कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

द्व्यक्षरकाण्डः · नपुंसकलिङ्गाध्यायः

इति द्व्यक्षरकाण्डे पुल्लिँङ्गाध्यायः ।

अथ द्व्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।

अथ क्लीबेऽभिधानानि सर्वाणि कुमुदस्य हि ।रजतेऽतिदिशन्त्यार्या रुधिरस्य तु कुङ्कुमे ॥ १ ॥
2.3.1 · p. 33
अनुष्टुप्
रूप्यस्याञ्जनभेदे स्युर्बदरस्य तु नागरे ।अथाभ्रशब्दो जलदे व्योममुस्तकयोरपि ॥ २ ॥
2.3.2 · p. 33
अनुष्टुप्
अभ्रकाह्वयधातावप्यस्त्रमायुधचापयोः ।अघं तु व्यसने पापे दुःखेऽथ स्यादलध्वनिः ॥ ३ ॥
2.3.3 · p. 33
अनुष्टुप्
हरिताले वृश्चिकस्य पुच्छकण्टक एव च ।अक्षि नेत्रे तथेक्ष्वादेः काण्डस्यावयवान्तरे ॥ ४ ॥
2.3.4 · p. 33
अनुष्टुप्
अम्बुच्छन्दोविशेषे स्यान्नवत्यक्षरलक्षिते ।लग्नाच्चतुर्थे राशौ स्यादिति सांवत्सरा विदुः ॥ ५ ॥
2.3.5 · p. 33
अनुष्टुप्
ह्रीबेरे सलिलेऽथ स्यादम्भो ह्रीबेरतोययोः ।द्व्यशीतिस्वरके छन्दस्यष्टाशीत्यक्षरे तथा ॥ ६ ॥
2.3.6 · p. 33
अनुष्टुप्
अम्भसी इति तु द्यावापृथिव्योर्द्विवचोन्तकम् ।अर्णश्छन्दोविशेषेऽष्टसप्ततिस्वरके जले ॥ ७ ॥
2.3.7 · p. 33
अनुष्टुप्
अनोऽन्ने शकटे सान्त ओदने सलिलेऽपि च ।अर्शो दुर्नामनि व्याधिमात्रेऽप्यङ्कस्तु संयुगे ॥ ८ ॥
2.3.8 · p. 33
अनुष्टुप्
स्वाङ्गभेदेऽपि चाब्जस्तु रूपे कश्चित् सरोरुहे ।अप्नस्तु रूपेऽपत्ये च क्रियायामप्यथो अयः ॥ ९ ॥
2.3.9 · p. 33
अनुष्टुप्
कालायसे सुवर्णे च स्यादाज्यं तु घृते युधि ।श्रीवेष्टाह्वयनिर्यासे स्तोत्रेषु च चतुर्ष्वपि ॥ १० ॥
2.3.10 · p. 34
अनुष्टुप्
स्युर्बहिष्पवमानाद्यान्यूर्ध्वान्यध्वरकर्मणाम् ।उन्मानभेदे च पलसंज्ञेऽप्येतदपाठिषुः ॥ ११ ॥
2.3.11 · p. 34
अनुष्टुप्
आष्ट्रं तु रश्मावाकाशेऽप्यागः पापापराधयोः ।रहस्ये चोक्थशब्दस्तु सामस्तोत्रेषु च त्रिषु ॥ १२ ॥
2.3.12 · p. 34
अनुष्टुप्
परेष्वग्निष्टोमसाम्न औक्थिक्ये सामलक्षणे ।वैजयन्त्यां तु शस्त्राख्ययागमन्त्रेषु भाषितम् ॥ १३ ॥
2.3.13 · p. 34
अनुष्टुप्
अन्ये त्ववैदिकाः प्राहुः सामवेदस्य वाचकम् ।सञ्जनस्त्वपठीदेनं साम्नः पर्याय एव हि ॥ १४ ॥
