जलद
jaladaपुं · masc.In 15 kośas: 10 synonym verses, 5 as a nānārtha head word, 16 as a meaning of another word.
नभ्राट्तडित्वान्मुदिरो घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः ।जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जलात् ॥ १६४ ॥
upajati mixed
genderपुंmasc.doubtful
उशीरं वीरणीमूलं ह्रीवेरं वालकं जलम् ।मुस्तकः कुरुविन्दः स्याद् गुन्द्रा च जलदाह्वयः ॥ ६२२ ॥
अनुष्टुप्
genderपुंmasc.
मेघोऽभ्रो जलदो दभ्रान् तडित्वान् जलली जली ।कमली कमलाः कन्दो घनश्चाथ घनाघनः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
अभ्रो मेघो वारिवाहो जलदो धूमसम्भवः ।जलमुक् पुष्पदः कन्दो बलाहकवलाहकौ ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
विततश्चन्द्रपर्यायजनको यादसां पतिः ।रत्नाकरोऽपि जलदस्तद्भेदा लवणादयः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
बालग्रहाः पूतनाद्या अथ मेघो बलाहकः ।जलपर्यायतो वाहधरमुग्दभृतः पुनः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
जलदो जलवाहोऽभ्रं स्तनयित्नुर्बलाहकः ।धाराधरो जलधरपर्जन्यगडयेरकाः ॥ १५५ ॥
अनुष्टुप्
genderपुंmasc.
अभ्रं तडित्वान्मुदिरो जलमुग्जलदोऽम्बुभृत् ।धाराधरो जलधरो धूमयोनिर्बलाहकः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
जीमूतो जलदश्चाऽभ्रं जलमुक् जलदस्तथा ।वारिमुक् वारिवाहश्च वारिधरश्च वारिदः ॥ १६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
genderपुंmasc.
मेघोऽब्दो जलदो नभ्राट् तटित्वाञ्जलमुग्घनः ।धाराधरो वारिधरो धूमयोनिर्वलाहकः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
शङ्खे स्याज्जलजं तु क्ली पद्मे द्वे मत्स्यकूर्मयोः ।जलदस्तु पुमान् मेघे जलदा विद्युति स्त्रियाम् ॥ ७६८ ॥
अनुष्टुप्
meaningsमेघ
जलप्रदे तु त्रिः क्ली तु जतुकं हिङ्गुनि स्मृतम् ।स्त्रियां त्वजिनपत्राख्यक्षुद्रपक्ष्यन्तरे स्मृता ॥ ७६९ ॥
अनुष्टुप्
meaningsजलप्रद
जलद as a meaning in nānārtha verses
- धरणिकोश नागनागाः स्युर्गजकाद्रवेयजलदा नागी गजी च स्मृता नागः सीसकरङ्गयोश्च करणे सूर्येन्दुयोगोद्भवे । दुराचारिणि नागकेसरतरौ नागः स्मृतो मुस्तके [16] पुन्नागेऽपि च नागदन्तक इति श्रेष्ठे पदानुत्तरः ॥ Dharaṇikośa 3.3.4
- धरणिकोश जीमूतआयस्तः क्लिशितो जितः प्रतिहतः क्षुब्ध[श्च] कोपान्वितः अव्यक्तास्त्वपरिस्फुटा इव वचाश्चाव्यक्त ईशः स्मृतः । जीमूतो जलदे गिरौ धृतिकरे स्याद्देवताडद्रुमे आनर्तोऽपि च नृत्यसारिणि ? जले देशप्रभेदे स्मृतः ॥ Dharaṇikośa 15.1.26
- कोषकल्पतरु बलाहकअरुणसैर्यककचोरयोः पुनः कुरबको दनुजेऽपि बलाहकः । जलदरोगभिदोर्भ्रमरे पुन- र्भ्रमरको गिरिकेऽलिककुन्तले ॥ २८ ॥ Koṣakalpataru 6.1.28
