प्रदर
pradaraपुं · masc.In 12 kośas: 8 synonym verses, 9 as a nānārtha head word.
बाणे पृषत्कविशिखौ खगगार्ध्रपक्षौ काण्डाशुगप्रदरसायकपत्त्रवाहाः ।पत्त्रीष्वजिह्मगशिलीमुखकङ्कपत्त्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ७७८ ॥
वसन्ततिलका
genderपुंmasc.
कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
स्वागता
genderपुंmasc.
कुणपं ग्रन्थिलं क्षीणमलतुल्यादिकं च तत् ।प्रदरोऽस्त्री चतुर्धा स्यादथ योनिसमुद्भवाः ॥ ३५४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्याद्गार्द्ध्रकङ्कयोः पत्रो वाजः प्रदर इत्यपि ।स्थूलदण्डो विपाटः स्यादस्त्रार्थात्कण्टकार्थकः ॥ २६८ ॥
अनुष्टुप्
genderपुंmasc.
कङ्कपत्रः पत्रवाहः पृषत्कः सायकश्च सः ।कलम्बः प्रदरोऽस्त्रीकौ बाण-काण्डाविषुस्त्रिषु ॥ २२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
लक्षहा मार्गणो वारो विशिखश्च शिलीमुखः ।चित्रपुङ्खश्च पत्रीषुः प्रदरो मर्मभेदनः ॥ १२७३ ॥
अनुष्टुप्
genderपुंmasc.
पत्रिशरविशिखसायकबाणपृषत्काशुगप्रदराः ।काण्डखगरोपमार्गणनालीकाधोमुखकलम्बाः ॥ १३३० ॥
उपगीतिः
genderपुंmasc.
आहावश्च निपानञ्च कूपपार्श्वजलाश्रयः ।प्रदरस्तूदपानोऽस्त्री बद्धांबु स्रोतसो धृतम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
मूर्च्छायामपि कल्पान्ते श्लेषे चापि क्षयेऽपि च ।प्रदरस्तु भवेद्भङ्गगबाणयोः स्त्रीरुजान्तरे ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रक्तस्रुत्यात्मके दीर्णौ प्रपञ्चस्तु विपर्यये ।विस्तारे सञ्चये च स्यात् प्रवेष्टस्तु भुजे भवेत् ॥ १३७ ॥
अनुष्टुप्
meaningsदीर्ण
doubtful