कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पृषत्क

pṛṣatkaपुं · masc.

In 11 kośas: 11 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.778 · p. 32
बाणे पृषत्कविशिखौ खगगार्ध्रपक्षौ काण्डाशुगप्रदरसायकपत्त्रवाहाः ।पत्त्रीष्वजिह्मगशिलीमुखकङ्कपत्त्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ७७८ ॥
वसन्ततिलका
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.146
पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.466 · p. 53
कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
स्वागता
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.267 · p. 118
सायकोऽजिह्मगो बाणः पृषत्कोपि शिलीमुखः ।कलम्बो मार्गणो रोपः पत्री स्यात्खग आशुगः ॥ २६७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.22 · p. 265
कङ्कपत्रः पत्रवाहः पृषत्कः सायकश्च सः ।कलम्बः प्रदरोऽस्त्रीकौ बाण-काण्डाविषुस्त्रिषु ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.29 · p. 37
पृषत्कः सायको रोपः कङ्कपत्रः शिलीमुखः ।कलम्बाजिह्मगखगा नाराचश्च क्षुरप्रवत् ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1272 · p. 200
कङ्कपत्रः पृषत्कश्च वीरशङ्कुश्च सायकः ।आशुगोऽजिह्मगो रोपो गार्ध्रपक्षः शरः खगः ॥ १२७२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.335 · p. 133
कलम्वः स्याद्वीरतरो मार्गणोऽप्याशुगः खगः ।तूणक्ष्वेडः पृषत्केषुरोपकाण्डविपर्यकाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.274 · p. 211
बाणे पृषत्कस्तात्कान्तः सायकः सायवत्सरः ।शरः शरुः स्वरुर्भल्लो भल्लिश्चापि कडम्बयुक् ॥ २७४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1330 · p. 162
पत्रिशरविशिखसायकबाणपृषत्काशुगप्रदराः ।काण्डखगरोपमार्गणनालीकाधोमुखकलम्बाः ॥ १३३० ॥
उपगीतिः
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.179 · p. 118
निषंग इषुधिर्न क्ली पत्री तु विशिखः खगः ।पृषत्को रोपणो बाणः कलंबो मर्मभेदनः ॥ १७९ ॥
अनुष्टुप्
genderपुंmasc.

पृषत्क as a meaning in nānārtha verses