कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सायक

sāyakaपुं · masc.

In 19 kośas: 19 synonym verses, 7 as a nānārtha head word, 13 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.778 · p. 32
बाणे पृषत्कविशिखौ खगगार्ध्रपक्षौ काण्डाशुगप्रदरसायकपत्त्रवाहाः ।पत्त्रीष्वजिह्मगशिलीमुखकङ्कपत्त्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ७७८ ॥
वसन्ततिलका
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.62 · p. 6
नाराचो लोहनालोऽस्त्रसायकोऽसिस्तु सायकः ॥ १४२ ॥श्रीगर्भो विजयः शास्ता व्यवहारः प्रजाकरः ।धर्मपालोऽक्षरो देवस्तीक्ष्णकर्मा दुरासदः ॥प्रसङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः ।करपालो विशसनस्तीक्ष्णधारो विषाग्रजः ॥धर्मप्रचारो धाराङ्गो धाराधरकरालिकौ ॥ १४३ ॥चन्द्रभासश्च शस्त्रोऽथ क्षुर्यस्त्री कोशशायिका ।पत्त्रं च धेनुका पत्त्रपाले तु हुलमातृका ॥ १४४ ॥कुट्टन्ती पत्त्रफलाथ शक्तिः कासूर्महाफला ।अष्टतालायता सा च पट्टिसस्तु खुरोपमः ॥ १४५ ॥लोहदण्डस्तीक्ष्णधारो दुःस्फोटाराफलौ समौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.466 · p. 53
कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
स्वागता
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.23 · p. 2
शरमार्गणबाणेषुसायकानिलमारुतः ।समीरणाक्षपवनाः पंचवातास्तथाशुगाः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.267 · p. 118
सायकोऽजिह्मगो बाणः पृषत्कोपि शिलीमुखः ।कलम्बो मार्गणो रोपः पत्री स्यात्खग आशुगः ॥ २६७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.270 · p. 118
कदम्बसायकादम्बा वाजी च स्यादिषुर्द्वयोः ।प्रक्ष्वेडनो ना नाराचोप्यस्त्रं षण् सायकः पुमान् ॥ २७० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.280 · p. 120
तूणी तूणा च तूणीर उपासङ्गो निषङ्गकः ।चन्द्रहासस्त्वसिः पुंसि प्रवालः सायकोऽपि च ॥ २८० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.338 · p. 286
शरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः ।इक्षुरिक्षुरिकापत्रो विशिखोऽथ महाशरः ॥ ३३८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 265
शरस्तु न स्त्रियां रोपो विशिखः खग आशुगः ।अजिह्मगो गार्धपक्षः पत्रि-मार्गण-सायकाः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.22 · p. 265
कङ्कपत्रः पत्रवाहः पृषत्कः सायकश्च सः ।कलम्बः प्रदरोऽस्त्रीकौ बाण-काण्डाविषुस्त्रिषु ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.383 · p. 149
लक्ष्यं शरव्यकं वेध्यं बाणनाम शराशुगौ ।काण्डः पत्रीषुनामाथ पत्रवाहश्च सायकः ॥ ३८३ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.225 · p. 16
सायकेषू कङ्कपत्रो नाराचो मार्गणाभिधः ।तूणीर इषुधिस्तूणी निषङ्गः सायकाश्रयः ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.29 · p. 37
पृषत्कः सायको रोपः कङ्कपत्रः शिलीमुखः ।कलम्बाजिह्मगखगा नाराचश्च क्षुरप्रवत् ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1272 · p. 200
कङ्कपत्रः पृषत्कश्च वीरशङ्कुश्च सायकः ।आशुगोऽजिह्मगो रोपो गार्ध्रपक्षः शरः खगः ॥ १२७२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1285 · p. 201
मण्डलाग्रो मनुज्येष्ठो धर्मपालः प्रजाकरः ।निस्त्रिंशश्चन्द्रहासोऽपि चन्द्रभासश्च सायकः ॥ १२८५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.334 · p. 133
उपासनञ्च खुरली शास्त्राभ्यासो विकर्षणम् ।वाणः पत्री चित्रपुङ्खः सायको विशिखः शरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.274 · p. 211
बाणे पृषत्कस्तात्कान्तः सायकः सायवत्सरः ।शरः शरुः स्वरुर्भल्लो भल्लिश्चापि कडम्बयुक् ॥ २७४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1330 · p. 162
पत्रिशरविशिखसायकबाणपृषत्काशुगप्रदराः ।काण्डखगरोपमार्गणनालीकाधोमुखकलम्बाः ॥ १३३० ॥
उपगीतिः
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.53 · p. 69
पत्रवाहो विकर्षोऽथ तीरं विज्जालसायके ।लोहनालस्तु नाराचः प्रसरः काण्डगोचरः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.2
आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ।पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ २ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास कपादः Dharaṇikośa 1.1.6 · p. 3
आनकः पटहे भेर्यां सायकः शरखड्गयोः ।अनूकं च कुले शीले अनीकं मृधसैन्ययोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.44 · p. 141
सर्वलिङ्गि भकनीनिकयोः स्या-द्वारकस्तु तुरगेऽश्वगतौ च ।स्यान्निषेद्धरि विशेष्यसलिङ्गसायकस्तु विशिखेऽपि कृपाणे ॥ ४४ ॥
स्वागता
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1952 · p. 217
विश्वामित्रेण दृष्टे स्यादृग्भेदेऽनामिकाङ्गुलौ ।सायकस्तु शरे खड्गे वज्रे ना त्रिस्तु (घा ? सा)तरि ॥ १९५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.150 · p. 185
सायकस्तु शरे शङ्खे सायिका च क्रमस्थितौ ।स्थासको ना तु चार्चिक्ये फेनादिबुद्बुदेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2186 · p. 264
संभ्रमोऽत्यादरे भीतौ सायकः शरखड्गयोः ।सामर्थ्ये शक्तिसंबन्धौ समितिर्युद्धसंसदोः ॥ २१८६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.77 · p. 245
संघर्षौ घर्षणं स्पर्धा शरखड्गौ तु सायकौ ।समिकौ वृक्षवल्मीकौ सृदाकू व्याघ्रपावकौ ॥ ७७ ॥
अनुष्टुप्

