कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चित्रपुङ्ख

citrapuṅkhaपुं · masc.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.778 · p. 32
बाणे पृषत्कविशिखौ खगगार्ध्रपक्षौ काण्डाशुगप्रदरसायकपत्त्रवाहाः ।पत्त्रीष्वजिह्मगशिलीमुखकङ्कपत्त्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ७७८ ॥
वसन्ततिलका
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.466 · p. 53
कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
स्वागता
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.269 · p. 118
विकर्षः पत्रवाहश्च चित्रपुङ्खः शरः खरुः ।सरः शरुर्मर्मभेदी वीरशङ्कुश्च लक्षहा ॥ २६९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.20 · p. 265
उपासनं शराभ्यासोऽथो शरव्यं च वेध्यकम् ।लक्ष्यं लक्षं निमित्तं च चित्रपुङ्खः शिलीमुखः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.384 · p. 149
कलम्बमार्गणौ रोपः कङ्कपत्रशिलीमुखौ ।अजिह्मगश्चित्रपुङ्ख एषणः सर्वलौहकः ॥ ३८४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1273 · p. 200
लक्षहा मार्गणो वारो विशिखश्च शिलीमुखः ।चित्रपुङ्खश्च पत्रीषुः प्रदरो मर्मभेदनः ॥ १२७३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.334 · p. 133
उपासनञ्च खुरली शास्त्राभ्यासो विकर्षणम् ।वाणः पत्री चित्रपुङ्खः सायको विशिखः शरः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.52 · p. 69
शस्त्राभ्यासश्च खुरली बाणः स्यादत्स्त्रकण्टकः ।स्थूलक्ष्वेडो विपाटश्च चित्रपुङ्खः शरः सरः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.