ज्ञाति
jñātiपुं · masc.In 13 kośas: 16 synonym verses, 5 as a nānārtha head word, 17 as a meaning of another word.
भ्राता च भगिनी चापि भ्रातरावथ बान्धवः ।स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च निजः पुनः ॥ ५६१ ॥आत्मीयः स्वः स्वकीयश्च सपिण्डास्तु सनाभयः ।
अनुष्टुप्
genderपुंmasc.
सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
आत्मीयः स्वजनो बन्धुराप्तो ज्ञातिश्च बान्धवः ।सनाभयः सपिण्डाश्च सगोत्राश्च समाः स्मृताः ॥ ५०९ ॥
अनुष्टुप्
genderपुंmasc.
सर्वेऽमी पितरः पूर्वे पूर्वजा अथ बान्धवाः ।सगोत्रः स्वजनो ज्ञातिः सगन्धो बन्धुरित्यपि ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
नरासिराशिवमतिदुन्दुभीनामृषेरपि ।वृष्णिपाण्यञ्जलिज्ञातिगिरीणां कलिना सह ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
पितरः पितृवंश्याः[80b] स्युर्मातुर्मातामहाः कुले ।स्वो ज्ञातिःस्वजनो बन्धुर्बान्धवश्चारिकोऽपि सः ॥ १० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वारुण्डः सेकपात्रे गडु-वरुण-गुण-भ्रूण-नाडीव्रणाः स्युःकर्णो वृष्णिश्च घृष्णिर्घृणिरथ वमति-ज्ञाति-पिष्टात-पोताः ।व्रातः कुन्तोऽस्त्रवाची हरिदपि पृषत-ग्रन्थिरर्थोऽतिथिः स्या-दुद्गीथो रोमन्थ-सार्थावगद-गद-मदाः कासदः कासमर्दः ॥ १६ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा
genderपुंmasc.
विपणिर्भे श्रवणः स्या-त्तरणिस्त्वर्कादिके कफणिः ।गर्तो वर्तिर्वस्तिःस्वातिर्ज्ञातिर्वितस्ति-गव्यूती ॥ २४ ॥
metre not recognised
genderपुंस्त्रीm. f.
समौ पिता च माता च पितरावेकशेषतः ।बान्धवः स्वजनो ज्ञातिः सगोत्रः स्वनिजावपि ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
कुल्माषमाधवौ पक्षराशिदुन्दुभिरालयः ।निष्कुहः कलहो ज्ञातिपाणिवृष्ण्यविकुक्ष्यः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
स्वः स्वजनः सगोत्रश्च ज्ञातिर्बन्धुश्च बान्धवः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)
genderपुंmasc.
ज्ञातिस्वबन्धुदायादगोत्रस्वजनबान्धवाः ।ज्ञातेयं ज्ञातिभावे स्याद् बन्धुवृन्दे च बन्धुता ॥
अनुष्टुप्
genderपुंmasc.
समानोदर्यसोदर्यौ सगर्म्यः सहजश्च सः ।सनाभयः सपिण्डाः स्युर्बन्धुस्वज्ञातिबान्धवाः ॥ ११३८ ॥
अनुष्टुप्
genderपुंmasc.
रीतिः प्रवृत्तौ वृद्धौ तु स्फातिर्ज्ञातिस्तु बान्धवे ।प्रमा तु प्रमितौ श्रायः श्रयणे मार्जने मृजा ॥ १६९९ ॥
अनुष्टुप्
genderपुंmasc.
श्वश्रुर्वृद्धः शतानीको जरन्तः स्यादथांशकः ।सगन्धाज्ञातिदायादा मातुलो मातुकेशटः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
राजबीजी राजवंश्यो बीज्यो वंश्यश्च वंशजः ।स्युर्ज्ञातयः सगोत्राश्च सपिण्डास्तु सनाभयः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
रोगराजेऽप्यथो जन्तुः प्राणिमात्रे नरे त्वपि ।उक्तो निरुक्तेऽथ ज्ञातिरिक्ष्वाकुकुलसंभवे ॥ ५३ ॥
अनुष्टुप्
meaningsइक्ष्वाकुकुलसंभव
नृपभेदेऽप्यथो जायुः पित्ते स्याद्भेषजेऽपि च ।जिनस्त्वर्हति शाक्ये च जूटस्तु निकुरम्बके ॥ ५४ ॥
अनुष्टुप्
meaningsनृपभेद
doubtful
ज्ञाति as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् स्वस्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने । Amarakośa 3.3.404
- धरणिकोश दायादआमोदौ हर्षगन्धौ तु दायादौ ज्ञातिबान्धवौ । तमोनुदो[48]ऽग्रिचन्द्रार्काः प्रतिपत्तिथिसंविदोः ॥ Dharaṇikośa 17.1.6
- धरणिकोश सनाभिजृम्भे जृम्भणविकासे रम्भा वारयोषाप्सराः । सनाभिः सदृशे ज्ञातावात्मभूः स्मरवेधसोः । ककुभ् शास्त्रे दिशि ज्ञेया अनुष्टुब्वाचि छन्दसि ॥ Dharaṇikośa 23.1.3
