कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गोलक

golakaपुं · masc.

In 14 kośas: 15 synonym verses, 7 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.551 · p. 24
स्वजाते त्वौरसोरस्यौ मृते भर्तरि जारजः ।गोलकोऽथामृते कुण्डे भ्राता तु स्यात्सहोदरः ॥ ५५० ॥समानोदर्यसोदर्यसगर्भसहजा अपि ।सोदरश्च स तु ज्येष्ठः स्यात्पित्र्यः पूर्वजोऽग्रजः ॥ ५५१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.56
अमृते जारजः कुण्डो मृते भर्तरि गोलकः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.279 · p. 119
उत्सृष्टा गोलकाः पुंसि कणयो लोहयन्त्रके ।शरपर्यायाश्रयधिर्द्वयोः स्यादिषुधी स्त्रियाम् ॥ २७९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.278 · p. 163
परिपक्वां सितालेहनिर्वापितकदुष्णकाम् ।सा कङ्कणी कुण्डली स्यान्मोदको गोलकः पुनः ॥ २७८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.71 · p. 207
स्वजाते त्वौरसोरस्यौ सुतादौ क्षेत्रजोऽन्यजे ।अमृते जारजः कुण्डो मृते भर्त * [रि] गोलकः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.214 · p. 127
[70] गोलकश्च मृते पत्यावमृते कुण्ड एव सः ।एते शब्दाः पुंसलिङ्गाः सगर्भः सोदरः समौ ॥ २१४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.101 · p. 38
सनाभयः सपिण्डाः स्युर्ज्ञातेयं ज्ञातिता स्मृता ।सति भर्तरि कुण्डः स्यान्मृते भर्तरि गोलकः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.56 · p. 4
जार उपपतिः कुण्डो जारजो गोलकोऽन्यजः ।गर्भो दोहदकं भ्रूणः पोतो बालोऽर्भकः शिशुः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 उ (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.880 · p. 132
मृते भर्तरि यो जातः स गोलक उदाहृतः ॥ ८८० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.189 · p. 96
पत्यौ स्थितेऽन्यजः कुण्डो मृते तु गोलगोलकौ ॥
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.143 · p. 200
स्वजाते त्वौरसौरस्यौ भवेद्गोलश्च गोलकः ।मृते पत्यौ जारजोऽथ भ्रातरि स्यात्सहोदरः ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.60 · p. 77
अवरेटः सवर्णायां जाराज्जातः सवर्णकात् ।पत्यौ जीवति कुण्डोऽसौ भर्तर्यसति गोलकः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.61 · p. 77
अविवाह्यासु जाताश्च तथा स्युः कुण्डगोलकाः ।ये च प्रव्रजितापुत्रास्तथा प्रव्रजितस्य ये ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.62 · p. 77
क्षत्रकुण्डः पट्टबन्धो भोजः क्षत्रियगोलकः ।देवप्रैष्यो विप्रकुण्डो ग्रामप्रैष्यस्तु गोलकः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.63 · p. 77
मणिकारो वैश्यकुण्डः शंखकारस्तु गोलकः ।शूद्रकुण्डो मालवको घासहारस्तु गोलकः ॥ ६३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 मा (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.65 · p. 144
स्यात्पूगकोशे कृमिपर्वते चपाके शिरस्त्रेऽपि च खोलको ना ।स्याद्गोलको ना मणिके गुडेऽपितोयस्थितग्राव्णि तु कूपकः स्यात् ॥ ६५ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.694 · p. 107
कैवर्ते मुस्तकेऽधीते गोलकस्तु द्वयोरयम् ।जारजे भर्तरि मृते ना तु पिण्डेऽपि कम्बले ॥ ६९४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.695 · p. 107
मणिके चाजयस्त्वस्य वाच्यत्वेनापठद्द्वयम् ।गुडं गोलं च तदसत् प्राणिभेदे तु सा स्त्रियाम् ॥ ६९५ ॥
अनुष्टुप्
meaningsमणिक
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास गकारादयः Paramānandīyanāmamālā 5.9.163 · p. 182
गोलको जारजे रण्डापुत्रे मणिकसंज्ञके ।गोपतिर्वल्लवे रुद्रे सागरे वरुणेन्द्रयोः ॥ १६३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.69 · p. 181
गुण्डकः स्नेहपात्रे स्याद् धूलौ च मण्डलेऽपि च ।गैरिकं कणके धातौ गृह्यकण्ठोकनिघ्नयोः(?) ॥गोलकस्तु गुडे जारात् विधवातनयेऽपि च ।गोरङ्कुः पक्षिभेदे स्यान्नग्नके वन्दितेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.17 · p. 97
नीचेऽपि क्षुल्लको मूर्धत्राणौ नाकौ च खोलकः ।चौरोन्दुरू च खनकौ गोलकौ मणिजारजौ ॥ १७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.23 · p. 240
खोलकः पूगकोशे स्यात् भग्नभाण्डे शिरस्त्रके ।गोलको मणिके पिण्डे कंबले विधवासुते ॥ २३ ॥
अनुष्टुप्

गोलक as a meaning in nānārtha verses

  • धरणिकोश पिण्डपिण्डं गन्धरसे गृहाग्रिमगृहे स्यात्पिण्डमाजीवने जङ्घायाः पिशिते तथौड्रकुसुमे दाने पितृव्येऽपि च । पिण्डौ सिह्लकगोलकौ च तगरीखर्जूरभेदौ स्मृतौ पिण्डी ज्ञाननिरूपणार्थक उपन्यासस्तथालाबुका ॥ Dharaṇikośa 12.2.7
  • कल्पद्रुकोशः पिण्डश्रोण्यौषध्योः कटो मोहे भ्रमः कुम्भो घटेऽपि च । वृन्दागोलकयोः पिण्डः स्फुलिङ्गलेशयोः कणः ॥ १११ ॥ Kalpadrukośa 3.5.111
  • कोषकल्पतरु मणिवेणिः[280a]केशनिबन्धने च सरितोः स्यात्संगमे च स्त्रियां । जीमूताभिधभेषजे मणिरजाकण्ठस्तने गोलके । रत्ने मेहनकाग्रके च युगुलेऽणिस्त्वाणिरक्षाग्रके कीलेऽश्राववधौ द्वयोरथ कुणिस्तुन्नद्रुमे कोकिले ॥ १५ ॥ Koṣakalpataru 6.15.15
  • परमानन्दीयनाममाला गुडगुडस्तु गोलके हस्तिसंनाहेक्षुविकारयोः । गोष्ठं वने गवां स्थाने गोष्ठी संलापपर्षदोः ॥ १५१ ॥ Paramānandīyanāmamālā 5.9.151
  • शब्दरत्नावली गुडगडो मत्स्यप्रभेदे स्यात्परिखाव्यवधानयोः । गुडो द्विरदसन्नाहे गोलकेक्षुविकारयोः ॥ Śabdaratnāvalī 7.13.11
  • शब्दरत्नावली मण्डूकपर्णप्रासादवीथीकुन्दद्रुमानां गाढावृतावपि । मण्डूकपर्णी मञ्जिष्ठाब्राह्मण्योः पुंसि गोलके ॥ Śabdaratnāvalī 7.15.98