मार्गण
mārgaṇaपुं · masc.In 17 kośas: 27 synonym verses, 6 as a nānārtha head word, 7 as a meaning of another word.
अर्थव्ययज्ञः सुकलो याचकस्तु वनीपकः ॥ ३८७ ॥मार्गणोऽर्थी याचनकस्तर्कुकोऽथार्थनैषणा ।अर्दना प्रणयो याच्ञा याचनाध्येषणा सनिः ॥ ३८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
genderपुंmasc.
बाणे पृषत्कविशिखौ खगगार्ध्रपक्षौ काण्डाशुगप्रदरसायकपत्त्रवाहाः ।पत्त्रीष्वजिह्मगशिलीमुखकङ्कपत्त्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ७७८ ॥
वसन्ततिलका
genderपुंmasc.
पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।
अनुष्टुप्
genderपुंmasc.
genderविadj.
genderक्लीneut.
कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
स्वागता
genderपुंmasc.
शरमार्गणबाणेषुसायकानिलमारुतः ।समीरणाक्षपवनाः पंचवातास्तथाशुगाः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
सायकोऽजिह्मगो बाणः पृषत्कोपि शिलीमुखः ।कलम्बो मार्गणो रोपः पत्री स्यात्खग आशुगः ॥ २६७ ॥
अनुष्टुप्
genderपुंmasc.
यद्भविष्यो दैवपरस्तर्कुकस्तुवनीयकः ।स्याद्याचको याचनको मार्गणोऽथ शुभार्थिनि ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दै (wrong syllable)
genderविadj.
शरस्तु न स्त्रियां रोपो विशिखः खग आशुगः ।अजिह्मगो गार्धपक्षः पत्रि-मार्गण-सायकाः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
अर्थव्ययज्ञः सुकलो याचकस्तु वनीयकः ।वनीपको मार्गणोऽर्थी स्तो याचनक-तर्कुकौ ॥ २० ॥
अनुष्टुप्
genderविadj.
अन्वेषणान्वेक्षण-मार्गणानिसंवीक्षणं स्यान्मृगणा मृगश्च ।गवेषणं ना विचयोऽथ षण्ढेसंस्थानमाहुः किल संनिवेशे ॥ ४२ ॥
उपजातिः
genderक्लीneut.
शिलीमुखः शरो बाणो मार्गणो रोपणः कणः ।इषुः काण्डं क्षुरप्रं च नाराचं तोमरं खगः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
दानं विसर्जनं त्याग उत्सर्जनविहायिते ।मार्गणो याचकोऽर्थी च तर्कुकोऽपि वनीपकः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
कलम्बमार्गणौ रोपः कङ्कपत्रशिलीमुखौ ।अजिह्मगश्चित्रपुङ्ख एषणः सर्वलौहकः ॥ ३८४ ॥
अनुष्टुप्
genderपुंmasc.
याचके स्याद्याचकोऽपि मार्गणो वानरोऽपि च ।अर्थी वनीपको मायी कष्टजीवी कथाकरः ॥ ६७२ ॥
अनुष्टुप्
genderपुंmasc.
सायकेषू कङ्कपत्रो नाराचो मार्गणाभिधः ।तूणीर इषुधिस्तूणी निषङ्गः सायकाश्रयः ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.
याचकस्तर्कुको ग्राही मार्गणोऽर्थी वनीपकः ।धर्मः पुण्यं वृषः श्रेयः सुकृतं शुभकर्म च ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
सुकलोऽर्थव्ययज्ञः स्याद् वनीपकस्तु मार्गणः ।तर्कुको याचकश्वाऽर्थी याचनकस्तथैव च ॥ ५७५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable); pāda 4, syllable 3 न (wrong syllable)
genderपुंmasc.
लक्षहा मार्गणो वारो विशिखश्च शिलीमुखः ।चित्रपुङ्खश्च पत्रीषुः प्रदरो मर्मभेदनः ॥ १२७३ ॥
अनुष्टुप्
genderपुंmasc.
कलम्वः स्याद्वीरतरो मार्गणोऽप्याशुगः खगः ।तूणक्ष्वेडः पृषत्केषुरोपकाण्डविपर्यकाः ॥
अनुष्टुप्
genderपुंmasc.
दरिद्रो दुर्विधो दीनो निस्वो दुर्गत इत्यपि ।याचकोऽर्थी याचनको मार्गणश्च वनीयकः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
genderपुंmasc.
