सनाभि
sanābhiपुं · masc.In 14 kośas: 13 synonym verses, 4 as a nānārtha head word.
भ्राता च भगिनी चापि भ्रातरावथ बान्धवः ।स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च निजः पुनः ॥ ५६१ ॥आत्मीयः स्वः स्वकीयश्च सपिण्डास्तु सनाभयः ।
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
आत्मीयः स्वजनो बन्धुराप्तो ज्ञातिश्च बान्धवः ।सनाभयः सपिण्डाश्च सगोत्राश्च समाः स्मृताः ॥ ५०९ ॥
अनुष्टुप्
genderपुंmasc.
सपिण्डश्चापि दायादः सनाभिः स्वेऽप्यथ स्त्रियाम् ।जातिता बन्धुता पुंसि ज्ञातिभावो नपुंसकम् ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
दौहित्री दुहितुः कन्या पौत्री नप्त्री सुतात्मजा ।प्रजावती भ्रातृजाया सपिण्डास्तु सनाभयः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
प्रख्य-प्रतीकाश-निभोपमानो-पमा-प्रकार-प्रतिम-प्रकाशाः ।संकाश-नीकाश-सनाभि-भूतरूपादयश्चोत्तरगाः समार्थाः ॥ ६६ ॥
उपजातिः
genderविadj.
सहकृत्वा सहकारी सहायः सामवायिकः ।सनाभिः सगोत्रो बन्धुश्च सोदर्यः अवरजोऽनुजः ॥ ४२ ॥
metre not recognised
genderपुंmasc.
बन्धुः स्वकीय आत्मीयः सपिण्डास्तु सनाभयः ।नपुंसकं क्लीबषण्ढौ पण्डो देहे पुरं वपुः ॥ २२७ ॥
अनुष्टुप्
genderपुंmasc.
सनाभयः सपिण्डाः स्युर्ज्ञातेयं ज्ञातिता स्मृता ।सति भर्तरि कुण्डः स्यान्मृते भर्तरि गोलकः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
सनाभयः सपिण्डाः स्युः पितुः सप्तान्तर्गता जनाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
प्रपितामहतातस्तु स्याद्वृद्धप्रपितामहः ।मामामहादयोऽप्येवं सपिण्डास्तु सनाभयः ॥
अनुष्टुप्
genderपुंmasc.
समानोदर्यसोदर्यौ सगर्म्यः सहजश्च सः ।सनाभयः सपिण्डाः स्युर्बन्धुस्वज्ञातिबान्धवाः ॥ ११३८ ॥
अनुष्टुप्
genderपुंmasc.
राजबीजी राजवंश्यो बीज्यो वंश्यश्च वंशजः ।स्युर्ज्ञातयः सगोत्राश्च सपिण्डास्तु सनाभयः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
वल्लभोऽध्यक्षदयितशुभलक्षपावाजिषु ।वर्षाभूः स्त्री तु शोथघ्न्या भूवल्ली भेकयोः पुमान् ॥विष्कम्भः प्रतिबन्धे च विस्तारयोगभेदयोः ।योगिबन्धभेदेऽर्गलारूपकाङ्गप्रभेदयोः ॥विस्रम्भः प्रणये केलिकोपविश्वासयोरपि ।विष्टभ्यो रोगभेदे स्यात्प्रतिबन्धे भवेत्पुमान् ॥वैदर्भं वाक्यवक्तत्वे वेदर्भी रीतिभिद्यपि ।शरभः पशुभेदे स्यात्करमे वानरेऽपि च ॥सनाभिः सदृशे पुंसि ज्ञातौ स्नेहयुतेऽपि च ।सुरभिः शल्लकीमातृसुरागोष्वपि च स्त्रियाम् ॥वसन्ते चम्पके जातीफलगन्धफले पुमान् ।क्लीबं गन्धाश्मनि स्वर्गे सुगन्धिकान्तयोस्त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 पा (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्धि (wrong syllable)