- कोषकल्पतरु दायादप्रह्लादः प्रमदे तथा दितिसुते दायाद उक्तः सुत- ज्ञात्योच्छाग बिडाल केकिषु पुनर्मेनाद उक्तो बुधैः । वृद्ध्याजीवनके कुसीद * * * त्रय्यां कुसीदप्रदे गोविन्दो गरुडध्वजे सुरगुरौ गोष्ठाधिपे वाच्यवत् ॥ ३५ ॥ Koṣakalpataru 6.19.35
- कोषकल्पतरु सनाभिआरम्भः सुरभिः पुमानृतुपतौ गन्धे च गन्धोपले चाम्पेये सुमनःफले च कनके स्त्री शल्लकी गोगतः । सद्गन्धे रुचिरे च वाच्यवदथ ज्ञातौ सनाभिः[30a] समे वर्षाभूर्नरि भेककिंचुलुकयोर्वृश्चीकभेक्योः स्त्रियाम् ॥ ५२ ॥ Koṣakalpataru 6.24.52
- कोषकल्पतरु स्वअर्थान्तरे त्वव्ययकं स्वभाव- ज्ञात्यात्मसु स्वो नरि के स्वकेऽस्त्री । आत्मीय उक्तः पर[76a]लिङ्गकोऽयं Koṣakalpataru 6.29.2
- नानार्थार्णवसंक्षेप स्वधने तु नप् पुमान् ज्ञातौ तकारान्तं तु सत् त्रिषु । सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते बुधे ॥ २० ॥ Nānārthārṇavasaṃkṣepa 1.5.20
- नानार्थार्णवसंक्षेप जन्यक्ली युद्धे जनितव्ये च त्रि तूत्पादयितव्यके । जनितर्यपि जामातुः स्निग्धेषु ज्ञातयस्तु ये ॥ ४५५ ॥ Nānārthārṇavasaṃkṣepa 2.5.455
- नानार्थार्णवसंक्षेप नीकद्वे ज्ञातौ च खगे चाथ न्युब्जो भव्याह्वये तरौ । ना तत्फले तु क्ली त्रिस्तु कुब्जेऽधोमुख एव च ॥ ६९५ ॥ Nānārthārṇavasaṃkṣepa 2.5.695
- परमानन्दीयनाममाला स्वसा लक्ष्म्यां सः परोक्षे स्वो ज्ञातमात्मनि च स्मृतः । स्वरव्ययं स्वर्गभद्रपरलोकगतिष्वथ ॥ ४० ॥ Paramānandīyanāmamālā 1.40
- परमानन्दीयनाममाला दायाददग्धभासितयोश्चाथ दायादो ज्ञातिपुत्रयोः । दुकूलं पट्टकूले स्याद्दले भूर्जस्य सम्मतम् ॥ २४३ ॥ Paramānandīyanāmamālā 5.16.243
- शब्दरत्नावली सनाभिवल्लभोऽध्यक्षदयितशुभलक्षपावाजिषु । वर्षाभूः स्त्री तु शोथघ्न्या भूवल्ली भेकयोः पुमान् ॥ विष्कम्भः प्रतिबन्धे च विस्तारयोगभेदयोः । योगिबन्धभेदेऽर्गलारूपकाङ्गप्रभेदयोः ॥ विस्रम्भः प्रणये केलिकोपविश्वासयोरपि । विष्टभ्यो रोगभेदे स्यात्प्रतिबन्धे भवेत्पुमान् ॥ वैदर्भं वाक्यवक्तत्वे वेदर्भी रीतिभिद्यपि । शरभः पशुभेदे स्यात्करमे वानरेऽपि च ॥ सनाभिः सदृशे पुंसि ज्ञातौ स्नेहयुतेऽपि च । सुरभिः शल्लकीमातृसुरागोष्वपि च स्त्रियाम् ॥ वसन्ते चम्पके जातीफलगन्धफले पुमान् । क्लीबं गन्धाश्मनि स्वर्गे सुगन्धिकान्तयोस्त्रिषु ॥ Śabdaratnāvalī 7.24.13
- शब्दरत्नावली जन्यजया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥ जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥ वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥ तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥ तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ Śabdaratnāvalī 7.26.17
- शब्दरत्नावली स्वस्वः पुमानात्मनि ज्ञातौ त्रिष्वात्मीपेऽस्त्रियां धने । Śabdaratnāvalī 7.29.2
- शब्दरत्नावली कुटुम्बकुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ । कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी ॥ गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ । गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे ॥ ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते । त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥ Śabdaratnāvalī 7.29.29
- शब्दरत्नाकर स्वत्रिषु स्वीये नरि ज्ञातौ स्वो धने तु नपुंसके । साधौ श्रेष्ठे वर्तमाने सत्ये चाभ्यर्हिते च सत् ॥ २२४८ ॥ Śabdaratnākara 4.1.2248
- त्रिकाण्डशेष स्वस्वोऽस्त्रियां ज्ञातिधनयोः स्वमात्मनि नपुंसकम् । आधेयधारणे सत्त्वे मेलकेऽपि च सम्भवः ॥ ४२५ ॥ Trikāṇḍaśeṣa 3.3.425