- कोषकल्पतरु वाणिभेद्याभः कुकरे गुवाकुभिदि तु झूणिः स्त्रियां दुःसुर- स्तुत्यां चाथ कपर्दकीयशतके भाष्येऽपि चूर्णिः स्त्रियाम् । भूर्णिः स्त्री भुवि पोषके तु परवज्जूर्णिस्तु कान्ता ज्वरे संतापिन्यपरोपमोऽथ जलदे मूल्ये च वाणिः पुमान् ॥ १६ ॥ Koṣakalpataru 6.15.16
- कोषकल्पतरु सुदामन्स वाच्यवच्छाश्वत निश्चितेषु पुंस्यर्यमार्के पितृदैवते च । [22b] स्त्री सूर्यभक्तौषधभेदके स्या- दथो सुदामा जलदे च शैले ॥ ३३ ॥ Koṣakalpataru 6.21.33
- कोषकल्पतरु वामस्त्री तु क्षा[31a]न्तिभुवोर्गदे गदभिदि स्यादाममस्त्री त्रये- ऽपक्वेऽथ प्रहरे च संयमगतो यामोऽथ वामो हरे । चेतोजे जलदे धने तु चरमे, सव्ये प्रतीपेऽवरे त्रय्यां, योषिति रासभीषु करभीष्वश्वाशृगाल्योः स्त्रियाम् ॥ ६० ॥ Koṣakalpataru 6.25.60
- कोषकल्पतरु तोयधारवणिजि तुलाधारः स्याद्राशौ तद्वत्तुलायाश्च । जलदे तु तोयधारः सुतिषणे (?) योषिति प्रोक्तः ॥ Koṣakalpataru 6.27.213
- नानार्थार्णवसंक्षेप अभ्ररूप्यस्याञ्जनभेदे स्युर्बदरस्य तु नागरे । अथाभ्रशब्दो जलदे व्योममुस्तकयोरपि ॥ २ ॥ Nānārthārṇavasaṃkṣepa 2.3.2
- नानार्थार्णवसंक्षेप गिरिणगालवस्त्वृषिभेदे च लोध्रे च गिरिणः पुनः । आचार्ये जलदे ग्रामे रभसस्त्वाह गुण्डकः ॥ ८० ॥ Nānārthārṇavasaṃkṣepa 3.2.80
- शब्दरत्नावली सेचकसेचकः पुंसि जलदे सेककर्तरि वाच्यवत् । सैनिकोऽपि च सेनायाः रक्षके समवेतके ॥ Śabdaratnāvalī 7.1.153
- शब्दरत्नावली विहङ्गविसर्गस्तागदानादौ विसृष्टे मलनिर्गमे । विहङ्गो विहगे बाणे जलदे चन्द्रसूर्ययोः ॥ Śabdaratnāvalī 7.3.48
- शब्दरत्नावली कन्दअब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥ अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् । कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥ कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके । क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥ गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा । छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥ छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) । नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥ नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् । नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥ पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥ Śabdaratnāvalī 7.18.2
- शब्दरत्नाकर जीमूतजीमूतो जलदे शैले जम्बूकः क्रोष्टुपाशिनोः । जामाता तु श्वेततिले जम्बालौ पङ्कशैवलौ ॥ २०९४ ॥ Śabdaratnākara 4.1.2094
- त्रिकाण्डशेष शारदमेनादस्तु त्रयश्छागमार्जारकशिखण्डिनः । विशदः पाण्डरे व्यक्ते शारदोजलदेऽपि च ॥ २११ ॥ Trikāṇḍaśeṣa 3.3.211
- वैजयन्ती सरटसरटौ पक्षिजलदौ स्पशौ तु चरसंयुगौ । स्तंभौ स्थूणाजडीभावौ यूपांशे कुलिशे स्वरुः ॥ ६४ ॥ Vaijayantī 6.1.64
- वैजयन्ती सरण्युसरण्यू वायुजलदौ संस्तरौ प्रस्तराध्वरौ । क्षये रोधे च संरोधः संवर्तोऽब्दे जगत्क्षये ॥ ७६ ॥ Vaijayantī 7.1.76