कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तुष

tuṣaपुं · masc.

In 14 kośas: 20 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1182 · p. 46
स्तम्बस्तु गुच्छो धान्यादेर्नालं काण्डोऽफलस्तु सः ।पलः पलालो धान्यत्वक्तुषो बुसे कडंगरः ॥ ११८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 बु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.92
नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ।अभया त्वव्यथा पथ्या कायस्था पूतनामृता ॥ ५९ ॥हरीतकी हैमवती चेतकी श्रेयसी शिवा ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.22
कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान् ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.82 · p. 141
वुसं क्लीबे वुसेरुः स्यादस्त्रियामथ पुष्कसः ।पुंसि स्यादथ धान्यत्वक् तुषः पुंस्यथ च स्त्रियाम् ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.50 · p. 276
स्याद्यावकस्तु कुल्माषः पुलाकस्तुच्छधान्यकम् ।;l[6535}बुषं बुसं तु न स्त्रियां कडंगरः कडंकरः ।कणस्तु सूक्ष्मतन्दुलस्तुषस्तु पुंसि तत्त्वचि ॥ ५० ॥
अनुष्टुप्two metres in one verseLatin letters: l
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.26 · p. 97
ऋषिः करीषज्वलने तु कर्षू-र्वृषश्च कुल्माष-तुषौ तरीषः ।निर्यूह-हाहा-कलहाश्च हूहूःस्यान्नग्नहूर्निष्कुह इत्यहान्ताः ॥ २६ ॥
उपजातिः
genderपुंmasc.
शीकरतुषारतुषबुद्बुदफेनौसत[तु]ण्डुला[ल]पूपाः पुंसि स्युः ।आलिमुक्ताजिदर्विसिकताः स्त्रिया[यां]मुदिताः ॥ ४६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
एते शब्दाः पुंसि स्युर्भवेयुरित्यर्थः । शीकरोऽम्बुकणः । तुषारो हिमसन्ततिः । तुषी धान्यबुषः कडङ्गरश्च । बुद्बुदो जलकङ्करः । फेनो जलस्य । समुद्रस्य ओसो अवश्यायः । तण्डुलो धान्यविशेषः । अपूपः पिष्टकस्य । एते शब्दाः स्त्रियामुदिताः कथिताः । इयमालिः पङ्क्तिः । मुक्ता रत्नम् । आजिर्युद्धम् । दर्विर्विभक्तसाधनी । सिकता वालुका ।अजिनाजिरशैवालनलमृणालतुहिनोडुपाज्यसस्यानि । द्वारास्पदकाष्ठानि च नपुंसकान्येव पटलं च ॥ ४७ ॥
metre not recognised
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र धान्यकाण्डः Nighaṇṭuśeṣa 6.401 · p. 219
स्तम्बे तु गुच्छो धान्यादेर्नाले काण्डोऽफले त्विह ।स्यात् पलालो धान्यत्वचि तुषः बुसे कडङ्गरः ॥ ४०१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.436 · p. 81
खले पशुपदाघातमात्रक्षोदे बुसं स्मृतम् ।कडङ्गरः कडारश्च तुषो धान्यत्वचि स्मृतः ॥ ४३६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.262 · p. 18
सीत्यं हल्यं हलाकृष्टं क्षेत्राजीवः कृषीवलः ।बुसं कडङ्गरः शूकस्तुषो दण्डपलालकः ॥ २६२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2035 · p. 337
कर्षफलो कलिद्रुमो बिभीतको बिभेदकः ।भूतावासस्तुषोऽक्षश्चेति नामानि तुषस्य वै ॥ २०३५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2131 · p. 351
स्तम्बो गुच्छो धान्यमूले नालं काण्डो भवेत् पुनः ।पलालश्च पलोऽफलः स्यात् तु वै धान्यत्वक् तुषः ॥ २१३१ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 फ (wrong syllable); pāda 4, syllable 5 न्य (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.112 · p. 65
अक्षः कलिद्रुमः कक्षो भूतवासस्तुषोऽपि च ।भूतवासः कर्षफलः कर्षो विभीतकस्त्रिषु ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.48 · p. 140
कडङ्गरो वुषं वूषमसारे तुच्छधान्यके ।धान्यत्वचि तुषः पुंसि शूकोऽस्त्री स्यात्तदग्रके ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.254 · p. 34
मरुवककर्णिकारबकुलाम्रामधूकतुष-क्रमुकनमेरुसालतिलकागुरुदन्तशठाः ।कुरवकसिन्धुवारकृतमालतमालयुगच्छद-करकप्रियालघननागसमित्तरवः ॥ २५४ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.465 · p. 61
पारिभद्रस्तु निम्बद्रुर्मन्दारः पारिजातकः ।अक्षस्तुषः कर्षफलः कलिद्रुर्विभीतकः स्यात् त्रिषु भूतवासे ।मधुद्रुमः स्वादुफलो मधूकः स्वादुप्रसूनश्च गुडप्रसूनः ॥ ४६५ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.894 · p. 112
अस्त्री तु मुसलोऽयोग्रमुदूखलमुलूखलम् ।तुषस्तु त्वचि धान्यानामवघातस्तु खण्डनम् ॥ ८९४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.176 · p. 59
विभीदकः कर्षफलो भूतवासो बहेटकः ।दैत्यः पापस्तुषः कल्पः कालेयस्तुमुलाक्षकः ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.66 · p. 164
प्रस्फोटनं तु पवनमवघातस्तु कण्डनम् ।फलीकृतस्तण्डुलः स्याद्धान्यानां तु तुषस्त्वचि ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.35 · p. 370
स्याच्छूकशिम्ब्यां व्रतशीलिनां तुवृष्यासनेऽस्त्री तु विषं जले स्यात् ।स्यात्कालकूटेऽतिविषौषधे स्त्रीतुषस्तु धान्यत्वचि चाक्षवृक्षे ॥ ३५ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.554 · p. 90
तुषस्तु पुंसि धान्यानां त्वचि तत्सदृशे तथा ।हिरण्यादेश्च शकले विभीतकतरावपि ॥ ५५४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.555 · p. 90
तत्फले क्ली तुटिस्तु स्त्री पुंस्यप्येके प्रचक्षते ।वाद्यभेदे लवे चाल्पकालभेदे च संशये ॥ ५५५ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र षद्विः Śivakoṣa 26.1.517 · p. 47
काक्षी तुवरिकागृष्ट्योः घोषः कोशातकीभिदि ।घोषा मिस्यां च कर्कोट्यां तुषो धान्यत्वगक्षयोः ॥ ५१७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.7 · p. 291
तर्षो वाञ्छातृषोः पुंसि त्विट् स्त्री वाक्द्युतिकात्तिषु ।तुषो विभीतकतरौ धान्यादित्वचि पुंस्ययम् ॥
अनुष्टुप्

तुष as a meaning in nānārtha verses