कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रणिपात

praṇipātaपुं · masc.

In 10 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1504 · p. 56
प्रणतिः प्रणिपातोऽनुनयेऽथ शयने क्रमात् ।विशाय उपशायश्च पर्यायोऽनुक्रमः क्रमे ॥ १५०३ ॥परिपाट्यानुपूर्व्यातृदतिपातस्त्वतिक्रमः ।उपात्ययः पर्ययश्च समौ संबाधसंकटौ ॥ १५०४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.749 · p. 86
व्यलीकमपराधः स्यादागो मन्तुश्च विप्रियम् ।प्रणतिः स्यादनुनयः प्रणिपातश्च सान्त्वनम् ॥ ७४९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.24 · p. 237
प्रणिपातस्त्वनुनयः प्रणतिः सान्त्वनं पुनः ।अपि ग्लानिस्तु क्लमथुरनुतापो विसूरणम् ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.84 · p. 239
प्रणिपातस्त्वनुनयः प्रणतिः स्त्री क्षमापणम् ।वरिवस्या तु शुश्रूषा परिचर्या प्रसादना ।आराधनोपासना च परीष्टिर्भक्तिरित्यपि ॥ ८४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.377 · p. 98
वैपरीत्यमथ स्फातिः वृद्धिः प्रीणनसंज्ञिका ।प्रणतिस्तु प्रणामोऽपि प्रणिपातस्तथोच्यते ॥ ३७७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.121 · p. 31
नतिः प्रणामः प्रणतिर्नमस्कारोऽभिवादनम् ।वन्दनं प्रणिपातश्च नमस्या च नमस्क्रिया ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.345 · p. 445
प्रणतिः प्रणिपातश्च कथ्यतेऽनुनयः पुनः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 म (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.75 · p. 175
परभागः परोत्कर्षे प्रणये सान्त्वना न ना ।प्रणिपातस्त्वनुनये त्वासारश्च सुहृद्बले ।प्रबन्धे गुम्फसन्दर्भेग्रन्थाश्च रचना न ना ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1855 · p. 225
प्रणिपातः प्रणामः स्याद्दाक्षिण्यमनुकूलता ।कक्ष्या तुलायां कौसीद्यमालस्यं चयनं चयः ॥ १८५५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.24 · p. 194
परिणामोऽन्यथाभावः सन्नामस्त्वन्यथाकृतिः ।प्रणामः प्रणिपातः स्यादुन्नामस्तुंगतोन्नतिः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.