वार
vāraपुं · masc.In 17 kośas: 31 synonym verses, 7 as a nānārtha head word.
संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयःसंदोहः समुदायराशिविसरव्राताः कलापो व्रजः ।कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकंवृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ॥ १४११ ॥समवायो निकुरम्बं जालं निवहसंचयौ ।जातं तिरश्चां तद्यूथं संघसार्थौ तु देहिनाम् ॥ १४१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
genderपुंmasc.
विघ्नेऽन्तरायप्रत्यूहव्यवायाः समये क्षणः ।वेला वाराववसरः प्रस्तावः प्रक्रमान्तरम् ॥ १५०९ ॥
अनुष्टुप्
genderपुंmasc.
समूहे निवहव्यूहसंदोहविसरव्रजाः ।स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥समुदायः समुदयः समवायश्चयो गणः ।स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
पटलं पेटकं चक्रं चक्रवालं च मण्डलम् ।जालं जातं तथा व्यूहवारस्तोमाश्च ते स्मृताः ॥ ६८७ ॥
अनुष्टुप्
genderपुंmasc.
उद्घात उक्तः प्रस्तावो वारश्चावसरः क्षणः ।वदन्त्युपनतं प्राज्ञा उपसन्नमुपस्थितम् ॥ ७५० ॥
अनुष्टुप्
genderपुंmasc.
कम्पावारोपि तद्वत्स्युस्तस्य भेदा अनेकशः ।प्राकाराग्रं कपिकोटक्रमेभ्यः शिरसोर्थकम् ॥ ३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)
genderपुंmasc.
स्त्रियां कृषिः स्याद्वाणिज्या न ना सत्यानृतं पुनः ।तृष्णा धनपिशाची स्याद्वार उद्धारमस्त्रियाम् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
तन्मज्जा खपुरं क्लीबे कूर्परं गरिका स्त्रियाम् ।वारः खट्टः खरस्कन्धो ललनो बहुवल्कलः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
समूहविसरव्यूहसन्दोहनिवहप्रजाः ।स्तोमौघवारसंघातनिकरव्रातसंचयाः ॥ २०० ॥
अनुष्टुप्
genderपुंmasc.
… गह्वराणां तिमिरभ्राष्ट्रयोस्तथा ।राष्ट्रकुञ्जरतक्राणां वारकर्पूरयोरपि ॥ १७९ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
द्युर्वासकः[रः?] प्रतिदिवा नरि दण्डयाम-सूर्याङ्क-घस्र-घसरा अपि वास्र-वारौ ।****************** रोऽपि दिवसोऽह्नि दिवाव्यये स्तः ॥ १६ ॥
metre not recognisednearly वसन्ततिलका
genderपुंmasc.
समूहो निवहो व्यूहः संदोहः प्रकरो गणः ।ओघ-व्रज-व्रात-वार-विसर-व्रज-संचयाः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
प्रग्रहोपग्रहौ तत्र बन्दी स्त्रियांयद्वलद्बन्धनं शत्रुदारादिनः ।गुप्ति-कारे स्त्रियौ पुंसि वारो भवेत् ।तत्र बन्दी गृहं बन्धनस्यालयः ॥ ७७ ॥
स्रग्विणी
genderपुंmasc.
वलयमलयपूयारण्यसंख्यं हिरण्यंप्रमयसमयसाया जन्यवत्पारिहार्यम् ।शरशिशिरतुषारक्षीरनीहारवार-प्रवरशिखरराष्ट्रभ्राष्ट्रसीरान्धकाराः ॥ ५८ ॥
मालिनी
genderपुंक्लीm. n.
गोलोम्यां जटिलोग्रोग्रगन्धा तीक्ष्णा जया वचा ।वारं तु पिङ्गली वज्रं ह्रिबेरं दीर्घरोमकम् ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
विघ्नो व्यवायसंज्ञोऽसौ प्रत्यूहश्चान्तरायवत् ।प्रस्तावोऽवसरो वेला वारो प्रक्रमनाम च ॥ ३८२ ॥
अनुष्टुप्
genderपुंmasc.