सायक as a meaning in nānārtha verses

  • कोषकल्पतरु सृकस्याद्ग्रन्थिपर्णे च शुकं शिरीषे द्विकस्तु काकेऽपि च कोकनाम्नि । ईहामृगे स्यात्करटे वृकोऽथ सृकः समीरोत्पलसायकेषु ॥ ४ ॥ Koṣakalpataru 6.1.4
  • कोषकल्पतरु पत्रिन्पत्री खगे श्येनशरद्रुमेषु स्यात्सायके स्यन्दनसंस्थिते वा । वज्री शरेऽश्वे षडभिज्ञ इन्द्रे विहंगमे कोकभुजंगयोस्तु ॥ ७६ ॥ Koṣakalpataru 6.21.76
  • कोषकल्पतरु पुष्करहस्तिहस्ताग्रके द्वीपतीर्थान्तरे वारिजे चौषधेऽसेः फले सायके । पुंसि रागो[रगे]वृष्णिपक्ष्यन्तरे सङ्गरस्तु प्रतिज्ञाक्रियाकारयोः ॥ ३२ ॥ Koṣakalpataru 6.27.32
  • नानार्थार्णवसंक्षेप खड्गचातके पक्षिमात्रे च द्वे त्रिर्व्योमादिगामिनि । खड्गो ना सायके द्वे तु गण्डकाख्यमृगान्तरे ॥ ३०१ ॥ Nānārthārṇavasaṃkṣepa 2.5.301
  • नानार्थार्णवसंक्षेप तरवारितरवारिः स्त्रियां यष्टिनामधेयायुधान्तरे । पुमांसं सायके प्राह शैषिकोऽथोष्णदीधितेः ॥ २५० ॥ Nānārthārṇavasaṃkṣepa 6.250
  • शब्दरत्नावली कादम्बकलम्बी शाकभेदे स्त्री कदम्बे च शरे पुमान् । कादम्बः पक्षिभेदे स्यात्सायके च भवेत्पुमान् ॥ Śabdaratnāvalī 7.23.10
  • शब्दरत्नावली स्वरुस्वरुर्व्रजे यूपखण्डे सायकेऽप्यध्वरे पुमान् । सद्रं (?) वनसदादानयज्ञाच्छादनकैतवे । सरः पुंसि गतौ तुङ्गे दद्यग्रे च निगद्यते ॥ Śabdaratnāvalī 7.27.47
  • शब्दरत्नावली किंशारुकान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने । किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥ किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे । किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥ कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः । कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥ कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते । कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥ Śabdaratnāvalī 7.27.63
  • शब्दरत्नाकर वाजिन्विधुर्निशाकरे विष्णौ वाज्यश्वे सायके खगे । वयः क्लीबे खगे प्राये वालः पुच्छे शिरोरुहे ॥ १९९४ ॥ Śabdaratnākara 4.1.1994
  • शब्दरत्नाकर कादम्बकबन्धोऽस्त्र्यपमूर्ध्न्यङ्गे षण्डेंऽभस्याशरे पुमान् । कादम्बः सायके हंसे कदम्बः शरभूरुहोः ॥ २०६९ ॥ Śabdaratnākara 4.1.2069
  • शब्दरत्नाकर नालीकनालीकः सायके पुंसि नलिने तु नपुंसके । निवहो वायुभेदेऽपि नरको निरयेऽसुरे ॥ २११७ ॥ Śabdaratnākara 4.1.2117
  • शब्दरत्नाकर गोद्वयोः सायकवज्राम्बुस्वर्गयज्ञेषु लोम्न्यपि । ज्या शिज्जिनीवसुधयोस्त्विड्ज्वालादीप्तिकान्तिषु ॥ २२४२ ॥ Śabdaratnākara 4.1.2242
  • तन्त्राभिधान चना चामरादिकः कूर्मः शूली चन्द्रक-सायकौ । भूभेत्ता चित्रचारी च चञ्चलश्चा-र्णको मतः ॥ २३ ॥ Tantrābhidhāna 6.23