आशुग
āśugaपुं · masc.In 14 kośas: 23 synonym verses, 8 as a nānārtha head word.
बाणे पृषत्कविशिखौ खगगार्ध्रपक्षौ काण्डाशुगप्रदरसायकपत्त्रवाहाः ।पत्त्रीष्वजिह्मगशिलीमुखकङ्कपत्त्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ७७८ ॥
वसन्ततिलका
genderपुंmasc.
वायुः समीरसमिरौ पवनाशुगौ नभःश्वासो नभस्वदनिलश्वसनाः समीरणः ।वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः कम्पाङ्कनित्यगतिगन्धवहप्रभञ्जनाः ॥ ११०६ ॥मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः ।मारुतः स्पर्शनो दैत्यदेवो झञ्झा स वृष्टियुक् ॥ ११०७ ॥
metre not recognised
genderपुंmasc.
श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६१ ॥पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः ।समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥ ६२ ॥नभस्वद्वातपवनपवमानप्रभञ्जनाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
genderपुंmasc.
पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।
अनुष्टुप्
genderपुंmasc.
शरमार्गणबाणेषुसायकानिलमारुतः ।समीरणाक्षपवनाः पंचवातास्तथाशुगाः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
सायकोऽजिह्मगो बाणः पृषत्कोपि शिलीमुखः ।कलम्बो मार्गणो रोपः पत्री स्यात्खग आशुगः ॥ २६७ ॥
अनुष्टुप्
genderपुंmasc.
पृषदश्वो गन्धवहो जगत्प्राणः समीरणः ।सदागतिर्गन्धवाहो निःपावश्चाशुगोऽनिलः ॥ ४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
genderपुंmasc.
वोलप्रवालमुरजद्विपानामभ्रपङ्कयोः ।सेवध्यम्बुधिमन्थानां विषयस्याशुगस्य च ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
मरुन्-मरुत-मारुत-श्वसन-गन्धवाहानिलाःसमीर-समिराशुग-क्षिपणवोऽङ्कतीश्चाञ्चतिः ।समीरण-सदागती वहति-शुक्षि-वाताहतिर्-नभस्वति महाबलः पवन-धूक-वीकाभृमिः ॥ १५३ ॥
पृथ्वी
genderपुंmasc.
शरस्तु न स्त्रियां रोपो विशिखः खग आशुगः ।अजिह्मगो गार्धपक्षः पत्रि-मार्गण-सायकाः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
प्रकम्पनाशुगौ गन्धवहः समिर इत्यपि ।नभःश्वासोऽहिकान्तोऽपि दैत्यदेवो महाबलः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
लक्ष्यं शरव्यकं वेध्यं बाणनाम शराशुगौ ।काण्डः पत्रीषुनामाथ पत्रवाहश्च सायकः ॥ ३८३ ॥
अनुष्टुप्
genderपुंmasc.
मातलिर्माकलिः शित्रो देवसारथिराशुगः ।जयन्तो विजयो मोदी सुन्दरः सुखलोलुपः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
क्षेपण्यश्वसनो मारुत्पृषदश्वो मलिम्लुचः ।स्पर्शश्च स्पर्शनो वीरुदाशुगश्च प्रभञ्जनः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
अहिप्रियो दैत्यदेव आशुगः स्पर्शनोऽस्य तु ।पुत्रौ भीमहनूमन्तौ झञ्झा वृष्टियुतो मरुत् ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
निषङ्गस्तूणतूणीरावुपासङ्गस्तथेषुधिः ।इषुर्बाणः शरः पत्री काण्डो विशिख आशुगः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कङ्कपत्रः पृषत्कश्च वीरशङ्कुश्च सायकः ।आशुगोऽजिह्मगो रोपो गार्ध्रपक्षः शरः खगः ॥ १२७२ ॥
अनुष्टुप्
genderपुंmasc.
आशुगः क्षिपणश्चाऽहिकान्तो गन्धवहस्तथा ।गन्धवाहो नभःश्वासो नभस्वान् श्वसनोऽनिलः ॥ १९४२ ॥
अनुष्टुप्
genderपुंmasc.
पृषदश्वो मातरिश्वा समीरः पवनानिलौ ।खश्वास आशुगो बाहो धूलिध्वजः फणिप्रियः ।मरुत्वातिर्नभः प्राणो भोगिकान्तः सदागतिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 4, syllable 3 ध्व (wrong syllable)
genderपुंmasc.
कलम्वः स्याद्वीरतरो मार्गणोऽप्याशुगः खगः ।तूणक्ष्वेडः पृषत्केषुरोपकाण्डविपर्यकाः ॥
अनुष्टुप्
genderपुंmasc.
प्रभञ्जनजगत्प्राणपांसुकेतुप्रकम्पनाः ।दैत्यदेवनभोजन्मध्वजप्रहरणाशुगाः ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
पत्रिशरविशिखसायकबाणपृषत्काशुगप्रदराः ।काण्डखगरोपमार्गणनालीकाधोमुखकलम्बाः ॥ १३३० ॥
उपगीतिः
genderपुंmasc.
आशुगः पवनः स्पर्शः पवमानः प्रभञ्जनः ।मरुद्धूलिध्वजो मर्कः समीरोऽग्निसखश्चलः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
अपाङ्गो लोचनान्ते स्यात् तिलके चाङ्गहीनके ।आभोगः पूर्णतायान्तु यत्ने छत्रे च वारुले ॥आयोगः व्यापृतौ तीरे गन्धमाल्योपहारके ।आशुगः पवने बाणे तीव्रे सत्वरगन्तरि ॥
अनुष्टुप्