शालूकं नालमस्त्रियाम् ।मृणालं तु त्रिषु बिसं किञ्जल्कः केसरोऽस्त्रियाम् ॥ ३६२ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वारिवर्गः Trikāṇḍaśeṣa 1.9.27 · p. 29
श्रीकरं कृष्णकन्दं च रक्तोत्पलमलिप्रियम् ।लक्ष्मीगृहं कुमुच्चाऽथ शालूकः पङ्कशूरणः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.44 · p. 157
भवेत्पुटकिनी पद्मस्तंबमात्रे प्रकीर्तिता ।कुमुद्वती कुमुदिनी शालूकं कन्दमौल्पलम् ॥ ४४ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.79 · p. 39
आज्ञायामुपदेशे च शालूकं तूत्पलादिनः ।कन्दे स्यात् पङ्कगन्धे च जले शालारवाक् पुनः ॥ ७९ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.52 · p. 5
ऊषरे च दृषद्भेदे शालूकः खदिरेऽरलौ ।पिण्डीतकेऽपि शालूकं फलपद्मादिकन्दयोः ॥ ५२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.34 · p. 252
वेष्टने मकुटोष्णीषौ शकले खण्डवल्कले ।शालूकं पंकजे कन्दे जले शमलमप्यघे ॥ ३४ ॥
अनुष्टुप्

शालूक as a meaning in nānārtha verses

  • शिवकोष कुटन्नटकरहाटः पद्मकन्दे पिण्डितेऽथ कुटन्नटम् । कैवर्तीमुस्तके जिह्मे शालूके वा कुटन्नटः ॥ १३७ ॥ Śivakoṣa 8.3.137