कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वीध्र

vīdhraवि · adj.

In 11 kośas: 10 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1436 · p. 54
पवित्रं पावनं पूतं पुण्यं मेध्यमथोज्ज्वलम् ॥ १४३५ ॥विमलं विशदं वीध्रमवदातमनाविलम् ।विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ॥ १४३६ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.55
पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् ॥ ५५ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.132 · p. 16
शुचिर्मेध्यं पवित्रं च पुण्यं पावनमुच्यते ।विमलं विशदं वीध्रमुज्ज्वलं स्यादनाविलम् ॥ १३२ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.105 · p. 225
स्यान्म्लानं कच्चलं तु स्यान्मलदूषितमित्यथ ।निर्णिक्तं विमलं वीध्रं पूतं मेध्यं पवित्रकम् ॥ १०५ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.72 · p. 19
उज्ज्वलं विमलं वीध्रं निर्माल्यं निर्मलं शुचि ।अवदातं विशुद्धं च विशदं स्यादनाविलम् ॥ ७२ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.325 · p. 92
निर्मलं विमलं वी[51]ध्रमुज्ज्वलं विशदं शुभम् ।चोक्षं शुचि विशुद्धं चावदातं चाप्यनाविलम् ॥ ३२५ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.683 · p. 115
शिवं पुण्यं पवित्रे स्यान्मलिने कच्चरं मतम् ।विमले शोधितं वि(वी?)ध्रं निर्णिक्तं मृष्टमित्यपि ॥ ६८३ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2610 · p. 421
उज्ज्वलं विमलं वीध्रं विशुद्धं विशदं शुचि ॥ २६१० ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.7 · p. 164
पूतं मेध्यं पवित्रं स्याद् वीध्र प्रयतनिर्मलम् ।निःशोध्यं शोधितं मृष्टं निर्णिक्तमनवस्करम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.886 · p. 111
निर्णिक्तं शोधितं मृष्टं धौतं वीध्रमपि त्रिषु ।तत्तद्रक्ते तु काषायमञ्जिष्टप्रमुखं त्रिषु ॥ ८८६ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1266 · p. 151
विगतौ त्रिस्तु विगते शान्ते कान्तगतादिषु ।वीध्रं पुंस्यनले वायौ मेघे क्ली तु नभस्यथ ॥ १२६६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1267 · p. 151
विमले त्रिषु वीर्यं तु क्लीबं स्यादन्नरेतसोः ।शक्त्याह्वयबले शौर्यसंज्ञके च पराक्रमे ॥ १२६७ ॥
अनुष्टुप्
meaningsविमल
doubtful