2.3.14 · p. 34
अनुष्टुप्
उरो वक्षसि मुख्येऽथ गवादीनां स्तनास्पदे ।ऊधः सीमाख्यसाम्नश्च पादभेदे तथा निशि ॥ १५ ॥
2.3.15 · p. 34
अनुष्टुप्
एनः पापेऽपराधे च स्यादोजो बलतोययोः ।दीप्तौ प्रकाशेऽवष्टम्भे काव्यालङ्कारभेदके ॥ १६ ॥
2.3.16 · p. 34
अनुष्टुप्
ओको गृहे जलौकायामाश्रये चाथ भूषणे ।कण्वं पर्वणि किण्वं तु नग्नहूसंज्ञवस्तुनि ॥ १७ ॥
2.3.17 · p. 34
अनुष्टुप्
पिण्याके चाथ तुहिने क्षुप्रं कण्टकिगुल्मके ।कूलं तीरे चमूकट्यां तटाके सूप एव च ॥ १८ ॥
2.3.18 · p. 34
अनुष्टुप्
क्षेत्रं पृथिव्यामाकाशे शरीरे योनिवृन्दयोः ।केदारदारागारेषु नक्षत्रे पुरि राशिषु ॥ १९ ॥
2.3.19 · p. 34
अनुष्टुप्
पुण्यस्थाने च खात्रं तु चोरनिर्मितरन्ध्रके ।कुद्दालेऽप्यथ गात्रं स्यात् तनोरवयवे तनौ ॥ २० ॥
2.3.20 · p. 34
अनुष्टुप्
गजानां पूर्वजङ्घादिपादयोरथ गोत्रवाक् ।लोके यानेऽप्यथो चर्म फलकाख्यास्त्रवारणे ॥ २१ ॥
2.3.21 · p. 34
अनुष्टुप्
त्वचि चिह्नं त्वभिज्ञाने पताकायामथो हृदि ।प्रज्ञायामपि चित्तं स्याच्चोचं तु स्यात् तरुत्वचि ॥ २२ ॥
2.3.22 · p. 35
अनुष्टुप्
भृङ्गाख्यगन्धद्रव्येऽथच्छद्मस्खलितयोश्छलम् ।छन्दः श्रुतीच्छापद्येषु सामगानां विशेषके ॥ २३ ॥
2.3.23 · p. 35
अनुष्टुप्
अनूहसामग्रन्थेऽथच्छद्म सद्मनि कैतवे ।छदिस्तु पटले गेहे जन्म तूत्पत्तितोययोः ॥ २४ ॥
2.3.24 · p. 35
अनुष्टुप्
जीलं करकपत्र्यां स्यात् कोशे चर्मपुटे दृतौ ।तन्त्रं स्वराष्ट्रव्यापारे तन्तुवाने परिच्छदे ॥ २५ ॥
2.3.25 · p. 35
अनुष्टुप्
शास्त्रौषधान्त्रमुख्येषु प्रयोगेऽध्वरकर्मणाम् ।एकस्यैवोभयार्थत्वे कुटुम्बव्यापृतावपि ॥ २६ ॥
2.3.26 · p. 35
अनुष्टुप्
सेनायां सामसूत्रे च सिद्धान्तेऽन्यकुटुम्बके ।क्रतुकामाभिवादानामृक्सामानां समागमे ॥ २७ ॥
2.3.27 · p. 35
अनुष्टुप्
तल्पं शय्याट्टदारेषु मङ्गे युद्धेऽप्यथ त्रपु ।वङ्गे सीसेऽप्यथ तरो बले वेगे तनुस्त्विदम् ॥ २८ ॥
2.3.28 · p. 35
अनुष्टुप्
विस्तारे च शरीरे च तेजस्तु बलतोययोः ।नवनीतेऽनले धर्मे ज्योतिष्यर्चिषि रेतसि ॥ २९ ॥
2.3.29 · p. 35
अनुष्टुप्
