All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
अन्तरिक्षकाण्डः · मेघाध्यायः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यामन्तरिक्षकाण्डे ज्योतिरध्यायः
मेघोऽब्दो जलदो नभ्राट् तटित्वाञ्जलमुग्घनः ।धाराधरो वारिधरो धूमयोनिर्वलाहकः ॥ १ ॥
2.2.1 · p. 25
अनुष्टुप्
तटित्पतिः पयोगर्भो नदनुर्मुदिरोंऽबुभृत् ।कादंबिनी मेघमाला काली कृष्णनवांबुदः ॥ २ ॥
2.2.2 · p. 25
अनुष्टुप्
इन्द्रायुधं त्विन्द्रधनुस्तद्दीर्घमृजु रोहितम् ।ऐरावतं च विद्युत्तु चञ्चला चपला चला ॥ ३ ॥
2.2.3 · p. 25
अनुष्टुप्
आकालिकी शतावर्ता जलदा जलपालिका ।क्षणांशुः क्षणिका चंपा तटिद्दीप्ता शतह्रदा ॥ ४ ॥
2.2.4 · p. 25
अनुष्टुप्
सौदामन्यैरावती च तद्भेदेऽप्यन्तिमत्रयम् ।गर्जितं स्तनितं शीर्णवज्रे ह्रादुनयः स्त्रियः ॥ ५ ॥
2.2.5 · p. 25
अनुष्टुप्
वातपातस्तु निर्घातश्चडकोऽप्यशनिर्न षण् ।स्फूर्जथुर्वज्रनिष्पेषो न स्त्री वज्रोऽशनिर्न षण् ॥ ६ ॥
2.2.6 · p. 25
अनुष्टुप्
वर्षोऽस्त्री वर्षणं वृष्टिः शीकरोऽस्त्र्यंभसः कणः ।घनोपलस्तु करकः पुञ्जिका मटचीति च ॥ ७ ॥
2.2.7 · p. 25
अनुष्टुप्
विप्रुट् स्त्री पृषतो बिन्दुः स्तोको द्रप्सः पृषन्न पुम् ।अनावृष्टिरवग्राहो मेघच्छन्नेऽह्नि दुर्दिनम् ॥ ८ ॥
2.2.8 · p. 25
अनुष्टुप्
अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ।प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ ९ ॥
2.2.9 · p. 25
अनुष्टुप्
कुहिढोऽस्त्री कुहेलिः स्त्री कुहेडिर्धूमिका त्रयी ॥ ९.५ ॥
2.2.10 · p. 25