मार्गणं मृगणा मार्गो भवेद्विचयनं मृगः ।संवीक्षणञ्चापि हृतद्रव्यतात्पर्ययाचने ॥
अनुष्टुप्
genderक्लीneut.
पत्रिशरविशिखसायकबाणपृषत्काशुगप्रदराः ।काण्डखगरोपमार्गणनालीकाधोमुखकलम्बाः ॥ १३३० ॥
उपगीतिः
genderपुंmasc.
प्रसव्यो निघ्न आयत्तो वशोऽधीनश्च गृह्यकः ।स्युर्मार्गणे याचनकयाचकार्थिवनीयकाः ॥ १६२९ ॥
अनुष्टुप्
genderविadj.
गोतमं रथायुधकं कोसलं गाण्डिवोऽस्त्रियाम् ।पातनं मार्गणं चेति द्विगुणानि यथोत्तरम् ॥ १७४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अपि दुस्स्थक्रूरदीननीचदुर्गतदुर्विधाः ।मार्गणः स्याद्याचनको याचकोऽर्थी वनीपकः ॥ ६० ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्या (wrong syllable)
genderविadj.
मार्गण as a meaning in nānārtha verses
- कोषकल्पतरु परि-इष्हृदयप्रीतिनिदानेच्छार्थे स्याद्रोचते तद्वत् । आशंसते तथाशास्ते नाथते च शुभैषणे ॥ इच्छति स्यात्प्रतिज्ञाने प्राकाम्ये मार्गणे परेः । स्यादात्मनेपदे गर्धयतिर्वञ्चयतिस्तथा ॥ प्रतारणेऽर्थेऽन्यत्रोभौ परस्मैप[184a]दिनौ मतौ । चतति चदत्यर्थयते नाथति वनुते च नाधतेऽर्दति च । याचति च याचते स्याद्विथते स्याद्वेथते तद्वत् । स्याद्भिक्षते च याच्ञावाचिन एते च धातवो गदिताः । जिघ्रति शिङ्घति गन्धग्रहणे धमति स्मृतं धमने । आङः स्यादुदरापूरे ध्मातिः शब्देऽप्युपात्परः । प्रादर्थिः प्रार्थनाघातप्रेरणास्वरिसंरुधि ॥ व्रतचारे प्रतेर्विघ्नेऽर्थवैरूप्ये च वै द्विष्ये । समो वनोतिरालो* तथा प्रोक्तो वशीकृतौ ॥ Koṣakalpataru 3.5.25
- कोषकल्पतरु परीष्टिवसनादिना विशुद्धे संसृष्टं संगते च स्यात् । अवटुस्त्ववटे कूपे कृकाटिकायां परीष्टिस्तु । परिचर्यामार्गणयोः प्राकाम्येऽन्वेषणे च स्त्री । गन्धोल्यामपि हंस्यां वरटा त्रिपुटा त्रुटित्रिवृतोः ॥ ४० ॥ Koṣakalpataru 6.10.40
- नानार्थार्णवसंक्षेप मार्गावैजयन्त्यां नृस्त्रियोस्तु मार्गा मार्गणकर्मणि । मार्गी तु पौर्णमास्यां स्त्री मार्गशीर्ष्यां त्रिषु त्वियम् ॥ ९९० ॥ Nānārthārṇavasaṃkṣepa 2.5.990
- नानार्थार्णवसंक्षेप शरइन्द्रसंज्ञतृणस्तम्बे हिंसामार्गणयोरपि । क्ली तु ह्रीबेरजलयोः शतं त्वस्त्री बहुन्यपि ॥ १३२० ॥ Nānārthārṇavasaṃkṣepa 2.5.1320
- नानार्थार्णवसंक्षेप परीष्टिपद्धतिः पथि पतौ च परीष्टिस्तु परीक्षणे । मार्गणे परिचर्यायामभितो यजनेऽपि च ॥ ५३ ॥ Nānārthārṇavasaṃkṣepa 3.1.53
- नानार्थार्णवसंक्षेप कादम्बइक्षुभेदेऽथ कादम्बः कलहंसे द्वयोरयम् । कदम्बसम्बन्धिनि तु त्रिषु स्यान्मार्गणे तु ना ॥ ४३७ ॥ Nānārthārṇavasaṃkṣepa 4.437
- वैजयन्ती परीष्टिपरीष्टिर्मार्गणे भक्तौ पङ्क्तौ पथि च पद्धतिः । प्रतिष्ठे स्थितिमाहात्म्ये प्रतती ततिवीरुधौ ॥ १५ ॥ Vaijayantī 7.2.15