प्रभावे पौरुषे सत्त्वे ज्वलत्यन्नात्मनोरपि ।तोकं पुत्रे च पुत्र्यां च द्रव्यं त्वर्थे गुणाश्रये ॥ ३० ॥
2.3.30 · p. 35
अनुष्टुप्
औषधे पित्तले योग्यऋक्सामेष्विष्टिगामिषु ।दानं हस्तिमदे त्यागे खण्डने लवने क्षये ॥ ३१ ॥
2.3.31 · p. 35
अनुष्टुप्
शोधने रक्षणे चाथ द्वारं द्वाराभ्युपाययोः ।द्युम्नं धने यशस्यन्ने बले दैन्यध्वनिः पुनः ॥ ३२ ॥
2.3.32 · p. 36
अनुष्टुप्
दीनतायां च शोके च द्यौत्रशब्दस्तु वासरे ।प्रमाणेऽन्ये प्रतोदेऽन्ये ज्योतिष्यथ धनं भवेत् ॥ ३३ ॥
2.3.33 · p. 36
अनुष्टुप्
लग्नाद्द्वितीयराशौ च स्वापतेये च गोव्रजे ।धामं त्वदन्तं तिलकतेजसोर्धाम तु त्विषि ॥ ३४ ॥
2.3.34 · p. 36
अनुष्टुप्
गेहदेहप्रभावान्नभोजनव्योमजन्मसु ।स्थानेऽधिकरणे सारे धने लक्ष्मणि चाप्यथ ॥ ३५ ॥
2.3.35 · p. 36
अनुष्टुप्
शाखायां त्वपि वैचित्र्ये नान्तशब्दं प्रचक्षते ।पदमङ्घ्रौ शरे त्राणे व्यवसायापदेशयोः ॥ ३६ ॥
2.3.36 · p. 36
अनुष्टुप्
चिह्नेऽङ्घ्रिचिह्नेऽङ्घ्रिन्यासे पद्यभागेंऽशुवस्तुनोः ।स्थाने वाक्ये सुप्तिङन्ते माने पञ्चदशाङ्गुलौ ॥ ३७ ॥
2.3.37 · p. 36
अनुष्टुप्
इन्द्रपुच्छेति वर्गस्याप्यादितस्त्रिषु सामसु ।पक्त्रं तु गार्हपत्येऽपि पिठरे पक्ष्मवाक् पुनः ॥ ३८ ॥
2.3.38 · p. 36
अनुष्टुप्
पुष्पच्छदे पक्षिपक्षे तथा नयनलोमसु ।किञ्जल्के तन्तुतूलादेरणीयोवयवेऽपि च ॥ ३९ ॥
2.3.39 · p. 36
अनुष्टुप्
पयः सामान्तरे दुग्धे रजन्यामन्नतोययोः ।परुरिक्ष्वादिकग्रन्थौ धर्मे पाजो बलान्नयोः ॥ ४० ॥
2.3.40 · p. 36
अनुष्टुप्
पाथः स्थानान्नखाम्भःसु पाथिः स्वर्गेन्दुपूषसु ।नद्यां ज्योतिष्यथो पिञ्छं मयूरस्य शिखण्डके ॥ ४१ ॥
2.3.41 · p. 36
अनुष्टुप्
विहङ्गपक्षमात्रे च पृष्ठं तु चरमं तनोः ।चतुर्षु सामस्तोत्रेषु क्रतोः सामान्तरे कुशे ॥ ४२ ॥
2.3.42 · p. 36
अनुष्टुप्
पेशो रूपे हिरण्येऽथ सूकरस्य हलस्य च ।पोत्रं मुखाग्रे पौंस्यं तु बले युद्धेऽथ बर्हवाक् ॥ ४३ ॥
2.3.43 · p. 36
अनुष्टुप्
वृक्षपत्रे केकिपिञ्छेऽप्यथ बीजं फलास्थनि ।अन्ने रेतस्यपत्ये च हेतावङ्कुरकारणे ॥ ४४ ॥
2.3.44 · p. 37
अनुष्टुप्
स्वर्णवेतनयोर्भर्म भर्गस्तेजसि रेतसि ।भुवः सूर्ये लोकभेदे महस्तूत्सवतेजसोः ॥ ४५ ॥