तिमिराङ्गारराष्ट्राणि जीरमञ्जीरवासराः ।विहारवारकान्तारकासाराणि च नूपुरम् ॥ १५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कालो दिष्टोऽप्यनेहापि समयः सम इत्यपि ।घस्रो दिनः समा वारोऽहः क्लीबे तिथिरित्यपि ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
यूपस्तम्भो गेहबाहुर्द्वारं द्वार्मन्दिराननम् ।कपाटमररं वारमर्गला द्वारमुद्गरः ॥ १०९ ॥
अनुष्टुप्
genderक्लीneut.
प्रस्तावोऽवसरो वेला वारश्च समयः क्षणः ।आगोऽपराधो मन्तुश्च व्यलीकं विप्रियाहिते ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
ओघः संघो व्रजो व्रातो निकरः प्रकरश्चयः ।संदोहः संहतिः स्तोमो वारः समुदयो गणः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
लक्षहा मार्गणो वारो विशिखश्च शिलीमुखः ।चित्रपुङ्खश्च पत्रीषुः प्रदरो मर्मभेदनः ॥ १२७३ ॥
अनुष्टुप्
genderपुंmasc.
वारि वारं जलं क्षीरं नीरं नारं कुलीनसम् ।जीवनं जीवनीयं च भुवनं भवनं वनम् ॥ १८५४ ॥
अनुष्टुप्
genderक्लीneut.
चक्रवालश्चयश्चक्रं जातं जालं च मण्डलम् ।निवहो विसरो चारो व्रातो वृन्दं तथा व्रजेः ॥ २५६४ ॥
अनुष्टुप्
genderपुंmasc.doubtful
समयोऽवसरो वारो वेला च प्रक्रमः क्षणः ।प्रस्तावोऽन्तरमित्यष्टौ क्षणनामानि सन्ति वै ॥ २७४८ ॥
अनुष्टुप्
genderपुंmasc.
प्रतिपत् पक्षती स्त्री द्वे तदाद्यास्तिथयो द्वयोः ।पुंनपुंसकयोर्वारदिवसांशकवासराः ॥
अनुष्टुप्
genderपुंक्लीm. n.
वारौघनिकरोत्कारसमुदायसमुच्चयाः ।आकरः प्रकरः संघो निचयः प्रचयश्चयः ॥
अनुष्टुप्
genderपुंmasc.
निकरव्यूहसमूहव्रातनिकायौघविसरसंदोहाः ।झाटचयवारसंचयनिचयगणप्रकरपेटकप्रचयाः ॥ ८२७ ॥
गीतिः
genderपुंmasc.
दारो विदारणे हारो हृतौ वारः कदम्बके ।प्रवासो दूरगमनं परिसर्पः परिक्रया ॥ १७०७ ॥
अनुष्टुप्
genderपुंmasc.
पूगप्रकरसंघातविसरव्रातसंचयाः ।वारस्कन्धगणस्तोमसमवायचयव्रजाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वण्टो विभागो भागोंऽशः पादस्त्वंशश्चतुर्थकः ।कला तु षोडशो भागो वारस्त्ववसरः क्षणः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
वारस्त्ववसरे वृन्दे द्वारे सूर्यादिवासरे ।सुराश्रयणकं वारो वारी घटीभबन्धनी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 घ (wrong syllable)
पात्र्यां परागे गजपादरज्ज्वांस्यात्कर्करीपूरगतं तथैव ।वारस्तु सूर्यादिदिने समूहेद्वारे तथैवावसरे च न स्त्री ॥ ९ ॥
इन्द्रवज्रा
ना कुब्जवृक्षे गिरिशेऽथ षण्ढेमद्यस्य पात्रे परिकीर्तितश्च ।मुक्तादिशुद्धौ तरणे च तारःसन्मौक्तिके भे तु कनीनिकायाम् ॥ १० ॥
इन्द्रवज्रा
doubtful
वारः क्रियाभ्यावृत्तौ स्यात् समूहेऽवसरे तथा ।कालभेदे नृपादीनां चारे चेत्याह कश्चन ॥ १०८ ॥
अनुष्टुप्
कुब्जवृक्षे हरे वारो बन्धुरं रम्यनम्रयोः ।भ्रमरः कामुके भृङ्गे भरोऽतिशयभारयोः ॥ ३६६ ॥
अनुष्टुप्