श्मश्रु
śmaśruक्ली · neut.In 16 kośas: 14 synonym verses, 12 as a meaning of another word.
ततो हनुः श्मश्रु कूर्चमास्यलोम च मासुरी ।
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
रोम तनूरुहमुक्तं नयनगतं पक्ष्म मुखगतं श्मश्रु ।अधरो दन्तच्छद ओष्ठ उच्यते दन्तवासश्च ॥ ५२४ ॥
आर्याmetre not read in every line
genderक्लीneut.
हनुर्द्वयोर्हनू स्त्रीत्वे श्मश्रु षण् व्यञ्जनं हिनुः ।कूर्चमस्त्री पुमान्घोट आस्यलोम च भासुरी ॥ १५७ ॥
अनुष्टुप्
genderक्लीneut.
यत्तन्मुख्यं कर्णमूलात्कर्णमूलावधिस्थितम् ।नरचिह्नं द्वयोः श्मश्रु शुण्ठं कक्षाश्रितं च यत् ॥ २४२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
तनूरुहं लोम रोम न स्त्री तु श्मश्रु दाढिका ।दंष्ट्रिका मासुरी नव्या कूर्चोऽस्त्री चिबुकस्थिते ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderक्लीneut.
पुंसो योगः पुंयोगः तस्मिन् कर्णहनू भवतः । यथा अयं कर्णः श्रोत्रं कुन्तीपुत्रश्च । हनुः कपोलप्रदेशः । श्मश्रुजानुगुदशब्दाः नपुंसके भवन्ति । इदं श्मश्रु मुखैकदेशरोमराजिः । इदं जानु जङ्घामध्यस्थानम् । इदं गुदमपानम् । अभिधीयतेऽनेनेत्यभिधानं एकं च तदभिधानं च तस्य भावः एकाभिधानता स्यात् भवेदित्यर्थः । अस्राश्रुणोर्नित्यं नपुंसकता भवति । इदमस्त्रम् । इदमश्रु । नयनजलमिति । एक एवार्थः नित्यवचनं पूर्ववत् ।घुसकिरुपसर्गपूर्वः पुंस्यन्योपपदे वेषुपूर्वः स्त्री ।येभ्यो नञ्तान्पुंस्युक्तान्याञ्चा विना विद्धि ॥ २२ ॥
metre not recognised
genderक्लीneut.
असिकाधस्तथा प्रोक्तं कपोलः सृक्कणः समौ ।गण्ङो गल्लो हनुश्चाथ श्मश्रु कूर्चमपीक्षितम् ॥ २४७ ॥
अनुष्टुप्
genderक्लीneut.
बालः केशस्तनुरुहो रोम लोमाङ्गजात्मजाः ।कूर्चं वक्त्रा शिखाश्मश्रु गुम्फः पुंस्त्वद्रुमाङ्कुरः ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
मुखकेशाः श्मश्रु कूर्चो लोम रोम तनूरुहम् ।रोमावली रोमलता रोमराजी हृदूदरे ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
आसुरी चास्यलोमं च श्मश्रु कूर्चञ्च व्यञ्जनम् ।कोटं स्याद्दंष्ट्रिका नाम द्राढिका दाढिका तथा ॥ ९३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ञ्च (wrong syllable)
genderक्लीneut.
तनूरुहं तनुरुहं तनुरुट् लोम रोम च ।छेङि (?) श्मश्रू व्यञ्जनञ्च लोमबृद्धौ तु पुंमुखे ॥
अनुष्टुप्
genderक्लीneut.
श्मश्रु तु व्यंजनं चोटः समे शिंघाणशिंगिनी ।त्वक् स्त्री छदिस्तनुः कृत्तिः संछादन्यप्यसृग्धरा ॥ १०३ ॥
अनुष्टुप्
genderक्लीneut.