2.3.45 · p. 37
अनुष्टुप्
जले चाथ मुखं वक्त्रे मुख्ये ताम्राभ्युपाययोः ।आदौ निस्सरणे गेहपुरादीनां च सैन्धवे ॥ ४६ ॥
2.3.46 · p. 37
अनुष्टुप्
द्वारेऽथ देहिनां बीजे मेदो धातौ चतुर्थके ।यशस्तु सत्त्वख्यातिश्रीज्ञानमाहात्म्यवारिषु ॥ ४७ ॥
2.3.47 · p. 37
अनुष्टुप्
धनप्रतापयोश्चाथ यजुर्यज्ञोत्सवे तथा ।मन्त्रजातिविशेषे च योक्त्रं त्वङ्गुलियोक्त्रयोः ॥ ४८ ॥
2.3.48 · p. 37
अनुष्टुप्
रत्नं स्वजातिश्रेष्ठे च माणिक्यादिमणावपि ।समाम्नाये समाम्नासीद्धने च सलिलेऽपि च ॥ ४९ ॥
2.3.49 · p. 37
अनुष्टुप्
रजस्तु शरदि स्त्रीणां पुष्पे रेणौ जले स्रजि ।सत्त्वाद्यन्यतमे रात्रौ लोहे तेजसि रेतसि ॥ ५० ॥
2.3.50 · p. 37
अनुष्टुप्
अहन्यथ रहः शब्दो मैथुने विजने तु तत् ।अव्ययं वाथ राधः स्यात् प्ररूढे च धनेऽपि च ॥ ५१ ॥
2.3.51 · p. 37
अनुष्टुप्
रिप्रं दुःखे च पापे चेत्यामनन्ति विचक्षणाः ।रेतः शुक्रे जले चाथ रोधस्तीरान्तरिक्षयोः ॥ ५२ ॥
2.3.52 · p. 37
अनुष्टुप्
वरणे बन्धने कुड्ये रोधसी इति रोदसोः ।ललं पल्लव उद्याने लक्ष्म चिह्नप्रधानयोः ॥ ५३ ॥
2.3.53 · p. 37
अनुष्टुप्
स्यादुपच्छन्दने लालं गुह्यार्थपरभार्ययोः ।लिङ्गं बुद्ध्यादिसंहत्यां साङ्ख्यानां प्रकृतावपि ॥ ५४ ॥
2.3.54 · p. 37
अनुष्टुप्
स्त्रीपुंसादौ च संस्थाने शरीरे चिह्नशेफयोः ।प्रव्रज्यायामवयवे वेषेऽप्यथ वनं जले ॥ ५५ ॥
2.3.55 · p. 37
अनुष्टुप्
कानने गहने यज्ञे धनप्रीतिगभस्तिषु ।वस्तु ग्रामनगर्यादिपदार्थे स्वापतेयके ॥ ५६ ॥
2.3.56 · p. 38
अनुष्टुप्
पदार्थमात्रेऽप्यस्यार्थं पण्डितः शाकटायनः ।सदित्याह स्म वर्चस्तु विष्ठायामन्नतेजसोः ॥ ५७ ॥
2.3.57 · p. 38
अनुष्टुप्
लावण्येऽर्चिष्यथ वयो वत्सरे यौवने धने ।अन्ने पक्षिणि बाल्यादौ जीवितेऽप्यथ वर्त्मवाक् ॥ ५८ ॥
2.3.58 · p. 38
अनुष्टुप्
मार्गे नेत्रच्छदे चाथ वर्म स्यात् कवचे गृहे ।वपुः शरीरे लावण्ये जले दीप्तौ च सज्जनः ॥ ५९ ॥
2.3.59 · p. 38
अनुष्टुप्
वेश्म स्यान्मन्दिरे लग्नादपि राशौ तुरीयके ।वैष्ट्रं तु यकृति स्वर्गे गेहेऽपि परमात्मनि ॥ ६० ॥
2.3.60 · p. 38
