आत्मज
ātmajaपुं · masc.In 18 kośas: 18 synonym verses, 1 as a nānārtha head word, 4 as a meaning of another word.
दोहदं दौर्हृदं श्रद्धा लालसा सूतिमासि तु ।वैजननो विजननं प्रसवो नन्दनः पुनः ॥ ५४१ ॥उद्वहोऽङ्गात्मजः सूनुस्तनयो दारकः सुतः ।पुत्रे दुहितरि स्त्रीत्वे तोकापत्यप्रसूतयः ॥ ५४२ ॥तुक्प्रजोभयोर्भ्रात्रीयो भ्रातृव्यो भ्रातुरात्मजे ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 यो (wrong syllable)
genderपुंmasc.
आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ।
अनुष्टुप्
genderपुंmasc.
कान्तः स्यात्कमिता पतिर्वरयिता भर्ता च भोक्ता धवो,रुच्याभीकवराभिकाश्च रमणः प्राणाधिनाथोऽनुगः ।सूनुः सन्ततिरात्मजश्च तनुजः पुत्रः प्रसूतिः सुतः,तुक् तोकं तनयश्च नन्दन इति प्राज्ञैरपत्यं स्मृतम् ॥ ४९७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
रसातलांबुवेश्मोक्तं पंचमं सुतमात्मजम् ।सन्तानं बुद्धिसंज्ञा च विद्या धीश्चैव नंदनम् ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
चण्डो द्विनग्नोऽथ पुनश्चण्डिकोऽप्यथ संततिः ।स्त्रियां सूनुः पुमान्पुत्र आत्मजस्तनयोऽपि च ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
आत्मजस्तनयः सूनुर्दायादश्चोद्वहश्च सः ।द्वितीयः कुलकृच्चासौ पुत्राद्यास्तु स्त्रियाममी ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
रुधिरे रक्त - कीलाल - तेजोज - रसजानि च ।आत्मजं देहजं तिग्ममस्रं लोहितमस्त्रियाम् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
तत्कुमारस्तु कन्तः स्याददृश्यतनुरात्मजः ।केलिनी तस्य वनिता केतुस्तस्य चलाचलः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
कलेवरं शरीरं च मूर्तिः अस्मिन् भवः सुतः ।पुत्रः सूनुरपत्यं च तुक् तोकं चात्मजः प्रजा ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
श्रद्धया दौहृदं तुल्यं दारको नन्दनः सुतः ।तनयाङ्गजात्मजाः सूनुरुद्वहः पुत्र इत्यपि ॥ २०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
पुत्रः सुतः स्वजः सूनुरात्मजस्तनयौरसौ ।पौत्रो नप्ता पुत्रपुत्रः पौत्री नप्त्री सुतात्मजा ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
बालः केशस्तनुरुहो रोम लोमाङ्गजात्मजाः ।कूर्चं वक्त्रा शिखाश्मश्रु गुम्फः पुंस्त्वद्रुमाङ्कुरः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
नन्दनस्तनयः पुत्रो दारकः सूनुरुद्वहः ।सुतोऽङ्गज आत्मजश्च पुत्री तु दुहिता सुता ॥ ११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
genderपुंmasc.
अङ्गजः आत्मजः सूनुः नन्दनः कुलधारकः ।उद्वहो दारकः पुत्रो द्वितीयस्तनयः सुतः ॥ ८६४ ॥
अनुष्टुप्
genderपुंmasc.
तत्र कौलटिनेयः स्यात् कौलटेयोऽपि स स्मृतः ।अथ पुत्रस्तनूजः स्यादात्मजस्तनयः सुतः ॥
अनुष्टुप्
genderपुंmasc.
जनकः सविता पुत्रस्तनयः सूनुरात्मजः ।नन्दनस्तनया पुत्री दुहिता च सुता तयोः ॥ ११२३ ॥
अनुष्टुप्
genderपुंmasc.
हो नकुलीशः प्राणेशः प्राणः सम्बित् तथात्मजः ।अम्बिकापतिरात्मा च जीवो हंसः प्रकीर्त्तितः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 न (wrong syllable)
genderपुंmasc.
वेश्यापतौ षिद्गकुंभभुजङ्गविटपल्लवाः ।पुत्रस्तु तनयः सूनुरात्मजो नन्दनोंऽगजः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
आत्मज as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप आवन्त्यसम्बन्धिनि त्वदोऽश्विन्या अश्विनोश्चापि भेद्यवत् । अथ प्रचक्षते धीराः स्यादावन्त्यः पुमात्मजे ॥ १८८ ॥ Nānārthārṇavasaṃkṣepa 4.188
- शब्दरत्नावली नन्दनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- तन्त्राभिधान हपरमात्मात्मजो जीवो यवाकः शान्तिदोऽङ्गनम् । मृगोऽभयाऽरुणा स्थाणुः क्रोष्टुः कूपविरावणः ॥ १६४ ॥ Tantrābhidhāna 2.50.164
- त्रिकाण्डशेष स्वजव्याजः शाठ्येऽपदेशे च स्वेदरक्तात्मजाः स्वजाः । निसर्गे सहजः पुंसि सहोत्थे वाच्यलिङ्गकः ॥ ८८ ॥ Trikāṇḍaśeṣa 3.3.88