श्मश्रु as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् व्यञ्जनव्यञ्जनं लाञ्छनं श्मश्रुनिष्ठानावयवेष्वपि । Amarakośa 3.3.220
- धरणिकोश व्यञ्जनव्यञ्जनं तेमने चिह्ने श्मश्रुणि व्यञ्जनं स्मृतम् । स्त्रीपुंसशुद्धदेशे च व्यञ्जनं चार्धमात्रिकम् ॥ Dharaṇikośa 19.3.21
- कोषकल्पतरु व्यञ्जनस्याद्व्यञ्जनं तेमनचिह्नवाचि श्मश्रुप्रतीकार्थमुशन्ति तद्वत् । स्याद्रञ्जनं रागकरे पराभं क्लीबे तु तल्लोहितचन्दने स्यात् ॥ ५५ ॥ Koṣakalpataru 6.21.55
- नानार्थार्णवसंक्षेप कूर्चएकं निश्चलयन्त्रेति केचिदर्थममन्वत । भग्नशृङ्गपशौ तु त्रिः कूर्चोऽस्त्री श्मश्रुपीठयोः ॥ २५४ ॥ Nānārthārṇavasaṃkṣepa 2.5.254
- नानार्थार्णवसंक्षेप व्यञ्जनक्लीबं श्मश्रुणि निष्ठाने चिह्नावयवयोरपि । व्यनक्त्यर्थेऽथ ना यज्ञपशुसंस्कारकर्मणि ॥ १५९५ ॥ Nānārthārṇavasaṃkṣepa 4.1595
- परमानन्दीयनाममाला कूर्चकूर्चो भ्रुवोऽन्तरे दम्भे श्मश्रुण्यपि तथोच्यते । कृच्छ्रे च गहने कष्टं कृष्टिः कर्षणधीमतोः ॥ १०६ ॥ Paramānandīyanāmamālā 5.7.106
- शब्दरत्नावली कूर्चबन्धनेऽपि च शोभायां करिण्याञ्च कचा स्त्रियाम् । काचो मनौ च शिक्ये च नेत्ररुग्मृत्तिकाभिदोः ॥ काञ्चीनगरभेदे च स्त्री कटिमेखलासु च । कूर्चमस्त्री भ्रुवोरन्तः कठिन श्मश्ककैतवे ॥ Śabdaratnāvalī 7.6.3
- शब्दरत्नावली व्यञ्जनवसनं छादने वस्त्रे निवासे चापि कुत्रचित् । वर्द्धनं वृद्धिषुच्छेदे खय्यान्तु वर्द्धनी स्त्रियाम् ॥ व्यञ्जनं स्याद्धिने चिह्ने श्मश्रुण्यवयवेऽपि च । व्यसनन्तु विपत्तौ स्यात्पापे च निष्फलोद्यमे ॥ पानस्त्रीमृगयासङ्गाशुभदैवादिभूषने (?) । वर्त्तनं वर्त्तने पुंसि ह्रस्वे स्त्री पथि पेषणे ॥ Śabdaratnāvalī 7.20.71
- शब्दरत्नाकर कूर्चत्रिष्वन्तःकुक्षि कोष्ठोऽस्त्री कुसूलेऽन्तर्गृहे पदे । कूर्चमस्त्री कुशे पीठे भ्रूमध्यश्मश्रुणोरपि ॥ १८९९ ॥ Śabdaratnākara 4.1.1899
- त्रिकाण्डशेष कूर्चप्रतिमापूजयोरर्चा क्रौञ्चः पक्ष्यद्रिभेदयोः । कूर्चमस्त्री भ्रुवोर्मध्ये श्मश्रुकैतवयोरपि ॥ ७४ ॥ Trikāṇḍaśeṣa 3.3.74
- वैजयन्ती कूर्चपीठे श्मश्रुणि कूर्चोऽस्त्री भ्रूमध्ये कत्थने कुशे । कृत्या क्रियादेवतयोः कार्ये क्ली कुपिते त्रिषु ॥ २० ॥ Vaijayantī 6.5.20
- वैजयन्ती व्यञ्जनव्यञ्जनं श्मश्रुनिष्ठानचिह्नेष्ववयवेऽक्षरे । वृद्धत्वे वृद्धसंघाते वृद्धकर्मणि वार्द्धकम् ॥ ३० ॥ Vaijayantī 7.3.30