अनुष्टुप्
व्योमशब्दं तु पञ्चार्थं विद्यात् स्थाने जले दिशि ।आकाशेऽक्षितसङ्ख्यायाः सङ्ख्यायां दशकात्मनि ॥ ६१ ॥
2.3.61 · p. 38
अनुष्टुप्
शक्ष्यं जले सुखे चाथ शकृद्गोमयविष्ठयोः ।जले च शर्म तु सुखे गृहे चाथ श्वयो बले ॥ ६२ ॥
2.3.62 · p. 38
अनुष्टुप्
शोषे गदे श्रवस्त्वन्ने यशः श्रोत्रबलेषु च ।धने शास्त्रं तु विद्यायामाज्ञायां श्वात्रवाक् पुनः ॥ ६३ ॥
2.3.63 · p. 38
अनुष्टुप्
धने क्षिप्रेऽप्यथो शिल्पं कारुकर्मणि कर्मणि ।कर्मान्तराणां निर्माणविज्ञाने शाकटायनः ॥ ६४ ॥
2.3.64 · p. 38
अनुष्टुप्
शिरो मूर्ध्नि पुरःसैन्ये सामस्तोत्रान्तरे तथा ।प्रधानेऽप्यथ शीर्षं स्यान्मूर्ध्नि चागुरुसंज्ञके ॥ ६५ ॥
2.3.65 · p. 38
अनुष्टुप्
गन्धद्रव्येऽथ शैत्यं स्यान्नैशित्ये शौक्ल्यकार्ष्ण्ययोः ।शीतलत्वे च शोचिस्तु पै(श?ङ्ग)ल्ये शु(द्धि?ग्वि)शुद्धयोः ॥ ६६ ॥
2.3.66 · p. 39
अनुष्टुप्metre not read in every line
रश्मौ ज्वलति शुद्धत्वेऽप्यथ शौर्यमिति ध्वनिः ।लग्नात् तृतीयराशौ च शक्त्याह्वयबले तथा ॥ ६७ ॥
2.3.67 · p. 39
अनुष्टुप्
शूरस्य भावक्रिययोरथ सस्यमिति ध्वनिः ।वृक्षादीनां फले धान्ये धान्यस्तम्बे गुणे त्वमुम् ॥ ६८ ॥
2.3.68 · p. 39
अनुष्टुप्
जयादित्योऽवददथो सत्रमाच्छादने वने ।द्वादशाहादियज्ञेषु सदादानेऽथ सक्थिवाक् ॥ ६९ ॥
2.3.69 · p. 39
अनुष्टुप्
ऊरौ च शकटाङ्गे च कस्मिंश्चिदथ सद्मवाक् ।गृहे जले च रोदस्योः सद्मनी इत्यथो जले ॥ ७० ॥
2.3.70 · p. 39
अनुष्टुप्
आज्ये च सर्पिः स्नानं तु स्नानीयाप्लवयोरथ ।साम प्रगीतमन्त्रेषु सान्त्वसामप्रभेदयोः ॥ ७१ ॥
2.3.71 · p. 39
अनुष्टुप्
साधुन्यथ जले स्रोतः प्रवाहे सरितामपि ।अम्भसो निर्गमद्वार इन्द्रियेऽप्यथ हर्म्यवाक् ॥ ७२ ॥
2.3.72 · p. 39
अनुष्टुप्
प्रासादपृष्ठ इत्येके गृहभेदे गृहेऽपि च ।हरः क्रोधे जले लोके ज्योतिषि ज्वलति स्रजि ॥ ७३ ॥
2.3.73 · p. 39
अनुष्टुप्
अग्निसामविशेषेषु पञ्चस्वथ हविर्घृते ।हव्ये जलेऽथ होत्वं स्याद् यजमानसमुद्रयोः ॥ ७४ ॥
2.3.74 · p. 39
अनुष्टुप्
होमहव्येऽग्निहोत्रस्य शालायां चेत्यपूर्ययम् ॥ ७४-१/२ ॥
2.3.75 · p. 39