कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

खण्डन

khaṇḍanaक्ली · neut.

In 7 kośas: 2 synonym verses, 1 as a nānārtha head word, 15 as a meaning of another word.

शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.894 · p. 112
अस्त्री तु मुसलोऽयोग्रमुदूखलमुलूखलम् ।तुषस्तु त्वचि धान्यानामवघातस्तु खण्डनम् ॥ ८९४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1388 · p. 168
भञ्जनखण्डनमोटनदानान्याच्छोद आमर्दः ।अभ्यवस्कन्दनं चाभ्यासादनं च समे उभे ॥ १३८८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.613 · p. 100
अविवाह्यासु कन्यासु तस्यां स्त्रीशण्डयोः पुनः ।खण्डनं खण्डना चेति धातोः खण्डयतेः कृतौ ॥ ६१३ ॥
अनुष्टुप्

खण्डन as a meaning in nānārtha verses

  • धरणिकोश अवदानउपासनं देवसेवा बाणाभ्यास उपासनम् । अवदानमतिवृत्ते कर्मखण्डनयोर्मतम् ॥ Dharaṇikośa 19.2.78
  • धरणिकोश दंशनाशः पलायने प्रोक्तो निधनानुपलम्भयोः । दंशः स्यात्खण्डने दोषे दंशश्च वनमक्षिका ॥ Dharaṇikośa 29.2.5
  • कोषकल्पतरु दितिवातिः पुमान्भास्करचन्द्रयोः स्या- द्गतिस्तु यात्राध्वदशाभ्युपाये । नाडीव्रणे स्याच्छरणे च बुद्धौ मतिस्तु वाञ्छास्मृतिबुद्धिषु स्त्री । चि[289b]तिस्तु चित्यागणयोर्दितिस्तु स्याद्दैत्यमातर्यपि( ख )ण्डने च । मूले गतौ चापि पतिः प्रभौ स्वा- श्रये करोद्वोढरि पुंसि दिष्टः ॥ ४८ ॥ Koṣakalpataru 6.16.48
  • कोषकल्पतरु दंशसर्पक्षते मर्मणि खण्डने च संनाहदुध्यो( ? )र्वनमक्षिकायाम् । स्त्री त्वल्पजातौ वनमक्षिकायां अंशुस्तु * * * * * * * * ॥ १० ॥ Koṣakalpataru 6.30.10
  • नानार्थार्णवसंक्षेप दानऔषधे पित्तले योग्यऋक्सामेष्विष्टिगामिषु । दानं हस्तिमदे त्यागे खण्डने लवने क्षये ॥ ३१ ॥ Nānārthārṇavasaṃkṣepa 2.3.31
  • नानार्थार्णवसंक्षेप निदानखण्डनेऽप्यवदाने च निर्याणं त्वपि हस्तिनः । नेत्रान्ते निर्गमे मोक्षे मरणे च प्रकीर्तितम् ॥ ४४ ॥ Nānārthārṇavasaṃkṣepa 3.3.44
  • शब्दरत्नावली दितिदितिः स्त्रियां खण्डने स्यात्तथा च दैत्यमातरि । दीप्तं निर्भासिते दग्धे ज्वलितेऽपि च वाच्यवत् ॥ द्रुतं शीघ्रे विनीते च विम्राणे चाभिधेयवत् । दृतिश्चर्मपुटे मीते द्युतिः स्त्री रश्मिशोभयोः ॥ धातुर्मनःशिलादौ तु श्लेष्मादौ गैरिकेऽपि च ॥ Śabdaratnāvalī 7.16.17
  • शब्दरत्नावली ददं कलत्रे खण्डने ना दा दानच्छेददातृषु । Śabdaratnāvalī 7.18.1
  • शब्दरत्नावली अवदानअनूचानः साङ्गवेदविदुषि स्याद्विनीतके । अभिपन्नोऽपराद्धेऽभिद्रुते ग्रस्ते निपद्गते ॥ अवदानं खण्डनाभिवृत्तकर्मावदातृषु । अभिमानी ज्ञानहिंसाप्रणयार्थादिदर्पके ॥ अनीकिनी च सेनानां सेनाभेदेऽपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.20.102
  • शब्दरत्नावली दायभेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् । दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥ दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति । दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥ दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु । दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥ दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः । दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥ धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु । धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥ धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः । नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः । नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥ पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु । पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥ पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.18
  • शब्दरत्नाकर अवदानअधिवासो निवासे स्याद्गन्धमाल्यादिसंस्कृतौ । अवदानं कर्म वृत्तं खण्डनं गुणकीर्तनम् ॥ २१९३ ॥ Śabdaratnākara 4.1.2193
  • त्रिकाण्डशेष दितिदितिः खण्डनदैत्याम्बे धृतिस्तुष्टौ क्रतावपि । राशौ च धातुनिर्वाणे सुस्थितत्वे च निर्वृतिः ॥ १६१ ॥ Trikāṇḍaśeṣa 3.3.161
  • त्रिकाण्डशेष अवदानअतिवृत्तेऽवदानं स्यात्कर्मखण्डनयोरपि । अग्रजन्माऽग्रजे विप्रे स्यादन्नं भक्तभुक्तयोः ॥ २२६ ॥ Trikāṇḍaśeṣa 3.3.226
  • त्रिकाण्डशेष दानक्रीडादौ देवनं नाक्षे द्विजन्मा दन्तविप्रयोः । दानं गजमदे त्यागे खण्डने रक्षणेऽपि च ॥ २४२ ॥ Trikāṇḍaśeṣa 3.3.242
  • वैजयन्ती निदाननिर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने । निदानमपदाने स्यात् खण्डनेऽप्यादिकारणे ॥ २० ॥ Vaijayantī 7.3.20