कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जनक

janakaपुं · masc.

In 16 kośas: 15 synonym verses, 6 as a nānārtha head word, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.556 · p. 25
वप्ता च जनकस्तातो बीजी जनयिता पिता ॥ ५५६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.28
स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.504 · p. 58
अम्बा सवित्री जननी च माता,वप्ता च तातो जनकः पिता च ।स्नुषा जनी पुत्रवधूर्वधूः स्यात्,प्रजावती भ्रातृवधूः स्मृता च ॥ ५०४ ॥
उपजातिः
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.100 · p. 31
ज्ञातेयं देहकर्त्ता तु तातो जनयिता पिता ।जन्यो वप्रश्च सविता वप्ता जन्मार्थकारकः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.87 · p. 209
तातस्ततः पिता वप्ता रेतोधा जनकोऽपि च ।[79b]बीजी जनयितासौ तु व्रती संस्कारकृद्यदि ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 38 · p. 18
सवित्री जननी माता जनकः सविता पिता ।देहापघनकायाङ्गं वपुः संहननं तनुः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.221 · p. 128
पिता जनकतातौ तु वप्ता जनयिता समौ ।रेतोधोबीजिनौ चापि पितृतातपितामहौ ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.53 · p. 4
धाविका दुग्धदा धात्री धाविको दुग्धदापतिः ।धात्रीपुत्रो धाविकेयो जनेता जनकः पिता ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.10 · p. 20
पिता तु जनकस्तातो वप्ता जनयितापि च ।अम्बा माता सवित्री च जनयित्री जनन्यपि ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.891 · p. 134
जनयिता जनित्रश्च रेतोधाः जनको भवेत् ।पितुः पिता पितामहः तत् पिता प्रपितामहः ॥ ८९१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 यि (wrong syllable); pāda 3, syllable 7 म (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.172 · p. 94
तातः पिता प्रसविता वप्ता जनयिता गुरुः ।जन्मदो जनको जन्यो जनितापि च कुत्रचित् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1123 · p. 138
जनकः सविता पुत्रस्तनयः सूनुरात्मजः ।नन्दनस्तनया पुत्री दुहिता च सुता तयोः ॥ ११२३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1835 · p. 223
अर्जुनः कार्तवीर्यः स्यात् पृथुर्वैन्य उभौ समौ ।निषधस्तु नलोऽथ स्याज्जनको मिथिलाधिपः ॥ १८३५ ॥
अनुष्टुप्
genderपुंmasc.
सदाशिवः स्थिरा शूली जयन्तश्चतुराननः ।जनको जयजो वाममणिबन्धगतो ज-कः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.29 · p. 175
बीजी तु जनको वप्ता तातो जनयिता पिता ।पितामहः पितृपिता तत्पिता प्रपितामहः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.41 · p. 10
अलकः कुटिले केशे अलका नगरीत्यपि ।जनकः पितरि प्रोक्तो जनको मुनिभेदयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.23 · p. 138
कनकं तु हेम्निचाम्पेयचम्पकपलाशककाञ्चनारे ।धत्तूरके क्वचन पीतकचन्दनेऽपिस्याद्दानवेऽपि नरको जनको मुनौ च ॥ २३ ॥
वसन्ततिलका
meaningsमुनि
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.781 · p. 115
धनञ्जयेन तु प्रोक्ता जनित्री मातरि स्त्रियाम् ।जनकः पुंसि पितरि सीताताते च राजनि ॥ ७८१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.782 · p. 115
उत्पादके तु त्रिषु स क्लीबं तु जननं कुले ।उत्पत्तौ च स्त्रियां त्वेषा जननी मातरि स्मृता ॥ ७८२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.74 · p. 181
चूलिका नाटकाङ्गे स्यात् करिणां कर्णमूलके ।जनकस्तातनृपयोश्चूतकः कूपकाम्रयोः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2092 · p. 253
श्रमणे जीवयितरि वृद्धिजीविनि जीवकः ।जर्जरस्त्रिषु जीर्णेऽपि जनकोऽपि नृपान्तरे ॥ २०९२ ॥
अनुष्टुप्

जनक as a meaning in nānārtha verses

  • कोषकल्पतरु ततततोऽनिले ना जनके च वीणा- दिकेऽन्तिमेऽथ त्रिषु विस्तृते स्यात् । व्याप्तेऽथ भावक्तयुता द्विहीना मेद्येऽन्यथा स्युः सुरते तु गुह्ये ॥ २ ॥ Koṣakalpataru 6.16.2
  • कोषकल्पतरु ताततातोऽनुकम्प्ये जनकेऽपि जातं जातौ गणे च त्रिषु तु प्रजाते । त्राते तु पातः पतनेऽथ रातो लातश्च दत्तेऽप्युररीकृते च ॥ १२ ॥ Koṣakalpataru 6.16.12
  • कोषकल्पतरु नयप्राकारमूले निकरे चयः स्यात् समाहृतौ चाथ नयश्च नीतौ । द्यूतप्रभेदे जनके शयस्तु निद्राहिशय्याकरवाचकश्च ॥ ३ ॥ Koṣakalpataru 6.26.3
  • नानार्थार्णवसंक्षेप मैथिलमेधावी तु शुके द्वे स्यान्मेधावति तु भेद्यवत् । मैथिलस्तु प्रदोषे ना जनकाख्ये च राजनि ॥ १४५१ ॥ Nānārthārṇavasaṃkṣepa 4.1451
  • शब्दरत्नावली वप्तृलूता पिपीलिकायान्तु मर्कटे च गदान्तरे । वप्तः स्यात्पुंसि जनके वापके वाच्यलिङ्गकः ॥ Śabdaratnāvalī 7.16.49
  • शब्दरत्नावली जन्यजया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥ जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥ वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥ तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥ तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ Śabdaratnāvalī 7.26.17
  • तन्त्राभिधान जवाममणिबन्धगतश्चतुर्मुखो जयन्तकः । जपज्योतिरनाकारो जनक उत जा-र्णकः ॥ २५ ॥ Tantrābhidhāna 6.25